पञ्चशत् 1 #
दे॒वा वै मृ॒त्योर॑बिभयु॒स्ते प्र॒जाप॑ति॒मुपा॑धाव॒न् तेभ्य॑ ए॒तां प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒ निर॑वप॒त् तयै॒वैष्व॒मृत॑मदधा॒द्यो मृ॒त्योर्बि॑भी॒यात् तस्मा॑ ए॒तां प्रा॑जाप॒त्याꣳ श॒तकृ॑ष्णलां॒ निर्व॑पेत् प्र॒जाप॑तिमे॒व स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ स ए॒वास्मि॒न्नायु॑र्दधाति॒ सर्व॒मायु॑रेति श॒तकृ॑ष्णला भवति श॒तायुः॒ पुरु॑षः॒ श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये - [ ]
पदपाठः (Word-by-word)
दे॒वाः । वै । मृ॒त्योः । अ॒बि॒भ॒युः॒ । ते । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । उपेति॑ । अ॒धा॒व॒न्न् । तेभ्यः॑ । ए॒ताम् । प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । श॒तकृ॑ष्णला॒मिति॑ श॒त-कृ॒ष्ण॒ला॒म् । निरिति॑ । अ॒व॒प॒त् । तया᳚ । ए॒व । ए॒षु॒ । अ॒मृत᳚म् । अ॒द॒धा॒त् । यः । मृ॒त्योः । बि॒भी॒यात् । तस्मै᳚ । ए॒ताम् । प्रा॒जा॒प॒त्यामिति॑ प्राजा - प॒त्याम् । श॒तकृ॑ष्णला॒मिति॑ श॒त - कृ॒ष्ण॒ला॒म् । निरिति॑ । व॒पे॒त् । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । ए॒व । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । सः । ए॒व । अ॒स्मि॒न्न् । आयुः॑ । द॒धा॒ति॒ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । श॒तकृ॑ष्ण॒लेति॑ श॒त - कृ॒ष्ण॒ला॒ । भ॒व॒ति॒ । श॒तायु॒रिति॑ श॒त-आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 देवा वा इत्यादि ॥ शतकृष्णलामिति । शतं स्वर्णानि कृष्णलानि कृष्णलतुलितानि परिमाणमस्यास्समभीष्टं सा तथोक्ता । तया देवेष्वमृतत्वमदधात्प्रजापतिः । गतमन्यत् ॥
2 शतकृष्णलां निर्वपेदित्ययं क्रमः - 'देवस्य त्वा सवितुः प्रसवे' इति प्रतिपदं कृत्वा 'प्रजापतये जुष्टं निर्वपामि' इति चतुरो मुष्टीन् कृष्णलान्निर्वपति । हविष्कृता वाचं विसृज्य गार्हपत्ये नवं पात्रमधिश्रित्य तिरःपवित्रमाज्यमानीय तिरःपवित्रं कृष्णलान्यावपति । तदिदमुक्तं - घृते भवतीत्यादि ॥ समीची अनुक्रमेण सङ्गते । अथाज्यं निर्वपति अथाज्यमधिश्रयति । उभयं पर्यग्नि कृत्वा अन्तर्वेद्यासादयति । धर्ममात्रं श्रपणं न विक्लेदनाय ॥
3 चत्वारिचत्वारीत्यादि ॥ सर्वावदानार्थं वीप्सा । एकस्मिन् अवदाने चत्वारि चत्वारि गृह्णीयात् । तद्यथा - अष्टौ देवताया अवद्यति, चत्वारि स्विष्टकृते, अष्टाविडायै, चत्वारि अवान्तरेडायै, एकं प्राशित्राय, एकं यजमानायाज्यमेव जुह्वतः [ह्वते] जुहोति, आज्यं च प्राश्नते प्राश्नाति । अथ चतुर्धाकरणकाले शिष्टान्येकयोद्धृत्य ब्रह्मण उपहरति, इतरेषां भक्षापनयनम् ॥
4 असावादित्य इत्यादि ॥ गतम् ॥
5 उभयत इत्यादि ॥ सुवर्णरजतौ रुक्मौ उपकल्प्य शृतं हि हविः ताभ्यां पर्युपास्यान्तर्वेद्यासादयति, अपोह्य रुक्मौ चरुणा प्रचारः । उभयतः उभयोरपि पूर्वोत्तरयोरायुषोः अस्मिन्यजमाने रुचं दधाति । यद्वा - उभयोर्लोकयोः इहामुत्र चास्मिन्रुचं दधाति ॥
6 प्रयाजेप्रयाजे इति ॥ पञ्च सुवर्णानि कृष्णलान्युपलिप्य प्रयाजेप्रयाजे एकं कृष्णलमन्ववधाय जुहोति । दिग्भ्य इति । दिशामपि पञ्चत्वात् ।
