अनुवाकः 6 TS 2.3.6

(A6)

(पु॒रो॒डाशं॒ - त्रयः॒ - षड्विꣳ॑शतिश्च)

अनुवाकः 6 - Complete Audio

TS 2.3.6 - स्वरानुगामी

0:00 0:00
PS1.1 प्र॒जाप॑ति र्दे॒वेभ्यो॒ऽन्नाद्यं॒ ॅव्यादि॑श॒थ् सो᳚ऽब्रवी॒द्यदि॒मान्
PS1.2 ॅलो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒मान् ॅलो॒कान॒भ्यत्य॑रिच्य॒तेन्द्रꣳ॒॒
PS1.3 राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रꣳ॑ स्व॒राजा॑नं॒ ततो॒ वै
PS1.4 स इ॒मान् ॅलो॒काꣳ स्त्रे॒धाऽदु॑ह॒त्
PS1.5 तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं ॅयं का॒मये॑तान्ना॒दः
PS1.6 स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒
PS1.7 निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॒ -
PS1.8 [ ]
PS2.1 -मेका॑दशकपाल॒-मिन्द्रा॑या-धिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयं ॅवा इन्द्रो॒
PS2.2 राजा॒ऽयमिन्द्रो॑-ऽधिरा॒जो॑-ऽसाविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्-स्वेन॑ भाग॒धेये॒नोप॑
PS2.3 धावति॒ त ए॒वास्मा॒ अन्नं॒
PS2.4 प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑
PS2.5 व॒थ्सेन॒ प्रत्तां॒ गां दु॒ह
PS2.6 ए॒वमे॒वेमान् ॅलो॒कान् प्रत्ता॒न् काम॑म॒न्नाद्यं॑
PS2.7 दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒
PS2.8 त्रयः॑ ( ) पुरो॒डाशा॑
PS2.9 भवन्ति॒ त्रय॑ इ॒मे लो॒का
PS2.10 ए॒षां ॅलो॒काना॒माप्त्या॒ उत्त॑र‌उत्तरो॒ ज्याया᳚न्
PS2.11 भवत्ये॒वमि॑व॒ हीमे लो॒काः समृ॑द्ध्यै॒
PS2.12 सर्वे॑षामभि-ग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारं ॅव्य॒त्यास॒मन्वा॒हानि॑र्दाहाय

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.3.6.1 TS 2.3.6.1
प्र॒जाप॑ति र्दे॒वेभ्यो॒ऽन्नाद्यं॒ ॅव्यादि॑श॒थ् सो᳚ऽब्रवी॒द्यदि॒मान् ॅलो॒कान॒भ्य॑ति॒रिच्या॑तै॒ तन्ममा॑स॒दिति॒ तदि॒मान् ॅलो॒कान॒भ्यत्य॑रिच्य॒तेन्द्रꣳ॒॒ राजा॑न॒मिन्द्र॑मधिरा॒जमिन्द्रꣳ॑ स्व॒राजा॑नं॒ ततो॒ वै स इ॒मान् ॅलो॒काꣳ स्त्रे॒धाऽदु॑ह॒त् तत् त्रि॒धातो᳚स्त्रिधातु॒त्वं ॅयं का॒मये॑तान्ना॒दः स्या॒दिति॒ तस्मा॑ ए॒तं त्रि॒धातुं॒ निर्व॑पे॒दिन्द्रा॑य॒ राज्ञे॑ पुरो॒डाश॒ - [ ]
पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । दे॒वेभ्यः॑ । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । व्यादि॑श॒दिति॑ वि - आदि॑शत् । सः । अ॒ब्र॒वी॒त् । यत् । इ॒मान् । लो॒कान् । अ॒भीति॑ । अ॒ति॒रिच्या॑ता॒ इत्य॑ति - रिच्या॑तै । तत् । मम॑ । अ॒स॒त् । इति॑ । तत् । इ॒मान् । लो॒कान् । अ॒भि । अतीति॑ । अ॒रि॒च्य॒त । इन्द्र᳚म् । राजा॑नम् । इन्द्र᳚म् । अ॒धि॒रा॒जमित्य॑धि-रा॒जम् । इन्द्र᳚म् । स्व॒राजा॑न॒मिति॑ स्व - राजा॑नम् । ततः॑ । वै । सः । इ॒मान् । लो॒कान् । त्रे॒धा । अ॒दु॒ह॒त् । तत् । त्रि॒धातो॒रिति॑ त्रि - धातोः᳚ । त्रि॒धा॒तु॒त्वमिति॑ त्रिधातु - त्वम् । यम् । का॒मये॑त । अ॒न्ना॒द इत्य॑न्न - अ॒दः । स्या॒त् । इति॑ । तस्मै᳚ । ए॒तम् । त्रि॒धातु॒मिति॑ त्रि - धातु᳚म् । निरिति॑ । व॒पे॒त् । इन्द्रा॑य । राज्ञे᳚ । पु॒रो॒डाश᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

