पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)। (चक्षुष्कामस्येष्टिविधिः)
सप्तमे सर्वपृष्ठोक्ता वीर्यकामाभिशस्तयोः। अथाष्टमे चक्षुष्कामस्य त्रिहविष्कामिष्टिं विधातुं प्रस्तौति
"रजनो वा इति। रजननामकः कश्चित्पुरुषः ऋतुजिन्नामकं पुरुषमयात्प्राप्नोत्। रजनः कुणेरपत्यं, ऋतुजिच्चनकस्यापत्यं, स तु चक्षुर्वन्यश्चक्षुषो दृष्टिर्वननं संभजनं तदर्हतीति चक्षुर्वन्यः, रोगोपहतां दृष्टिं समाधातुं शक्त इत्यर्थः। अतो दृष्टिपाटवाय ऋतुजितं प्राप्य त्रिहविष्कयेष्ट्यात्पाटवं प्राप्तवान्।। विधत्ते यश्चक्षुष्काम इति। भ्राजस्वते दीप्त्याधिक्ययुक्ताय। उन्मेषनिमेषसद्भावान्मनुष्यदृष्टिरनित्या। अग्निश्च कदाचिज्जवति कदाचिदुपशाम्यति। तस्मादनित्यत्वसाम्यलक्षणेन मनुष्यदृष्टेरग्नेश्च संबन्धः। देवानां त्वनिमिषत्वात्सूर्यप्रकाशवन्नित्या तदीया दृष्टिरित्यस्ति तस्याः सौर्यसंबन्धः।। आग्नेयद्वयमध्यवर्तिनासिकासाम्येन प्रशंसति यदाग्नेयाविति। तेनाऽऽग्नेयद्वयेनास्मिन्यजमाने चक्षुषोः प्रतिष्ठा। तेन सौर्येण नासिकायाः प्रतिष्ठा। नासिकया चक्षुषी विधृते परस्परामिश्रणाभावाय विविधत्वेन स्थापिते। अत्राऽऽग्नेयस्य प्रथमस्योदग्ने शुचस्तव शुक्रा इति पुरोनुवाक्या, ज्योतिषा बृहता भात्यग्निरिति याज्या।। चरमस्य मन्त्रान्तरशङ्कां वारयितुं विधत्ते समानी इति। समानी एकविधे। यदुक्तं सूत्रकारेण—चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्योदु त्यं जातवेदस सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति तान्यजमानः प्राश्नाति इति। तत्र त्रिभिर्मन्त्रैः पिण्डदानं विधत्ते "
उदु त्यमिति। उदु त्यं चित्रं देवानामित्येतदुभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। सप्त त्वा हरित इत्येषा तूपरितनस्य प्रपाठकस्यान्त्यानुवाके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। तस्य यजमानस्य रोगोत्पत्तेः पुरा यदेव चक्षः पाटवोपेतमासीत्तत्पिण्डदानेन दत्तमेव भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठकेऽ-ष्टमोऽनुवाकः ।। ८ ।।