अनुवाकः 8 TS 2.3.8

(A8)

(वि - ह्य॑ - ष्टाविꣳ॑शतिश्च)

अनुवाकः 8 - Complete Audio

TS 2.3.8 - स्वरानुगामी

0:00 0:00
PS1.1 रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒
PS1.2 जान॑किं चक्षु॒र्वन्य॑मया॒त् तस्मा॑ ए॒तामिष्टिं॒
PS1.3 निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं
PS1.4 च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ तयै॒वास्मि॒न्
PS1.5 चक्षु॑रदधा॒द्-य-श्चक्षु॑कामः॒ स्यात् तस्मा॑ ए॒तामिष्टिं॒
PS1.6 निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं
PS1.7 च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्ने र्वै
PS1.8 चक्षु॑षा मनु॒ष्या॑ वि -
PS1.9 [ ]
PS2.1 प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं
PS2.2 चै॒व सूर्यं॑ च॒ स्वेन॑
PS2.3 भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् चक्षु॑र्द्धत्त॒श्चक्षु॑ष्माने॒व
PS2.4 भ॑वति॒ यदा᳚ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न्
PS2.5 तत् प्रति॑ दधाति॒ यथ्
PS2.6 सौ॒र्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमा᳚ग्ने॒यौ
PS2.7 भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒
PS2.8 चक्षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑
PS2.9 भवतः समा॒नꣳ हि (
PS2.10 ) चक्षुः॒ समृ॑द्ध्या॒ उदु॒त्यं
PS2.11 जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒
PS2.12 रथे॑ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न्
PS2.13 प्रय॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्रय॑च्छति॒ यदे॒व
PS2.14 तस्य॒ तत्

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.3.8.1 TS 2.3.8.1
रज॑नो॒ वै कौ॑णे॒यः क्र॑तु॒जितं॒ जान॑किं चक्षु॒र्वन्य॑मया॒त् तस्मा॑ ए॒तामिष्टिं॒ निर॑वपद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालं॒ तयै॒वास्मि॒न् चक्षु॑रदधा॒द्-य-श्चक्षु॑कामः॒ स्यात् तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेद॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालꣳ सौ॒र्यं च॒रुम॒ग्नये॒ भ्राज॑स्वते पुरो॒डाश॑म॒ष्टाक॑पालम॒ग्ने र्वै चक्षु॑षा मनु॒ष्या॑ वि - [ ]
पदपाठः (Word-by-word)
रज॑नः । वै । कौ॒णे॒यः । क्र॒तु॒जित॒मिति॑ क्रतु - जित᳚म् । जान॑किम् । च॒क्षु॒र्वन्य॒मिति॑ चक्षुः - वन्य᳚म् । अ॒या॒त् । तस्मै᳚ । ए॒ताम् । इष्टि᳚म् । निरिति॑ । अ॒व॒प॒त् । अ॒ग्नये᳚ । भ्राज॑स्वते । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । सौ॒र्यम् । च॒रुम् । अ॒ग्नये᳚ । भ्राज॑स्वते । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । तया᳚ । ए॒व । अ॒स्मि॒न्न् । चक्षुः॑ । अ॒द॒धा॒त् । यः । चक्षु॑ष्काम॒ इति॒ चक्षुः॑ - का॒मः॒ । स्यात् । तस्मै᳚ । ए॒ताम् । इष्टि᳚म् । निरिति॑ । व॒पे॒त् । अ॒ग्नये᳚ । भ्राज॑स्वते । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । सौ॒र्यम् । च॒रुम् । अ॒ग्नये᳚ । भ्राज॑स्वते । पु॒रो॒डाश᳚म् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । अ॒ग्नेः । वै । चक्षु॑षा । म॒नु॒ष्याः᳚ । वीति॑ ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयप्रपाठकेऽष्टमोऽनुवाकः)। (चक्षुष्कामस्येष्टिविधिः)

सप्तमे सर्वपृष्ठोक्ता वीर्यकामाभिशस्तयोः। अथाष्टमे चक्षुष्कामस्य त्रिहविष्कामिष्टिं विधातुं प्रस्तौति