(अथ द्वितीयकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)। (अन्नादनशक्तिकामस्येष्टिविधिः) इष्टिर्यक्ष्मगृहीतस्य पञ्चमे समुदीरिता।

"षष्ठे त्वन्नादनशक्तिकामस्येष्टिं विधातुं प्रस्तौति प्रजापतिरिति । प्रजापतिरत्तुं योग्यमन्नं देवेभ्यो विभज्य तवेदं तवेदमित्यादिशत्। तस्मादन्नं स्वीकर्तुं प्रवृत्तान्देवान्प्रत्येवमब्रवीद्यदन्नमिमाँल्लोकानभिव्याप्यातिरिक्तं भवति तन्ममास्त्विति। तद्वक्ष्यमाणमन्नमिमाँल्लोकानभिव्याप्यातिरिक्तमासीत्। क इमे लोका इत्युच्यन्ते -इन्द्रराजादिशब्दाभिधेया एवेमे लोका इन्द्रराजादीनां पृथिव्यादिलोकत्रयपालकत्वात्। एवमुक्त्वा स प्रजापतिरिन्द्रराजादील्लोँकांस्त्रेघाऽदुहत्। तेभ्यो लोकेभ्यस्त्रिविधं सारं गृहीतवानित्यर्थः। तदिदं सारं प्रजापतिः स्वप्रियत्वेन स्वीकृतवाल्लोँकातिरिक्तमन्नम्। यस्मात्वेधा दोहनमकरोत्तस्मात्त्रिधातुनाम्नो यागस्य विधातुत्वं संपन्नम्। लोकेभ्यो दुग्धास्त्रयो धातवो भागा यास्मिन्यागे स यागस्त्रिधातुः।। अथ विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्याध्वर्युः कामयेतायं यजमानोऽन्नादः स्यदिति तस्मै यजमानायेयमिष्टिः। अथं भूलोकाधिपतिरिन्द्रो राजा। अयमन्तरिक्षाधिपतिरिन्दोऽधिराजः। असौ स्वर्गलोकाधिपतिरिन्द्रः स्वराट्। इमानेव लोकाल्लोँकाधिपतीनिन्द्रराजादीन्स्वेन भागधेयेन सेवते। यथा लोके वत्सेन वत्सचोषणेन प्रत्तां प्रस्नवनं प्रापितां गां जनो दोग्धि, एवमेवेमाँल्लोकान्प्रत्तान्देवैरभिवर्धितान्प्राप्यस्वाभीष्टमन्नाद्यं लभते।। अत्र यदुक्तं सूत्रकारेण – “अथैनं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति प्रथमं पुरोडाशमधिश्रित्य परिदपनान्तं कृत्वा तस्मिन्नुपरि द्वितीयं ज्यायांसमधिश्रित्य तावदन्तमेव कृत्वा तस्पिन्नुत्तरं ज्यायांसवधिश्रयति प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेन्मध्याद्द्वितीयामुत्तर्धांत्तृतीयां सर्वेषामभिगमयन्नवद्यति” इत्युक्तम् (ति)। “प्राच्यां दिशि त्वमिग्द्रेति तिस्र ऋचो व्यत्यासमन्वाह प्रथमामनूच्य मध्यमया यजेन्मध्यमामनूच्योत्तमया यजेदुत्तमामनूच्य प्रथमया यजेदेवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति” इति (च)। तत्राधिश्रयणं विधत्ते उत्तानेष्विति। प्रकृतावधोमुखानां कपालानामुपरि पुरोडाशावधिश्रयति। अत्रापि तथात्वे यातयामत्वं गतसारत्वं तत्परिहारायोत्तानत्वम्। पुरोडाशसंख्यां प्रशंसति। "

त्रयः पुरोडाशा इति। ज्यायस्त्वं विधत्ते उत्तरउत्तर इति। भूलोकादन्तरिक्षं ज्यायस्तस्मादपि स्वर्गो ज्यायान्। ऊर्ध्वाधोभावेन स्थितानां सर्वेप्षां पुरोडाशानामंशमभिलक्ष्य यथा युगपदेव हस्तप्राप्तिर्भवति तथाऽवदानं विधत्ते—

सर्वेषामिति। छम्बट्कारो वैयर्थ्यम्। एकस्यापि पुरोडाशस्य यथा वैयर्थ्यं न भवति तथेत्यर्थः। याज्यानुवाक्यासु विपर्यासं विधत्ते व्यत्यासमिति। अविनाशायेत्यर्थः। व्यत्यासाभावे ह्यृचां त्रित्वाद्धवींषि विनश्येरन्नेकैकस्य हविषः पृथग्याज्यानुवाक्योः संपादयितुमशक्यत्वात्। सूत्रोक्तप्रकारेण तु व्यात्यासेन षडृचः संपद्यन्त इति नास्ति हविर्नाशः।।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-

यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके

षष्ठोऽनुवाकः ।। ६ ।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 प्रजापतिर्देवेभ्य इत्यादि ॥ व्यादिशत् पृथक्त्वेन व्यावृत्तमादिशत्, एकैकलोकविशेषावधिकमित्यर्थः । अथ देवानां तथा व्यादिश्य सोब्रवीत्प्रजापतिः ; यदन्नाद्यमिमान् सर्वानपि लोकान् अभ्यतिरिच्यते अतिव्याप्य वर्तते नैकैकलोकावधिकं भवति तत् ममासत् अस्तु । अतिरिच्यतेर्लेटि आडागमः, ' वैतोन्यत्र ' इत्यैत्वम् । आस्तेर्लेट्याडागमः । तस्मादिमान् लोकान् अभ्यत्यरिच्यत प्राजापत्यमैश्वर्यम् । किमस्मान् लोकानित्याह – इन्द्रं राजानमित्यादि । तिस्र एतास्त्रिधातोर्देवता लोकत्रयात्मिकाः । ततः खलु त्रिधातुदेवतानां त्रित्वात्प्रजापतिः लोकत्रयव्यापी व्याप्तानिमान् लोकांस्त्रेधादुहत् त्रिप्रकारमदुहत् । उत्तरोत्तरज्यायस्त्वात्त्रिप्रकारलोकत्रयात्मना अत्मीयमैश्वर्यं विभक्तवान् । तदित्यादि । त्रयो धातवो धनान्यस्मिन्निति त्रिधातुः, त्रेधा धातव्यत्वात्पुरोडाशस्य । धातव्या वा पुरोडाशा धातवः, त्रिधा भिन्नाः पुरोडाशा अस्मिन्निति । यद्वा - सर्वाधारलोकत्रयात्मकत्वात् त्रिधातुः ॥
2 यमित्यादि ॥ गतम् । तत्रायं प्रयोगः - चतुरश्चतुरो मुष्टीनेकैकस्यै देवतायै निरुप्य हविष्कृता वाचं विसृजते । समानं कर्माधिवपनात् । अथाध्युप्य गार्हपत्य एकादशोत्तानानि कपालान्युपदधाति । तेष्वेव त्रीन् पुरोडाशानधिश्रयति । प्रथममधिश्रित्य परितपनान्तं कृत्वा तस्मिन्नुत्तरं ततो ज्यायासमधिश्रयति । पुनस्तदन्तं कृत्वा तस्मिन्नुत्तरं ततो ज्यायांसमधिश्रयतीति ॥
3 यथेति ॥ प्रत्तां प्रदातुं क्षीरमारब्धाम् । आदिकर्मणि निष्ठा । यथा वत्ससंसर्गेण बृंहितोधोभारा दुहे दुग्धे । 'लोपस्त आत्मनेपदेषु' इति तलोपः । एवमेवेमान् लोकान् अनेन त्रिधातुना वत्सस्थानीयेन प्रत्तां कामं स्वाभिमतमन्नाद्यं दुघ्धे यजमानः ॥
4 उत्तानेष्विति ॥ गतम् । यातयामत्वं गतरसत्वम् । त्रय इति । पुरोडाशत्रित्वेन लोकत्रयाप्तिः । उत्तरउत्तर इति । लोकानामुत्तरोत्तरज्यायस्त्वात् पुरोडाशानामप्युत्तरोत्तरज्यायस्त्वं समृद्ध्यै भति । सदृशयोगात्समृद्धिः ॥
5 सर्वेषामिति । सर्वेषां पुरोडाशानां अभिगमयन् पार्श्वे गमनं कुर्वन् अवद्यति । यत्र प्रथमस्यावद्यति तत्पार्श्वे द्वितीयस्यापि, तत्पार्श्वे तृतीयस्य । एतदुक्तं भवति - दक्षिणार्धात्प्रथमां देवतां यजेत्, मध्याद्द्वितीयां, उत्तरार्धात्तृतीयामिति । अछम्बट्कारं अनार्तत्वं, (य) एकस्मिन् भागे त्रयाणामवदाने त्रयमप्यार्तं स्यात् ॥
