अनुवाकः 11 TS 2.3.11

(A11)

(रसं॑-दे॒वानाꣳ॒॒-स्तोमे॒नेति॒-हिर॑ण्या॒-दस॒दिति॒-द्वाविꣳ॑शतिश्च)

अनुवाकः 11 - Complete Audio

TS 2.3.11 - स्वरानुगामी

0:00 0:00
PS1.1 अ॒ग्निं ॅवा ए॒तस्य॒ शरी॑रं
PS1.2 गच्छति॒ सोमꣳ॒॒ रसो॒ वरु॑ण
PS1.3 एनं ॅवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒
PS1.4 ॅवाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒
PS1.5 यो ज्योगा॑मयावी॒ स्याद्यो वा॑
PS1.6 का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒
PS1.7 निर्व॑पेदाग्ने॒य -म॒ष्टाक॑पालꣳ सौ॒म्यं च॒रुं
PS1.8 ॅवा॑रु॒णं दश॑कपालꣳ सारस्व॒तं च॒रुमा᳚ग्नावैष्ण॒व-मेका॑दशकपाल-म॒ग्नेरे॒वास्य॒
PS1.9 शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसं॑ -
PS1.10 [ ]
PS2.1 ॅवारु॒णेनै॒वैनं॑ ॅवरुणपा॒शान् मु॑ञ्चति सारस्व॒तेन॒
PS2.2 वाचं॑ दधात्य॒ग्निः सर्वा॑ दे॒वता॒
PS2.3 विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ ॅय॒ज्ञेन॑ च
PS2.4 भिषज्यत्यु॒त यदी॒तासु॒ र्भव॑ति॒ जीव॑त्ये॒व
PS2.5 यन्नव॒मैत् तन्नव॑नीतम- भव॒दित्याज्य॒- मवे᳚क्षतेरू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒
PS2.6 ॅव्याच॑ष्टे॒ऽश्विनोः᳚ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानां᳚
PS2.7 - [ ]
PS3.1 भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तीन्द्र॑स्य
PS3.2 प्रा॒णो॑ ऽसीत्या॑हेन्द्रि॒य- मे॒वास्मि॑न्ने॒तेन॑ दधाति
PS3.3 मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒- वास्मि॑न्ने॒तेन॑
PS3.4 दधाति॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसीत्या॑ह
PS3.5 वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒
PS3.6 पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत् पा॑वमा॒नेन॑ त्वा॒
PS3.7 स्तोमे॒नेत्या॑ - [ ]
PS4.1 -ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्-रथन्त॒रयो᳚स्त्वा॒
PS4.2 स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒-ऽऽत्मान॑-मे॒वास्मि॑न्ने॒तेन॑
PS4.3 दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नं
PS4.4 भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव
PS4.5 यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒
PS4.6 तद्धिर॑ण्याद् - [ ]
PS5.1 घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृतꣳ॒॒ हिर॑ण्यम॒मृता॑दे॒वा
PS5.2 ऽऽयु॒र्निष्पि॑बति श॒तमा॑नं भवति श॒तायुः॒
PS5.3 पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठ॒त्यथो॒
PS5.4 खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन्
PS5.5 मन्ये॑त॒ ताव॑न्मानꣳ स्या॒थ् समृ॑द्ध्या
PS5.6 इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हा
PS5.7 ऽऽयु॑रे॒वास्मि॒न्. वर्चो॑ दधाति॒ विश्वे॑
PS5.8 देवा॒ जर॑दष्टि॒र्यथा ऽस॒दित्या॑ (
PS5.9 ) -ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्नि-रायु॑ष्मा॒निति॒
PS5.10 हस्तं॑ गृह्णात्ये॒ते वै दे॒वा
PS5.11 आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.3.11.1 TS 2.3.11.1
अ॒ग्निं ॅवा ए॒तस्य॒ शरी॑रं गच्छति॒ सोमꣳ॒॒ रसो॒ वरु॑ण एनं ॅवरुणपा॒शेन॑ गृह्णाति॒ सर॑स्वतीं॒ ॅवाग॒ग्नाविष्णू॑ आ॒त्मा यस्य॒ ज्योगा॒मय॑ति॒ यो ज्योगा॑मयावी॒ स्याद्यो वा॑ का॒मये॑त॒ सर्व॒मायु॑रिया॒मिति॒ तस्मा॑ ए॒तामिष्टिं॒ निर्व॑पेदाग्ने॒य -म॒ष्टाक॑पालꣳ सौ॒म्यं च॒रुं ॅवा॑रु॒णं दश॑कपालꣳ सारस्व॒तं च॒रुमा᳚ग्नावैष्ण॒व-मेका॑दशकपाल-म॒ग्नेरे॒वास्य॒ शरी॑रं निष्क्री॒णाति॒ सोमा॒द्रसं॑ - [ ]
पदपाठः (Word-by-word)
अ॒ग्निम् । वै । ए॒तस्य॑ । शरी॑रम् । ग॒च्छ॒ति॒ । सोम᳚म् । रसः॑ । वरु॑णः । ए॒न॒म् । व॒रु॒ण॒पा॒शेनेति॑ वरुण - पा॒शेन॑ । गृ॒ह्णा॒ति॒ । सर॑स्वतीम् । वाक् । अ॒ग्नाविष्णू॒ इत्य॒ग्ना - विष्णू᳚ । आ॒त्मा । यस्य॑ । ज्योक् । आ॒मय॑ति । यः । ज्योगा॑मया॒वीति॒ ज्योक् - आ॒म॒या॒वी॒ । स्यात् । यः । वा॒ । का॒मये॑त । सर्व᳚म् । आयुः॑ । इ॒या॒म् । इति॑ । तस्मै᳚ । ए॒ताम् । इष्टि᳚म् । निरिति॑ । व॒पे॒त् । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । सौ॒म्यम् । च॒रुम् । वा॒रु॒णम् । दश॑कपाल॒मिति॒ दश॑ - क॒पा॒ल॒म् । सा॒र॒स्व॒तम् । च॒रुम् । आ॒ग्ना॒वै॒ष्ण॒वमित्या᳚ग्ना - वै॒ष्ण॒वम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । अ॒ग्नेः । ए॒व । अ॒स्य॒ । शरी॑रम् । नि॒ष्क्री॒णातीति॑ निः - क्री॒णाति॑ । सोमा᳚त् । रस᳚म् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः)। (आयुष्कामेष्टिविधिः) इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः। अथाकादशे तामिष्टिं विधातुं प्रस्तौति अग्निं वा इति। यं दीर्घव्याधिः पीडयति एतस्य शरीरमग्निं प्रविशति, मांसभक्षणेन कृशत्वात्। सोमेन रसस्वीकाराद्वलक्षयः। वरुणपाशेन ग्रहणादुदरादिव्यथा। सरस्वतीमेतदीया वाग्भाषा गच्छति, तेनायं भाषितुं न शक्नोति। जीवात्मा त्वग्नाविष्णू प्राप्नोति, तेन मुमूर्षति। इदानीं विधत्ते यो ज्योगामयावीति । ज्योगामयाविनो रोगपरिहारार्थमरोगस्य चापमृत्युपरिहारार्थमियं पञ्चहविकेष्टिः मन्त्रं विनियुङ्क्ते यन्नवमैत्तदीति। मन्त्रोक्तैर्नवनीतसर्पिर्घृतनिर्वचनैरस्याज्यस्यैतद्विद्यमानरूपं महिमानं ख्यापनाय मन्त्रौ व्याचष्टे। यद्वा मन्त्रस्यैतत्स्वरूपमेव घृतस्य महिमानं व्याचष्टे। मन्त्राक्षरेरेव स्पष्टं प्रतीयते नाव पृथग्वक्तव्यमस्तीत्यर्थः। उपहोममन्त्रान्व्याचष्टे अश्विनोरिति। यजमानस्याज्यावेक्षणमन्त्रे स्पष्टार्थतां दर्शयति"

