ऋ॒चां प्राची॑ मह॒ती दिगु॑च्यते । दक्षि॑णा-माहु॒ र्यजु॑षामपा॒रां ।अथ॑र्वणा॒-मग्ङि॑रसां प्र॒तीची᳚ । साम्ना॒-मुदी॑ची मह॒ती दिगु॑च्यते ॥ ऋ॒ग्भिः पू᳚र्वा॒ह्णे दि॒वि दे॒व ई॑यते । य॒जु॒र्वे॒दे ति॑ष्ठति॒ मद्ध्ये॒ अह्नः॑ ।सा॒म॒वे॒दे-ना᳚स्तम॒ये मही॑यते । वेदै॒-रशू᳚न्य-स्त्रि॒भिरे॑ति॒ सूर्यः॑ ॥ ऋ॒ग्भ्यो जा॒ताꣳ स॑र्व॒शो मूर्त्ति॑-माहुः । सर्वा॒ गति॑ र्याजु॒षी है॒व शश्व॑त्
कोर्वै (Index)
(शश्व॑ - दासत॒ - सिषा॑सता॒ - मास॑त - ह॒विष् - पतिः॒ - कनी॑या॒न् - तस्मा᳚द् विश्व॒सृजो॒ऽष्टौ च॑)