अनुवाकः 12 TS 2.3.12

(A12)

(मु॒ञ्च॒ति॒ - च॒रुꣳ - स॒प्तद॑श च)

अनुवाकः 12 - Complete Audio

TS 2.3.12 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ति॒ र्वरु॑णा॒याश्व॑मनय॒थ् स स्वां
PS1.2 दे॒वता॑मार्च्छ॒थ् स पर्य॑दीर्यत॒ स
PS1.3 ए॒तं ॅवा॑रु॒णं चतु॑ष्-कपालमपश्य॒त् तं
PS1.4 निर॑वप॒त् ततो॒ वै स
PS1.5 व॑रुण- पा॒शाद॑मुच्यत॒ वरु॑णो॒ वा
PS1.6 ए॒तं गृ॑ह्णाति॒ योऽश्वं॑ प्रतिगृ॒ह्णाति॒
PS1.7 याव॒तोऽश्वा᳚न् प्रतिगृह्णी॒यात् ताव॑तो वारु॒णान्
PS1.8 चतु॑ष्कपाला॒न् निर्व॑पे॒द्-वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑
PS1.9 धावति॒ स ए॒वैनं॑ ॅवरुणपा॒शान्
PS1.10 -मु॑ञ्चति॒ - [ ]
PS2.1 चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒
PS2.2 एक॒मति॑रिक्तं॒ निर्व॑पे॒द्-यमे॒व प्र॑तिग्रा॒ही भव॑ति॒
PS2.3 यं ॅवा॒ नाद्ध्येति॒ तस्मा॑दे॒व
PS2.4 व॑रुणपा॒शान् मु॑च्यते॒ यद्यप॑रं प्रतिग्रा॒ही
PS2.5 स्याथ् सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वा ऽऽदि॒त्यमु॑च्चा॒रं
PS2.6 कु॑रुते॒ ऽपो॑ऽवभृ॒थमवै᳚त्य॒फ्सु वै वरु॑णः
PS2.7 सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ऽपोन॒प्त्रीयं॑
PS2.8 च॒रुं ( ) पुन॒रेत्य॒
PS2.9 निर्व॑पेद॒फ्सु यो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ॅयोनिं॑
PS2.10 गमयति॒ स ए॑नꣳ शा॒न्त
PS2.11 उप॑ तिष्ठते

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.3.12.1 TS 2.3.12.1
प्र॒जाप॑ति॒ र्वरु॑णा॒याश्व॑मनय॒थ् स स्वां दे॒वता॑मार्च्छ॒थ् स पर्य॑दीर्यत॒ स ए॒तं ॅवा॑रु॒णं चतु॑ष्-कपालमपश्य॒त् तं निर॑वप॒त् ततो॒ वै स व॑रुण- पा॒शाद॑मुच्यत॒ वरु॑णो॒ वा ए॒तं गृ॑ह्णाति॒ योऽश्वं॑ प्रतिगृ॒ह्णाति॒ याव॒तोऽश्वा᳚न् प्रतिगृह्णी॒यात् ताव॑तो वारु॒णान् चतु॑ष्कपाला॒न् निर्व॑पे॒द्-वरु॑णमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वैनं॑ ॅवरुणपा॒शान् -मु॑ञ्चति॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वरु॑णाय । अश्व᳚म् । अ॒न॒य॒त् । सः । स्वाम् । दे॒वता᳚म् । आ॒र्च्छ॒त् । सः । परीति॑ । अ॒दी॒र्य॒त॒ । सः । ए॒तम् । वा॒रु॒णम् । चतु॑ष्कपाल॒मिति॒ चतुः॑ - क॒पा॒ल॒म् । अ॒प॒श्य॒त् । तम् । निरिति॑ । अ॒व॒प॒त् । ततः॑ । वै । सः । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । अ॒मु॒च्य॒त॒ । वरु॑णः । वै । ए॒तम् । गृ॒ह्णा॒ति॒ । यः । अश्व᳚म् । प्र॒ति॒गृ॒ह्णातीति॑ प्रति - गृ॒ह्णाति॑ । याव॑तः । अश्वान्॑ । प्र॒ति॒गृ॒ह्णी॒यादिति॑ प्रति - गृ॒ह्णी॒यात् । ताव॑तः । वा॒रु॒णान् । चतु॑ष्कपाला॒निति॒ चतुः॑ - क॒पा॒ला॒न् । निरिति॑ । व॒पे॒त् । वरु॑णम् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । ए॒न॒म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

