पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
" (अथ द्वितीयकाण्डे तृतीयप्रपाठके द्वादशोनुवाकः)। (अश्वदानवत इष्टिविधिः एकादशे त्विष्टिरुक्ता दीर्घरोग्यायुरर्थिनोः। अथ द्वादशेश्वदानवत इष्टिं विधास्यन्प्रस्तौति प्रजापतिरिति। अनयद्दत्तवान्। देवस्य भावो देवता। स प्रजापतिः स्वकियं देवत्वमार्छदार्तमकरोत्। प्राजापत्यो वा अश्व इति श्रुतेः प्रजाप्रतिरेव पूर्वमश्वस्य देवता। तस्मिन्नश्वे वरुणाय दत्ते सतिस्वकीयमश्वस्वामित्वमपगतं तन्निमित्तेन दुःखेन स प्रजापतिः पर्यदीर्यत तदीयं परितो दीर्णं दीर्घरोगग्रस्तमभूत्। स च रोगो वरुणपाशरूपत्वाद्वारुणेष्ट्या निवृत्तः। इदानीमिष्टिं विधत्ते वरुणो वा इति। प्रतिगृह्णातीत्यस्यान्तर्भाविरण्यर्थत्वात्प्रतिग्राहयति ददातीत्ययमर्थः संपद्यते। कपालसंख्यां प्रशंसति चतुष्कपाला इति। अश्वसंख्यातोधिकं पुरोडाशं विधत्ते एकमतिरिक्तमिति। यमेवाश्वमित ऊर्ध्व यदा कदाचित्कालान्तरे प्रति ग्रहीष्यति दास्यति, अथवा यं कंचिदश्व प्रतिगृहीतं नाध्येति विस्मरति तदर्थोयमतिरिक्तः पुरोडाशः। निमित्तविशेषेणाङ्गाधिक्यं विधत्ते यद्यपरमिति। कांश्चिदश्वान्दत्वा दानीमेवष्ट्यनुष्ठाने सत्येकेनातिरिक्तेन सहितास्तावन्तः पुरोडाशाः पर्याप्ताः। यदा तु दानानन्तरमेवेष्टिर्नानुष्ठिता किंतु कंचित्कालमतिलङ्घ्य पुनरप्यपरोश्वो दत्तस्तदा सातिरिक्तान्दत्ताश्वसंख्याकान्पुरोडाशान्निरुप्य सौर्यमनुनिर्वपेत्। तेनादित्यमेबोर्ध्वचारिणं कुरुते। स चादित्यो विलम्बदोषं परिहरन्नुपरिष्टाद्वर्तत इत्यभिप्रायः। इष्ट्यङ्गत्वेनावभृथं विधत्ते अपोवभृथमिति। अपः प्राप्य तत्रावभृथं कर्म कुर्यात्। तेन वरुणो निराकृतो भवति। अङ्गान्तरं विधत्ते अपोनप्त्रीयमिति। अपोनप्ता देवता यस्य सोयमपोनप्त्रीयस्तं चरुमवभृथदेशाद्यज्ञभूमौ समागत्य निर्वपेत्। अप्सु योनिरुत्पत्तिर्यस्याश्वस्य सोयमप्सुयोनिः। उच्चैःश्रवसोश्वस्य समुद्रादुत्पत्तिः पुराणेषु प्रसिध्दा। तस्मादपोनप्त्रीयचरुणा तगश्वं त्वकीययोनिगामिनं करोति। स चाश्वः शान्तः सन्ररोगमनुत्पाद्येनं यजमानं सेवते। "
अत्र मीमांसा।
"तृतीयध्यायस्य चतृर्थपादे चिन्तितम् “अश्वप्रतिग्रहेष्टिस्तु दातुरित्यभिधास्यते। दानद्वये लौकिके वा वैदिके वा भवेदियम्।। अविशेषाद्द्वयोर्यद्वा न देयः केसरीत्यतः। निषेधाल्लौकिकात्तत्र प्रायश्चित्तित्तिरियं भवेत्। न जलोदरहेतुत्वं प्रमितं लौकिके क्वचित्। वैदिके तु श्रतं तस्मात्तत्प्रायश्चित्तयेत्र सा।।” इदमाम्नायते-----“यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्” इति। तत्र प्रतिग्रहशब्दो दानपर इत्यनन्तरमेव वक्ष्यते। तत्र विशेषाश्रवणालौकिवैदिकदानयोरप्यसाविष्टिरित्येकः पक्षः। न केसरिणो तदातीनि स्मृत्या मित्रदायादादिभ्यः प्रीत्या क्रियमाणमश्वदानं लौकिकं निषिध्दं, तदनुष्ठाने