दे॒वेभ्यो॒ वै स्व॒र्गो लो॒कस्ति॒रो॑ ऽभवत् । ते प्र॒जाप॑ति-मब्रुवन्न् । प्रजा॑पते स्व॒र्गो वै नो॑ लो॒कस्ति॒रो॑ऽभूत् । तमन्वि॒च्छेति॑ ।तं ॅय॑ज्ञ्क्र॒तुभि॒-रन्वै᳚च्छत् । तं ॅय॑ज्ञ्क्र॒तुभि॒ र्नान्व॑विन्दत् ।तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् । तदिष्टी॑ना-मिष्टि॒त्वं । एष्ट॑यो ह॒ वै नाम॑ । ता इष्ट॑य॒ इत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ।
TB 3.12.4
7 पञ्चाशत्
॥
3.12.4 अनुवाकं 4 -तासां ब्राह्मणम्
तं तपो᳚ऽ ब्रवीत् । प्रजा॑पते॒ तप॑सा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै तपो᳚ऽ स्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं तपो॑ भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ ।स ए॒तमा᳚ग्ने॒य-म॒ष्टाक॑पालं॒ निर॑वपत् । तप॑से च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यं तपो॑ ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्य ꣳ ह॒ वा अ॑स्य॒ तपो॑ भवति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ तप॑से॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तꣳ श्र॒द्धा-ऽब्र॑वीत् । प्रजा॑पते श्र॒द्धया॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै श्र॒द्धाऽस्मि॑ । मां नु य॑जस्व । अथ॑ ते स॒त्या श्र॒द्धा भ॑विष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तमा᳚ऽग्ने॒य-म॒ष्टाक॑पालं॒ निर॑वपत् । श्र॒द्धायै॑ च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्या श्र॒द्धाऽभ॑वत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्या ह॒ वा अ॑स्य श्र॒द्धा भ॑वति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑ चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा᳚ श्र॒द्धायै॒ स्वाहा᳚ ।अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तꣳ स॒त्य-म॑ब्रवीत् । प्रजा॑पते स॒त्येन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै स॒त्यम॑स्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यꣳ स॒त्यं भ॑विष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तमा᳚ऽग्ने॒य-म॒ष्टाक॑पालं॒ निर॑वपत् । स॒त्याय॑ च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यꣳ स॒त्यम॑भवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य स॒त्यं भ॑वति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॑ स॒त्याय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तं मनो᳚ऽब्रवीत् । प्रजा॑पते॒ मन॑सा॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै मनो᳚ऽस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं मनो॑ भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ । स ए॒तमा᳚ऽग्ने॒य-म॒ष्टाक॑पालं॒ निर॑वपत् । मन॑से च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यं मनो॑ऽभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य॒ मनो॑ भवति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैन दे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ मन॑से॒ स्वाहा᳚ ।अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
तं चर॑ण-मब्रवीत् । प्रजा॑पते॒ चर॑णेन॒ वै श्रा᳚म्यसि । अ॒हमु॒ वै चर॑णमस्मि । मां नु य॑जस्व । अथ॑ ते स॒त्यं चर॑णं भविष्यति । अनु॑ स्व॒र्गं ॅलो॒कं ॅवे॒थ्स्यसीति॑ ।स ए॒तमा᳚ऽग्ने॒य-म॒ष्टाक॑पालं॒ निर॑वपत् । चर॑णाय च॒रुं । अनु॑मत्यै च॒रुं । ततो॒ वै तस्य॑ स॒त्यं चर॑णमभवत् । अनु॑ स्व॒र्गं ॅलो॒कम॑विन्दत् । स॒त्यꣳ ह॒ वा अ॑स्य॒ चर॑णं भवति । अनु॑स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । य ए॒तेन॑ ह॒विषा॒ यज॑ते । य उ॑चैनदे॒वं ॅवेद॑ । सोऽत्र॑ जुहोति । अ॒ग्नये॒ स्वाहा॒ चर॑णाय॒ स्वाहा᳚ । अनु॑मत्यै॒ स्वाहा᳚ प्र॒जाप॑तये॒ स्वाहा᳚ ।स्व॒र्गाय॑ लो॒काय॒ स्वाहा॒ऽग्नये᳚ स्विष्ट॒कृते॒ स्वाहेति॑ ।
ता वा ए॒ताः पञ्च॑ स्व॒र्गस्य॑ लो॒कस्य॒ द्वारः॑ । अपा॑घा॒ अनु॑वित्तयो॒ नाम॑ । तपः॑ प्रथ॒माꣳ र॑क्षति । श्र॒द्धा द्वि॒तीयां᳚ । स॒त्यं तृ॒॒तीयां᳚ । मन॑श्चतु॒र्थीं । चर॑णं पञ्च॒मीं ।अनु॑ ह॒ वै स्व॒र्गं ॅलो॒कं ॅवि॑न्दति । का॒म॒चारो᳚ऽस्य स्व॒र्गे लो॒के भ॑वति । य ए॒ताभि॒-रिष्टि॑भि॒-र्यज॑ते । य उ॑चैना ए॒वं ॅवेद॑ ।तास्व॑न्वि॒ष्टि । प॒ष्ठौ॒ही॒ व॒रां द॑द्यात् कꣳ॒॒सञ्च॑ । स्त्रियै॑ चाभा॒रꣳ समृ॑द्ध्यै ।