6 व्यत्यासमिति । व्यत्यासो विनिमयः । व्यत्यासं व्यत्यस्य । णमुलि प्रत्ययात्पूर्वस्योदात्तत्यम् । प्राच्यां दिशि 'त्वमिन्द्र' इत्यादयस्तिस्र ऋचः । तत्र प्रथमामनूच्य मध्यमया यजेत् प्रथमे, मध्यमामनूच्य उत्तमया यजेत् द्वितीये, उत्तमामनूच्य प्रथमया यजेत् तृतीये, इति । एवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति । तद्यथा - 'इन्द्राय राज्ञेनुब्रूहि' इत्युक्ते प्राच्यां दिशि 'त्वमिन्द्र' इत्यन्वाह पुरोनुवाक्याम्, 'इन्द्रो जयाति न परो जयातै' इति यजति । 'इन्द्रायाधिराजाय' इत्युक्ते 'इन्द्रो जयाति न परो जयातै' इत्यन्वाह पुरोनुवाक्याम्, 'अस्ये देव प्ररिरिचे' इति यजति । 'इन्द्राय स्वराज्ञेनुब्रूहि' इत्युक्ते 'अस्ये देव' इति पुरोनुवाक्यामन्वाह, प्राच्यां दिशि 'त्वमिन्द्र' इति यजति । एवं क्रियमाणमनिर्दाहाय भवति । इतरथा हवींषि निर्दग्धानि विनाशितानि स्युः ॥
इति द्वितीये तृतीये षष्ठोनुवाकः ॥
पञ्चशत् 2 #
TS 2.3.6.2 TS 2.3.6.2
-मेका॑दशकपाल॒-मिन्द्रा॑या-धिरा॒जायेन्द्रा॑य स्व॒राज्ञे॒ऽयं ॅवा इन्द्रो॒ राजा॒ऽयमिन्द्रो॑-ऽधिरा॒जो॑-ऽसाविन्द्रः॑ स्व॒राडि॒माने॒व लो॒कान्थ्-स्वेन॑ भाग॒धेये॒नोप॑ धावति॒ त ए॒वास्मा॒ अन्नं॒ प्रय॑च्छन्त्यन्ना॒द ए॒व भ॑वति॒ यथा॑ व॒थ्सेन॒ प्रत्तां॒ गां दु॒ह ए॒वमे॒वेमान् ॅलो॒कान् प्रत्ता॒न् काम॑म॒न्नाद्यं॑ दुह उत्ता॒नेषु॑ क॒पाले॒ष्वधि॑ श्रय॒त्यया॑तयामत्वाय॒ त्रयः॑ ( ) पुरो॒डाशा॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒षां ॅलो॒काना॒माप्त्या॒ उत्त॑र‌उत्तरो॒ ज्याया᳚न् भवत्ये॒वमि॑व॒ हीमे लो॒काः समृ॑द्ध्यै॒ सर्वे॑षामभि-ग॒मय॒न्नव॑ द्य॒त्यछ॑म्बट्कारं ॅव्य॒त्यास॒मन्वा॒हानि॑र्दाहाय ॥
पदपाठः (Word-by-word)
एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । इन्द्रा॑य । अ॒धि॒रा॒जायेत्य॑धि - रा॒जाय॑ । इन्द्रा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । अ॒यम् । वै । इन्द्रः॑ । राजा᳚ । अ॒यम् । इन्द्रः॑ । अ॒धि॒रा॒ज इत्य॑धि - रा॒जः । अ॒सौ । इन्द्रः॑ । स्व॒राडिति॑ स्व - राट् । इ॒मान् । ए॒व । लो॒कान् । स्वेन॑ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । उपेति॑ । धा॒व॒ति॒ । ते । ए॒व । अ॒स्मै॒ । अन्न᳚म् । प्रेति॑ । य॒च्छ॒न्ति॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । ए॒व । भ॒व॒ति॒ । यथा᳚ । व॒थ्सेन॑ । प्रत्ता᳚म् । गाम् । दु॒हे । ए॒वम् । ए॒व । इ॒मान् । लो॒कान् । प्रत्तान्॑ । काम᳚म् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । दु॒हे॒ । उ॒त्ता॒नेष्वित्यु॑त्-ता॒नेषु॑ । क॒पाले॑षु । अधीति॑ । श्र॒य॒ति॒ । अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । त्रयः॑ ( ) । पु॒रो॒डाशाः᳚ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षाम् । लो॒काना᳚म् । आप्त्यै᳚ । उत्त॑र उत्तर॒ इत्युत्त॑रः - उ॒त्त॒रः॒ । ज्यायान्॑ । भ॒व॒ति॒ । ए॒वम् । इ॒व॒ । हि । इ॒मे । लो॒काः । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । सर्वे॑षाम् । अ॒भि॒ग॒मय॒न्नित्य॑भि - ग॒मयन्न्॑ । अवेति॑ । द्य॒ति॒ । अछ॑बंट्कार॒मित्यछ॑बंट् - का॒र॒म् । व्य॒त्यास॒मिति॑ वि - अ॒त्यास᳚म् । अन्विति॑ । आ॒ह॒ । अनि॑र्दाहा॒येत्यनिः॑ - दा॒हा॒य॒ ॥
पदसंख्या: 76