" (अथ द्वितीयकाण्डे तृतीयप्रपाठके द्वादशोनुवाकः)। (अश्वदानवत इष्टिविधिः एकादशे त्विष्टिरुक्ता दीर्घरोग्यायुरर्थिनोः। अथ द्वादशेश्वदानवत इष्टिं विधास्यन्प्रस्तौति प्रजापतिरिति। अनयद्दत्तवान्। देवस्य भावो देवता। स प्रजापतिः स्वकियं देवत्वमार्छदार्तमकरोत्। प्राजापत्यो वा अश्व इति श्रुतेः प्रजाप्रतिरेव पूर्वमश्वस्य देवता। तस्मिन्नश्वे वरुणाय दत्ते सतिस्वकीयमश्वस्वामित्वमपगतं तन्निमित्तेन दुःखेन स प्रजापतिः पर्यदीर्यत तदीयं परितो दीर्णं दीर्घरोगग्रस्तमभूत्। स च रोगो वरुणपाशरूपत्वाद्वारुणेष्ट्या निवृत्तः। इदानीमिष्टिं विधत्ते वरुणो वा इति। प्रतिगृह्णातीत्यस्यान्तर्भाविरण्यर्थत्वात्प्रतिग्राहयति ददातीत्ययमर्थः संपद्यते। कपालसंख्यां प्रशंसति चतुष्कपाला इति। अश्वसंख्यातोधिकं पुरोडाशं विधत्ते एकमतिरिक्तमिति। यमेवाश्वमित ऊर्ध्व यदा कदाचित्कालान्तरे प्रति ग्रहीष्यति दास्यति, अथवा यं कंचिदश्व प्रतिगृहीतं नाध्येति विस्मरति तदर्थोयमतिरिक्तः पुरोडाशः। निमित्तविशेषेणाङ्गाधिक्यं विधत्ते यद्यपरमिति। कांश्चिदश्वान्दत्वा दानीमेवष्ट्यनुष्ठाने सत्येकेनातिरिक्तेन सहितास्तावन्तः पुरोडाशाः पर्याप्ताः। यदा तु दानानन्तरमेवेष्टिर्नानुष्ठिता किंतु कंचित्कालमतिलङ्घ्य पुनरप्यपरोश्वो दत्तस्तदा सातिरिक्तान्दत्ताश्वसंख्याकान्पुरोडाशान्निरुप्य सौर्यमनुनिर्वपेत्। तेनादित्यमेबोर्ध्वचारिणं कुरुते। स चादित्यो विलम्बदोषं परिहरन्नुपरिष्टाद्वर्तत इत्यभिप्रायः। इष्ट्यङ्गत्वेनावभृथं विधत्ते अपोवभृथमिति। अपः प्राप्य तत्रावभृथं कर्म कुर्यात्। तेन वरुणो निराकृतो भवति। अङ्गान्तरं विधत्ते अपोनप्त्रीयमिति। अपोनप्ता देवता यस्य सोयमपोनप्त्रीयस्तं चरुमवभृथदेशाद्यज्ञभूमौ समागत्य निर्वपेत्। अप्सु योनिरुत्पत्तिर्यस्याश्वस्य सोयमप्सुयोनिः। उच्चैःश्रवसोश्वस्य समुद्रादुत्पत्तिः पुराणेषु प्रसिध्दा। तस्मादपोनप्त्रीयचरुणा तगश्वं त्वकीययोनिगामिनं करोति। स चाश्वः शान्तः सन्ररोगमनुत्पाद्येनं यजमानं सेवते। "