7 आग्नेयमष्टाकपालमित्यादि ॥ गतम् ॥
8 वि वा एष इत्यादि ॥ गतम् । हिरण्यं वित्त्वा लब्ध्वा एतां निर्वपेत् ॥
9 एतामेवेति ॥ यस्य हिरण्यं नश्येत् प्रसह्य नष्टस्य लाभायैतां निर्वपेत् । विन्दतिस्स्वरितेत् तत्र नष्टस्य लाभे कर्त्रभिप्रायस्य पूर्व[र्ण]स्या भावादात्मनेपदाभावः ॥
10 इन्द्रस्त्वष्टुरित्यादि ॥ अभीषहा सोममपिबत् । सहतेः क्विपि 'नहिवृतिवृषि' इत्युपसर्गस्य दीर्घत्वम् । शक्तिमभिभूय यथाबलं समग्रमपिबत् । ततस्स सोमस्तेन पीतो वीष्वङ् नानागमनः उपरिष्टादधस्ताच्च व्यार्छत् विनिर्गतोभवत् । ततस्स इन्द्र इन्द्रियेण सोमपीथेन पीतेन सोमेन व्यृद्धोभवत् । तत्र स इन्द्रोयमूर्ध्वमुदवमीत्, ते श्यामाका अभवन् । वर्षाप्रभवो धान्यविशेषश्श्यामाकः । अथ स इन्द्रः प्रजापतिमुपेत्य इत्थमस्मिन् प्रतिविधातव्यमित्यब्रवीत् । तस्मा इत्यादि । गतम् । सोमेन्द्रमिति । 'नेन्द्रस्य परस्य' इत्युत्तरपदस्य वृद्ध्यभावः । सोमस्य तु पूर्वपदस्य नेष्यते वृद्धिः । श्यामाकमिति । 'अनुदात्तादेश्च' इत्यस्यापवादः 'कोपधाच्च' इत्यण् ॥
11 यस्सोमवामी स्यादिति ॥ वैदिकस्य वमने चरुर्विधीयते ।
न विरेकार्थस्य लौकिकस्य । आहुश्च - 'पानव्यापच्च तद्वत्' इति । तत्रापि यजमानस्य वमने न ऋत्विजामिति 'तत्सर्वत्राविशेषात्' इत्यत्र प्रतिपादितम् । गतमन्यत् । एष वाव स सोम इति । उद्वान्तसोमपरिमाणत्वात् ॥
12 अग्नये दात्र इत्यादि ॥ तृतीयं संसृष्टहविः प्राजापत्यम् । 'उदात्तयणः' इति चतुर्थ्या उदात्तत्वम् ॥
13 दधि मध्वित्यादि ॥ अत्रायं प्रयोगः - 'देवस्य त्वा' इति प्रतिपदं कृत्वा 'अग्नये दात्रे जुष्टम्' इति चतुरो मुष्टीन् व्रीहीणां निर्वपति । अथैवमेव 'इन्द्राय प्रदात्रे' एवं व्रीहीणाम् । अथैवमेव 'प्रजापतये जुष्टम्' इति चतुरो यवानाम्, तेषां व्रीहिष्वेव हविष्कृतमुत्पाद यन्ति, उपोद्यच्छन्ते यवान्, हविष्कृता वाचं विसृजन्ते । समानं कर्माधिवपनात् । आधिवाप्य दक्षिणार्धे गार्हपत्यस्य अष्टौ कपालान्युपदधाति, एकादेशोत्तरतः । अथैनान् यवानुलूखले परिक्षुद्य गार्हपत्ये कपालमधिश्रित्य धाना भर्जयन्ति, यदैते हवींषि अभिवृणक्ति तदैता धानाश्चतुष्टयेनोपसृजन्ति, दध्ना मधुना घृतेनाद्भिरिति । एवं पञ्चगृहीतं भवति । पाङ्क्ता इति । पङ्क्तिप्रभवाः । पङ्क्तिशब्द उत्सादिः । बहुरूपमिति । दध्यादीनां नानारूपत्वात् । 'बहोर्नञ्वत्' इत्युत्तरपदान्तोदात्तत्वम् । प्राजापत्यमिति । तृतीयस्य प्राजापत्यत्वात् ॥
14 अथ मधुहोमं दूषयति - आत्मेति ॥ पुरुषस्यात्मा मधु मन्तृत्वात् । मन्यतेर्मधु ; उप्रत्यये धकारोन्तादेशो विधीयते । तस्मान्मधुनोग्नौ होमेन आत्मानमेवाग्नौ यजमानः प्रक्षिपति, तस्मादयुक्तमिति । परिहरति - पङ्क्त्याविति । 'घृतं न पूतम्' 'उभे सुश्चन्द्र सर्पिषः' इति प्राजापत्यस्य याज्यानुवाक्ये भवतः । आत्मानमेवेति । याज्यानुवाक्यात्मपङ्क्त्यात्मनः पुरुषस्याग्नावनुप्रवेशात् अग्न्यात्मकान्मृत्योरात्मानं मधुहोमेनाग्नौ प्रविष्टं निष्क्रीय पशूनवरुन्धे ॥
इति द्वितीये तृतीये द्वितीयोनुवाकः ॥