ब्रह्म॒ वै चतु॑र्.होतारः । चतु॑र्.होतृ॒भ्योऽधि॑ य॒ज्ञो निर्मि॑तः । नैनꣳ॑ श॒प्तं । नाभिच॑रित॒-माग॑च्छति । य ए॒वं ॅवेद॑ ॥ यो ह॒ वै चतु॑र्.होतृणां चतुर्.होतृ॒त्वं ॅवेद॑ । अथो॒ पञ्च॑ होतृत्वं । सर्वा॑ हास्मै॒ दिशः॑ कल्पन्ते ।वा॒चस्पति॒र्॒. होता॒ दश॑होतॄणां । पृ॒थि॒वी होता॒ चतु॑र्.होतॄणां
कोर्वै (Index)
(होता॒ चतु॑र्.होतॄणाꣳ - स्रु॒ति - श्च॑कार - वा - भवन्त्य - ग्निष्टो॒मेना᳚ - प्नोति॒ - वयाꣳ॑सि॒ - वयाꣳ॑सि॒ - सर्व॒स्याप्त्यै॒ सर्व॒स्याव॑रुद्ध्यै॒ - वेद॑ - वृञ्जते - चिनु॒ते - +नव॑ च)