अत्र मीमांसा।

"तृतीयध्यायस्य चतृर्थपादे चिन्तितम् “अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते। दानद्वये लौकिके वा वैदिके वा भवेदियम्।। अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः। निषेधाल्लौकिकात्तत्र प्रायश्चित्तित्तिरियं भवेत्। न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित्। वैदिके तु श्रतं तस्मात्तत्प्रायश्चित्तयेत्र सा।।” इदमाम्नायते-----“यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्” इति। तत्र प्रतिग्रहशब्दो दानपर इत्यनन्तरमेव वक्ष्यते। तत्र विशेषाश्रवणालौकिवैदिकदानयोरप्यसाविष्टिरित्येकः पक्षः। न केसरिणो तदातीनि स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणमश्वदानं लौकिकं निषिध्दं, तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिरिति द्वितीयः पक्षः। “वरुणो वा एतं गृह्णाति योश्वं प्रतिगृह्णाति” इत्यश्वदाने जलोदरव्याधिरूपो दृष्टोदोषो वरुणग्रहवाक्येनोच्यते। न च लौकिकस्याश्वदानस्य तध्देतुत्वं प्रमितम्। वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम्। अतो वैदिकदाने सेष्टिः प्रायश्चित्तम्। अस्ति हि वैदिकमश्वदानं “वडवा दक्षिणा” इत्यादिश्रवणात्। अत्रैवान्यच्चिन्तितम् “यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः।"

प्रतिग्रहीतुर्दातुर्वा स्यादाद्योस्तु यथाविधि।। असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः। इष्टिः श्रुतां ततो दातुर्णिजर्थेपि विधिं नयेत्।।” पूर्वादाहृते वाक्ये प्रतिगृह्णीयादिति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिरिति चेन्न। उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः। उपक्रमश्चैवं श्रूयते “प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्छत्स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत्तं निरवपत्ततो वै स वरुणपाशादमुच्यत” इति। अनयद्दत्तवान्। स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान्। तेन च रोगेण ग्रस्तः प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यतेत्यत्र दातुरिष्टित्यगम्यते। असंजातविरोध्युपक्रमानुसारेण विधायक्रमपि प्रतिग्राहयेदित्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम्। पञ्चमाध्यायस्य द्वितीयपादे चिन्तितम्

“प्रतिग्रहे तु बह्वश्वे पूर्वन्यायोस्ति वा न वा। अस्ति तत्साम्यतो मैवं पुरोडाशस्य शोषतः।।” ‘यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्’ इति। अत्र शतसंख्यादियुक्तबह्वश्वप्रतिग्रहे बहुपुरोडाशेषूदाहृतप्रत्यक्षवचनेन साहित्यं प्राप्तम्। तत्र पर्वन्यायेन सर्वेषु पुरोडाशेष्वेकैकेधिश्रयणादिधर्मोनुष्ठेय इति चेन्मैवम्। तप्तेषु चतुर्षु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथा पुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति तावता कालेनासौ शुष्को भस्मीभवति तस्मादेकैकस्मिन्पुरोडाशे कृत्स्त्रधर्मसमापनंमित्येवं काण्डानुसमयोभ्युपेतव्यः। एकादशाध्यायस्य चतुर्थपादे चिन्तितम ‘तन्त्रे चतुष्कपालानां भेदो वा तन्महत्त्वतः।।

कुम्भीवत्तन्त्रता भैवं भेदः स्यात्मकृताविव।।’ इदं श्रूयते---‘यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्’ इति। यथा प्राजापत्येषु कुम्भ्या महत्त्वेन तन्त्रं तथात्रापि कपालमहत्त्वेन तन्त्रमिति चेत्। मैवम्। प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः। किंचात्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदशे पुरोडाशस्यैकस्य समाप्तेर्न कोपि पुरोडाशश्चतुष्कपालः सिध्येत्।

तस्मात्प्रतिपुरोडाशं कपालचतुष्ट्वभेदः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके

द्वादशोनुवाकः।। १२ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्राजापत्यो वा अश्व इति ॥ प्रजापतिरात्मदेवत्यमश्वं वरुणायानयत् अददात् । सोश्वं ददन्स्वमात्मानमश्वस्य देवतामार्छत् आर्तामकरोत्, ईशितव्यापगमात् देवतात्वहानिरेवार्तिः । ततश्च स प्रजापतिः विगळितदेवताभावः परितस्सर्वतोऽदीर्यत विपन्नोभवत् वरुणपाशैर्गृहीत इत्यर्थः । तदेवाह - वरुणो वा इत्यादि । ननु प्रतिग्रहीतुरिदमुच्यते ; प्रतिगृह्णातीतिदर्शनात् । नैवम् । उपक्रमावगतदातृश्रुतिविरोधात् ; दातृविषयमेवेदं विपरिणम्यते । उक्तं चेदं न्यायविधिः 'अवैदिकं च [अचोदितं] कर्मभेदात्' इत्यत्र 'सालिङ्गादार्त्विजे स्यात्' इति । तस्मादुपक्रमोपसंहाराविरोधात्मकलिङ्गबलेन प्रतिग्राहयतीत्यर्थो युज्यते । तस्माद्दाता प्रजापतिः वारुणेन चतुष्कपालेन वरुणपाशादमुच्यत । तस्मादन्योपि यावतोश्वान्प्रतिगृह्णीयात्प्रतिग्राहयेत् तावतो वारुणान् चतुष्कपालान्निर्वपेदिति । इदं वैदिकेश्वप्रतिग्रह इति वेदितव्यम् । उक्तं हि 'दोषात्त्विष्टिर्लौकिके स्यात्' इत्यत्र 'अर्थवादो वानपवादात्तस्माद्यज्ञे प्रतीयते' इति । तत्रान्तर्भावितण्यर्थो गृह्णातिर्वेदितव्यः । यद्वा - ण्यन्तादेव लकारे बहुलमन्यत्रापि' इति णिलुक्, तत्र व्यत्ययेन श्नाप्रत्ययः । केचिदाहुः - 'वारुणो वा अश्वः' इति वरुणदेवत्योश्वः ; स प्रजापतिना वरुणाय दीयमानो वरुणं स्वां देवतामपि आत्मीयदेवतात्वेन वर्तमानमपि प्रतिग्रहस्य दुष्टत्वात् आर्तमकरोत् । स वरुणः पर्यदीर्यत वरुणपाशैर्गृहीतो व्यापद्यत । अथ स वरुणो वारुणं चातुष्कपालं दृष्ट्वा वरुणाय निरवपत् । ततो वरुणो वरुणपाशादमुच्यत । वारकं वा पापं वरुणः । यो नाम कश्चित् वरुणाख्यो वा अश्वं प्रतिगृह्णाति वरुण एनं गृह्णाति । तस्मात् 'यावतोश्वान्' इति प्रतिग्रहीतुरेव विधीयते इति । तदिदं न्यायविरुद्धमित्यादिना नाद्रियामहे । ननु कथमेकस्यैव देवतात्वं यजमानत्वं च स्यात्? । नैष दोषः । 'इन्द्रो वै सदृङ् देवताभिरासीत्' इत्यत्र यथा इन्द्र आत्मार्थमैन्द्रमानुषूकमेकादशकपालं विदधाति, यथा 'वरुणं सुषुवाणम्' इत्यत्र वरुणो वारुणीं वशामालभते एवमिदं भविष्यति ॥
2 एकमतिरिक्तमिति ॥ यावतः प्रतिगृह्णीयात्तेभ्योतिरिक्तं निर्वपेत् ; यथा षट्प्रतिगृह्य सप्तमं निर्वपेदिति । यमेवेति । यं प्रतिग्रहीष्यन्भवति यं वा पूर्वप्रतिगृहीतं नाध्येति नाधिगच्छति न स्मरति वा तस्मात्सर्वस्मान्निमित्तात् उपजाताद्वरुणपाशान्मुच्यते । 'अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्ठीप्रतिषेधः ॥
