पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
(अथ द्वितीयकाण्डे तृतीयप्रपाठके षष्ठोऽनुवाकः)। (अन्नादनशक्तिकामस्येष्टिविधिः) इष्टिर्यक्ष्मगृहीतस्य पञ्चमे समुदीरिता।
"षष्ठे त्वन्नादनशक्तिकामस्येष्टिं विधातुं प्रस्तौति प्रजापतिरिति । प्रजापतिरत्तुं योग्यमन्नं देवेभ्यो विभज्य तवेदं तवेदमित्यादिशत्। तस्मादन्नं स्वीकर्तुं प्रवृत्तान्देवान्प्रत्येवमब्रवीद्यदन्नमिमाँल्लोकानभिव्याप्यातिरिक्तं भवति तन्ममास्त्विति। तद्वक्ष्यमाणमन्नमिमाँल्लोकानभिव्याप्यातिरिक्तमासीत्। क इमे लोका इत्युच्यन्ते -इन्द्रराजादिशब्दाभिधेया एवेमे लोका इन्द्रराजादीनां पृथिव्यादिलोकत्रयपालकत्वात्। एवमुक्त्वा स प्रजापतिरिन्द्रराजादील्लोँकांस्त्रेघाऽदुहत्। तेभ्यो लोकेभ्यस्त्रिविधं सारं गृहीतवानित्यर्थः। तदिदं सारं प्रजापतिः स्वप्रियत्वेन स्वीकृतवाल्लोँकातिरिक्तमन्नम्। यस्मात्वेधा दोहनमकरोत्तस्मात्त्रिधातुनाम्नो यागस्य विधातुत्वं संपन्नम्। लोकेभ्यो दुग्धास्त्रयो धातवो भागा यास्मिन्यागे स यागस्त्रिधातुः।। अथ विधत्ते यं कामयेतेति। यं यजमानमुद्दिश्याध्वर्युः कामयेतायं यजमानोऽन्नादः स्यदिति तस्मै यजमानायेयमिष्टिः। अथं भूलोकाधिपतिरिन्द्रो राजा। अयमन्तरिक्षाधिपतिरिन्दोऽधिराजः। असौ स्वर्गलोकाधिपतिरिन्द्रः स्वराट्। इमानेव लोकाल्लोँकाधिपतीनिन्द्रराजादीन्स्वेन भागधेयेन सेवते। यथा लोके वत्सेन वत्सचोषणेन प्रत्तां प्रस्नवनं प्रापितां गां जनो दोग्धि, एवमेवेमाँल्लोकान्प्रत्तान्देवैरभिवर्धितान्प्राप्यस्वाभीष्टमन्नाद्यं लभते।। अत्र यदुक्तं सूत्रकारेण – “अथैनं त्रिधातुमेकादशसूत्तानेषु कपालेष्वधिश्रयति प्रथमं पुरोडाशमधिश्रित्य परिदपनान्तं कृत्वा तस्मिन्नुपरि द्वितीयं ज्यायांसमधिश्रित्य तावदन्तमेव कृत्वा तस्पिन्नुत्तरं ज्यायांसवधिश्रयति प्रचरणकाले दक्षिणार्धात्प्रथमां देवतां यजेन्मध्याद्द्वितीयामुत्तर्धांत्तृतीयां सर्वेषामभिगमयन्नवद्यति” इत्युक्तम् (ति)। “प्राच्यां दिशि त्वमिग्द्रेति तिस्र ऋचो व्यत्यासमन्वाह प्रथमामनूच्य मध्यमया यजेन्मध्यमामनूच्योत्तमया यजेदुत्तमामनूच्य प्रथमया यजेदेवं सर्वा याज्याः पुरोनुवाक्याश्च भवन्ति” इति (च)। तत्राधिश्रयणं विधत्ते उत्तानेष्विति। प्रकृतावधोमुखानां कपालानामुपरि पुरोडाशावधिश्रयति। अत्रापि तथात्वे यातयामत्वं गतसारत्वं तत्परिहारायोत्तानत्वम्। पुरोडाशसंख्यां प्रशंसति। "
त्रयः पुरोडाशा इति। ज्यायस्त्वं विधत्ते उत्तरउत्तर इति। भूलोकादन्तरिक्षं ज्यायस्तस्मादपि स्वर्गो ज्यायान्। ऊर्ध्वाधोभावेन स्थितानां सर्वेप्षां पुरोडाशानामंशमभिलक्ष्य यथा युगपदेव हस्तप्राप्तिर्भवति तथाऽवदानं विधत्ते—
सर्वेषामिति। छम्बट्कारो वैयर्थ्यम्। एकस्यापि पुरोडाशस्य यथा वैयर्थ्यं न भवति तथेत्यर्थः। याज्यानुवाक्यासु विपर्यासं विधत्ते व्यत्यासमिति। अविनाशायेत्यर्थः। व्यत्यासाभावे ह्यृचां त्रित्वाद्धवींषि विनश्येरन्नेकैकस्य हविषः पृथग्याज्यानुवाक्योः संपादयितुमशक्यत्वात्। सूत्रोक्तप्रकारेण तु व्यात्यासेन षडृचः संपद्यन्त इति नास्ति हविर्नाशः।।
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
षष्ठोऽनुवाकः ।। ६ ।।