"रजनो वा इति। रजननामकः कश्चित्पुरुषः ऋतुजिन्नामकं पुरुषमयात्प्राप्नोत्। रजनः कुणेरपत्यं, ऋतुजिच्चनकस्यापत्यं, स तु चक्षुर्वन्यश्चक्षुषो दृष्टिर्वननं संभजनं तदर्हतीति चक्षुर्वन्यः, रोगोपहतां दृष्टिं समाधातुं शक्त इत्यर्थः। अतो दृष्टिपाटवाय ऋतुजितं प्राप्य त्रिहविष्कयेष्ट्यात्पाटवं प्राप्तवान्।। विधत्ते यश्चक्षुष्काम इति। भ्राजस्वते दीप्त्याधिक्ययुक्ताय। उन्मेषनिमेषसद्भावान्मनुष्यदृष्टिरनित्या। अग्निश्च कदाचिज्जवति कदाचिदुपशाम्यति। तस्मादनित्यत्वसाम्यलक्षणेन मनुष्यदृष्टेरग्नेश्च संबन्धः। देवानां त्वनिमिषत्वात्सूर्यप्रकाशवन्नित्या तदीया दृष्टिरित्यस्ति तस्याः सौर्यसंबन्धः।। आग्नेयद्वयमध्यवर्तिनासिकासाम्येन प्रशंसति यदाग्नेयाविति। तेनाऽऽग्नेयद्वयेनास्मिन्यजमाने चक्षुषोः प्रतिष्ठा। तेन सौर्येण नासिकायाः प्रतिष्ठा। नासिकया चक्षुषी विधृते परस्परामिश्रणाभावाय विविधत्वेन स्थापिते। अत्राऽऽग्नेयस्य प्रथमस्योदग्ने शुचस्तव शुक्रा इति पुरोनुवाक्या, ज्योतिषा बृहता भात्यग्निरिति याज्या।। चरमस्य मन्त्रान्तरशङ्कां वारयितुं विधत्ते समानी इति। समानी एकविधे। यदुक्तं सूत्रकारेण—चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्योदु त्यं जातवेदस सप्त त्वा हरितो रथे चित्रं देवानामुदगादनीकमिति पिण्डान्यजमानाय प्रयच्छति तान्यजमानः प्राश्नाति इति। तत्र त्रिभिर्मन्त्रैः पिण्डदानं विधत्ते "