3 यद्यपरमिति ॥ अश्वप्रतिग्राही कृत्वापि वारुणीमिष्टिं यदि भूयोपि प्रतिग्रहीष्यन् स्यात्सौर्यमेककपालमनुनिर्वपेत् । अपरमिति क्रियाविशेषणम् । अमुमादित्यमुच्चारं उच्छ्रिताचारं उपरि चरन्तं वा कुरुते, ततस्स एव वरुणपाशादिदोषं परिहरिष्यतीति ॥
4 अपोवभृथकर्मार्थमवैति ॥ अपोनप्त्रीयं चरुमवभृथादेत्य पुनर्निर्वपेत् । 'अपोनप्त्रपांनप्तृभ्यां घः' 'छ च' इति छप्रत्ययः । अपांनप्ता चतुर्थः अपोनप्ता । छान्दसो युगगं [सोलुक्] । अप्सुयोनिरिति । 'अपो योनियन्मतुषु सप्तम्या अलुक्' इत्यलुक् । शान्त इति । निवृत्तवरुणपाशादिदोषस्सुखहेतुरेवोपतिष्ठते मित्रवदुपसंप्राप्नोति ॥
इति तृतीये द्वादशोनुवाकः ॥
पञ्चशत् 2 #
TS 2.3.12.2 TS 2.3.12.2
चतु॑ष्कपाला भवन्ति॒ चतु॑ष्पा॒द्ध्यश्वः॒ समृ॑द्ध्या॒ एक॒मति॑रिक्तं॒ निर्व॑पे॒द्-यमे॒व प्र॑तिग्रा॒ही भव॑ति॒ यं ॅवा॒ नाद्ध्येति॒ तस्मा॑दे॒व व॑रुणपा॒शान् मु॑च्यते॒ यद्यप॑रं प्रतिग्रा॒ही स्याथ् सौ॒र्यमेक॑कपाल॒मनु॒ निर्व॑पेद॒मुमे॒वा ऽऽदि॒त्यमु॑च्चा॒रं कु॑रुते॒ ऽपो॑ऽवभृ॒थमवै᳚त्य॒फ्सु वै वरु॑णः सा॒क्षादे॒व वरु॑ण॒मव॑ यजते ऽपोन॒प्त्रीयं॑ च॒रुं ( ) पुन॒रेत्य॒ निर्व॑पेद॒फ्सु यो॑नि॒र्वा अश्वः॒ स्वामे॒वैनं॒ॅयोनिं॑ गमयति॒ स ए॑नꣳ शा॒न्त उप॑ तिष्ठते ॥
पदपाठः (Word-by-word)
चतु॑ष्कपाला॒ इति॒ चतुः॑ - क॒पा॒लाः॒ । भ॒व॒न्ति॒ । चतु॑ष्पा॒दिति॒ चतुः॑ - पा॒त् । हि । अश्वः॑ । समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । एक᳚म् । अति॑रिक्त॒मित्यति॑ - रि॒क्त॒म् । निरिति॑ । व॒पे॒त् । यम् । ए॒व । प्र॒ति॒ग्रा॒हीति॑ प्रति - ग्रा॒ही । भव॑ति । यम् । वा॒ । न । अ॒द्ध्येतीत्य॑धि - एति॑ । तस्मा᳚त् । ए॒व । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒च्य॒ते॒ । यदि॑ । अप॑रम् । प्र॒ति॒ग्रा॒हीति॑ प्रति - ग्रा॒ही । स्यात् । सौ॒र्यम् । एक॑कपाल॒मित्येक॑ - क॒पा॒ल॒म् । अनु॑ । निरिति॑ । व॒पे॒त् । अ॒मुम् । ए॒व । आ॒दि॒त्यम् । उ॒च्चा॒रमित्यु॑त् - चा॒रम् । कु॒रु॒ते॒ । अ॒पः । अ॒व॒भृ॒थमित्य॑व -भृ॒थम् । अवेति॑ । ए॒ति॒ । अ॒फ्स्वित्य॑प् - सु । वै । वरु॑णः । सा॒क्षादिति॑ स-अ॒क्षात् । ए॒व । वरु॑णम् । अवेति॑ । य॒ज॒ते॒ । अ॒पो॒न॒प्त्रीय॒मित्य॑पः - न॒प्त्रीय᳚म् । च॒रुम् ( ) । पुनः॑ । एत्येत्या᳚ - इत्य॑ । निरिति॑ । व॒पे॒त् । अ॒फ्सुयो॑नि॒रित्य॒फ्सु - यो॒निः॒ । वै । अश्वः॑ । स्वाम् । ए॒व । ए॒न॒म् । योनि᳚म् । ग॒म॒य॒ति॒ । सः । ए॒न॒म् । शा॒न्तः । उपेति॑ । ति॒ष्ठ॒ते॒ ॥
पदसंख्या: 67