TB 3.12.8

3 पञ्चाशत्

3.12.8 अनुवाकं 8 -वैश्वसृजचयनम्

3.12.8.1
सर्वां॒ दिवꣳ॒॒ सर्वा᳚न् दे॒वान् दि॒वि । यच्चा॒न्त र्भू॒तं प्रति॑ष्ठितं ।सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्.षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद-ध्रु॒वा सी॑द ॥ याव॑ती॒ स्तार॑काः॒ सर्वाः᳚ । वित॑ता रोच॒ने दि॒वि । सर्वा॒स्ताः ॥ ऋचो॒ यजूꣳ॑षि॒ सामा॑नि
कोर्वै (Index)
(सामा॑नि - ब्र॒ह्मन् प्रति॑ष्ठितं - कृ॒त्वा त्रीणि॑ च)
3.12.8.2
अ॒थ॒र्वा॒ङ्गि॒रस॑श्च॒ ये । सर्वा॒स्ताः ॥ इ॒ति॒हा॒स॒पु॒रा॒णञ्च॑ ।स॒र्प॒दे॒व॒ज॒नाश्च॒ ये । सर्वा॒स्ताः ॥ ये च॑ लो॒का ये चा॑लो॒काः ।अ॒न्त र्भू॒तं प्रति॑ष्ठितं । सर्वा॒स्ताः ॥ यच्च॒ ब्रह्म॒ यच्चा᳚ब्र॒ह्म ।अ॒न्त र्ब्र॒ह्मन् प्रति॑ष्ठितं
कोर्वै (Index)
(सामा॑नि - ब्र॒ह्मन् प्रति॑ष्ठितं - कृ॒त्वा त्रीणि॑ च)
3.12.8.3
सर्वा॒स्ताः ॥ अ॒हो॒रा॒त्राणि॒ सर्वा॑णि । अ॒द्र्ध॒मा॒साꣳश्च॒ केव॑लान् ।सर्वा॒स्ताः ॥ सर्वा॑नृ॒तून्-थ्सर्वा᳚न् मा॒सान् । स॒म्ॅव॒थ्स॒रञ्च॒ केव॑लं ।सर्वा॒स्ताः ॥ सर्वं॒ भूतꣳ॒॒ सर्वं॒ भव्यं᳚ । यच्चा॒तोऽधि॑ भवि॒ष्यति॑ । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा ( ) । उप॑ काम॒दुघा॑ दधे । तेनर्.षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ।
कोर्वै (Index)
(सामा॑नि - ब्र॒ह्मन् प्रति॑ष्ठितं - कृ॒त्वा त्रीणि॑ च)