उदु त्यमिति। उदु त्यं चित्रं देवानामित्येतदुभयं प्रथमकाण्डस्य चतुर्थप्रपाठके व्याख्यातम्। सप्त त्वा हरित इत्येषा तूपरितनस्य प्रपाठकस्यान्त्यानुवाके समाम्नास्यमानत्वात्तत्रैव व्याख्यास्यते। तस्य यजमानस्य रोगोत्पत्तेः पुरा यदेव चक्षः पाटवोपेतमासीत्तत्पिण्डदानेन दत्तमेव भवति।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु र्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठकेऽ-ष्टमोऽनुवाकः ।। ८ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 रजनो वा इत्यादि ॥ रजनो नाम कुणेरपत्यम् । 'इतश्चानिञः' इति ढक् । क्रतुजितं नाम जनकस्यापत्यं अयात्प्रापद्यत । कीदृशम् चक्षुर्वन्यं चक्षुषो वनितारं संविभक्तारं चक्षुषः प्रदातारम् । छान्दसः कर्तरि कृत्यः । यद्वा - कूणिताक्षः कूणिर्वीपन्नाक्षः ; तस्यापत्यं कौणेयः । पितुरक्षिव्यापत्तिकथनं पुत्रस्य व्यापन्नाक्षित्वं द्योतयितुम् । पित्रा सरूपो हि सन् पुत्रो भवतीति । जानकिमयात् चक्षुषो लाभाय, चक्षुषो वननं संभजनं चक्षुर्वन्यं, तत् जानकिमयात् । याच्ञाकर्मा वा यातिः ; चक्षुर्लाभं तमयाचतेति । चक्षुरेव वा वननीयं चक्षुर्वर्न्यं ; तत् तमयाचतेति । भ्राजस्वान् दीप्तिमान् । उभयतः आग्नेयावष्टाकपालौ पुरोडाशौ, मध्ये सौर्यश्चरुः ॥
2 अग्नेर्वै चक्षुषेति ॥ अग्नेर्हेतोर्यच्चक्षुः प्रवर्तते तेनेत्यर्थः । विभक्तिव्यत्यये वा अग्निना चक्षुषेति । एवं - सूर्यस्येति ॥
3 यदाग्नेयाविति ॥ यस्मादभितः आग्नेयौ पुरोडाशौ भवतः, तस्मादाग्नेये चक्षुषी अस्मिन् यजमाने विपन्नचक्षुषि प्रतिदधाति पुनः स्थापयति । यत्सौर्यो मध्ये भवति नासिकां तेनास्मिन् प्रतिदधात्येव ; नासिकया विधृते हि चक्षुषी पश्यतः । अभितस्सौर्यमिति । अभितः उभयतः आदावन्ते च सौर्यस्य । 'अभितः परितः' इति द्वितीया । यस्मादेवं तस्मान्नासिकामभितश्चक्षुषी तस्मादेव चक्षुषी नासिकया विधृते ॥
4 समानी इति । 'समानं हि चक्षुः' इति वचनात् चक्षुस्थानीययोराग्नेययोः समानी समान्यौ समानरूपे याज्यानुवाक्ये भवतः ; 'उदग्नेशुचयस्तव' 'विज्योतिषा' इति । सौर्यस्य तु 'उदु त्यं जातवेदसम्' 'चित्रं देवानाम्' इति । 'केवलमामक' इति समानशब्दात् ङीष्, 'वा च्छन्दसि' इति पूर्वसवर्ण दीर्घत्वम् ॥
5 उदु त्यमित्यादि ॥ चतुर्धाकरणकाले सौर्यात्त्रीन्पिण्डानुद्धृत्य 'उदु त्यम्' इत्यादिभिर्मन्त्रैः यजमानाय प्रयछति । स च प्राश्नातीति गम्यते । मन्त्रयस्य सौर्यत्वात् सौर्यादेवोद्धृत्य प्रयच्छतीति । ननु चक्षुष्कामस्य किं पिण्डैरित्याह - चक्षुरेवास्मै सनासिकमिदानीं दीयते, न पिण्डत्रयमात्रम् । किं यत्किञ्चित् चक्षुर्देहाननुगुणमेव दीयते ? नेत्याह - यदेव तस्य चक्षुः तदेव दीयते, न यत्किञ्चित् ॥
इति द्वितीये तृतीयेष्टमोनुवाकः ॥
पञ्चशत् 2 #
TS 2.3.8.2 TS 2.3.8.2
प॑श्यन्ति॒ सूर्य॑स्य दे॒वा अ॒ग्निं चै॒व सूर्यं॑ च॒ स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ तावे॒वास्मि॒न् चक्षु॑र्द्धत्त॒श्चक्षु॑ष्माने॒व भ॑वति॒ यदा᳚ग्ने॒यौ भव॑त॒श्चक्षु॑षी ए॒वास्मि॒न् तत् प्रति॑ दधाति॒ यथ् सौ॒र्यो नासि॑कां॒ तेना॒भितः॑ सौ॒र्यमा᳚ग्ने॒यौ भ॑वत॒स्तस्मा॑द॒भितो॒ नासि॑कां॒ चक्षु॑षी॒ तस्मा॒न्नासि॑कया॒ चक्षु॑षी॒ विधृ॑ते समा॒नी या᳚ज्यानुवा॒क्ये॑ भवतः समा॒नꣳ हि ( ) चक्षुः॒ समृ॑द्ध्या॒ उदु॒त्यं जा॒तवे॑दसꣳ स॒प्त त्वा॑ ह॒रितो॒ रथे॑ चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑क॒मिति॒ पिण्डा॒न् प्रय॑च्छति॒ चक्षु॑रे॒वास्मै॒ प्रय॑च्छति॒ यदे॒व तस्य॒ तत् ॥
पदपाठः (Word-by-word)
प॒श्य॒न्ति॒ । सूर्य॑स्य । दे॒वाः । अ॒ग्निम् । च॒ । ए॒व । सूर्य᳚म् । च॒ । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । तौ । ए॒व । अ॒स्मि॒न्न् । चक्षुः॑ । ध॒त्तः॒ । चक्षु॑ष्मान् । ए॒व । भ॒व॒ति॒ । यत् । आ॒ग्ने॒यौ । भव॑तः । चक्षु॑षी॒ इति॑ । ए॒व । अ॒स्मि॒न्न् । तत् । प्रतीति॑ । द॒धा॒ति॒ । यत् । सौ॒र्यः । नासि॑काम् । तेन॑ । अ॒भितः॑ । सौ॒र्यम् । आ॒ग्ने॒यौ । भ॒व॒तः॒ । तस्मा᳚त् । अ॒भितः॑ । नासि॑काम् । चक्षु॑षी॒ इति॑ । तस्मा᳚त् । नासि॑कया । चक्षु॑षी॒ इति॑ । विधृ॑ते॒ इति॒ वि - धृ॒ते॒ । स॒मा॒नी इति॑ । या॒ज्या॒नु॒वा॒क्ये॑ इति॑ याज्या - अ॒नु॒वा॒क्ये᳚ । भ॒व॒तः॒ । स॒मा॒नम् । हि ( ) । चक्षुः॑ । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । उदिति॑ । उ॒ । त्यम् । जा॒तवे॑दस॒मिति॑ जा॒त - वे॒द॒स॒म् । स॒प्त । त्वा॒ । ह॒रितः॑ । रथे᳚ । चि॒त्रम् । दे॒वाना᳚म् । उदिति॑ । अ॒गा॒त् । अनी॑कम् । इति॑ । पिण्डान्॑ । प्रेति॑ । य॒च्छ॒ति॒ । चक्षुः॑ । ए॒व । अ॒स्मै॒ । प्रेति॑ । य॒च्छ॒ति॒ । यत् । ए॒व । तस्य॑ । तत् ॥
पदसंख्या: 78