यच्चा॒मृतं॒ ॅयच्च मर्त्यं᳚ । यच्च॒ प्राणि॑ति॒ यच्च॒ न । सर्वा॒स्ता इष्ट॑काः कृ॒त्वा । उप॑ काम॒दुघा॑ दधे । तेनर्.षि॑णा॒ तेन॒ ब्रह्म॑णा । तया॑ दे॒वत॑या-ऽङ्गिर॒स्वद्-ध्रु॒वा सी॑द ॥ सर्वाः॒ स्त्रियः॒ सर्वा᳚न् पुꣳ॒॒सः । सर्वं॒ न स्त्री॑-पुमञ्च॒ यत् ।सर्वा॒स्ताः ॥ याव॑न्तः पाꣳ॒॒सवो॒ भूमेः᳚
कोर्वै (Index)
(भूमे॒ - रधि॒ - विष्ठि॑ताः पृथि॒वीमनु॒ सर्वा॒स्ता - उ॒च्यत॑ - मानु॒षꣳ - सी॑द ( ) )