प्रायश्चित्तरूपेयमिष्टिरिति द्वितीयः पक्षः। “वरुणो वा एतं गृह्णाति योश्वं प्रतिगृह्णाति” इत्यश्वदाने जलोदरव्याधिरूपो दृष्टोदोषो वरुणग्रहवाक्येनोच्यते। न च लौकिकस्याश्वदानस्य तध्देतुत्वं प्रमितम्। वैदिकस्य तु जन्मान्तरविषयं दोषश्रवणम्। अतो वैदिकदाने सेष्टिः प्रायश्चित्तम्। अस्ति हि वैदिकमश्वदानं “वडवा दक्षिणा” इत्यादिश्रवणात्। अत्रैवान्यच्चिन्तितम् “यावतः प्रतिगृह्णीयादश्वांस्तावत्य इष्टयः।"
प्रतिग्रहीतुर्दातुर्वा स्यादाद्योस्तु यथाविधि।। असंजातविरोध्यर्थवादाद्दातुः प्रजापतेः। इष्टिः श्रुतां ततो दातुर्णिजर्थेपि विधिं नयेत्।।” पूर्वादाहृते वाक्ये प्रतिगृह्णीयादिति विधिपदश्रवणात्प्रतिग्रहीतुरिष्टिरिति चेन्न। उपक्रमरूपेणार्थवादेन दातुस्तदिष्टिप्रतीतेः। उपक्रमश्चैवं श्रूयते “प्रजापतिर्वरुणायाश्वमनयत्स स्वां देवतामार्छत्स पर्यदीर्यत स एतं वारुणं चतुष्कपालमपश्यत्तं निरवपत्ततो वै स वरुणपाशादमुच्यत” इति। अनयद्दत्तवान्। स च दाता प्रजापतिः स्वकीयां वरुणदेवतां जलोदररोगप्रदां प्राप्तवान्। तेन च रोगेण ग्रस्तः प्रजापतिर्विदीर्णो भूत्वा रोगपरिहारायेष्टिं कृत्वा रोगादमुच्यतेत्यत्र दातुरिष्टित्यगम्यते। असंजातविरोध्युपक्रमानुसारेण विधायक्रमपि प्रतिग्राहयेदित्येवमन्तर्भावितणिजर्थपरतया व्याख्येयम्। पञ्चमाध्यायस्य द्वितीयपादे चिन्तितम्
“प्रतिग्रहे तु बह्वश्वे पूर्वन्यायोस्ति वा न वा। अस्ति तत्साम्यतो मैवं पुरोडाशस्य शोषतः।।” ‘यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाञ्चतुष्कपालान्निर्वपेत्’ इति। अत्र शतसंख्यादियुक्तबह्वश्वप्रतिग्रहे बहुपुरोडाशेषूदाहृतप्रत्यक्षवचनेन साहित्यं प्राप्तम्। तत्र पर्वन्यायेन सर्वेषु पुरोडाशेष्वेकैकेधिश्रयणादिधर्मोनुष्ठेय इति चेन्मैवम्। तप्तेषु चतुर्षु कपालेषु क्रमेण पुरोडाशानधिश्रित्य यावता कालेन प्रथा पुरोडाशे द्वितीयसंस्कारं कर्तुमागच्छति तावता कालेनासौ शुष्को भस्मीभवति तस्मादेकैकस्मिन्पुरोडाशे कृत्स्त्रधर्मसमापनंमित्येवं काण्डानुसमयोभ्युपेतव्यः। एकादशाध्यायस्य चतुर्थपादे चिन्तितम ‘तन्त्रे चतुष्कपालानां भेदो वा तन्महत्त्वतः।।
कुम्भीवत्तन्त्रता भैवं भेदः स्यात्मकृताविव।।’ इदं श्रूयते---‘यावतोश्वान्प्रतिगृह्णीयात्तावतो वारुणाश्चतुष्कपालान्निर्वपेत्’ इति। यथा प्राजापत्येषु कुम्भ्या महत्त्वेन तन्त्रं तथात्रापि कपालमहत्त्वेन तन्त्रमिति चेत्। मैवम्। प्रकृतौ प्रतिपुरोडाशं कपालभेदेन तद्भेदस्यैव चोदकप्राप्तेः। किंचात्यन्तविशालेषु कपालेषु चतुर्षु पुरोडाशानां शतेष्ववस्थापितेष्वेकस्यैव कपालस्यैकदशे पुरोडाशस्यैकस्य समाप्तेर्न कोपि पुरोडाशश्चतुष्कपालः सिध्येत्।
तस्मात्प्रतिपुरोडाशं कपालचतुष्ट्वभेदः।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
द्वादशोनुवाकः।। १२ ।।