"घृतस्येति। ऋत्विग्भिः पठ्यमानानां मन्त्राणां तात्पर्य दर्शयति पावमानेनेति। पवमानस्य वायोः प्राणरूपत्वात्तेन प्राणस्थापनं, बृहद्रथंतरयोः पृष्ठस्तोत्रप्रकृतित्वेन सारत्वात्तेनौजोधारणम्। अग्नेरात्मा मीयतेनयेत्युक्तत्वात्तेनात्मस्थापनम्। एतेषां पाठं विधत्ते ऋत्विज इति। पाठकाले हस्तग्रहणं विधत्ते ब्रह्मणो हस्तमिति। एकधैव सर्वषामृत्विजामैकमत्येनैव यजमानस्य यदेषायुः संपादनीयमस्ति तत्सर्वं तस्मिन्यजमाने स्थापयन्ति। यदुक्तं सूत्रकारेण----‘पात्रसंपादनकाले खादिरं पात्रं चतुस्रक्ति प्रयुङक्ते ,सौवर्णस्य प्रवर्तं शतमानस्य कृतम्, अथो खलु यावतीः समा एष्यन्मन्येत वावन्मान स्यात्’ इति। आज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति” इति च। प्रवर्तः कर्णाभरणं कुण्डलम्। (तत्र घृते स्थापितात्प्रवर्तान्निष्पीडितस्य घृतस्य पानं विधत्ते हिरण्यादिति। तस्य परिमाणं द्वेधा विधत्ते शतमानमिति। शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम्। अथवा रुग्णो यजमानो योवतो भाविनः संवत्सरान्प्राप्नोत्वित्यध्वर्युर्युर्मन्यते तावद्भिर्मानैः परिमितं कर्तव्यम्। मानशब्दो गुञ्जाबीजं ब्रूते। रुग्णस्यातीतमायुः परित्यज्या गामिन आयुषो यावन्तः संवत्सरा एतस्य मनसि निश्चितास्तावद्भिर्गुञ्जाबीजैः परिमितमित्यर्थः। प्राश्नतो यजमानस्याभिमन्त्रणमन्त्रे प्रथमचरमभागयोरभिप्रायं दर्श यति इदमग्न इति। आयुषञ्चरमभागस्थाया जराया अष्टिर्व्याप्तिर्यस्य। अथवा जीर्यत्यष्टिरशनं यस्यासौ जरदष्टिः नीरोग इत्यर्थः। अध्वर्यार्यजमानदक्षिण हस्तग्रहणं विधत्ते अग्निरायुष्मानिति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायभाष्ये द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः।। ११।।"

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 इदानीं तां पञ्चहविषमिष्टिं विदधाति - अग्निं वा इत्यादि ॥ यस्य ज्योक् नित्यमामयत्यामयः तस्य शरीरादीन्यग्न्यादीन् देवान् गच्छन्ति स्व कारणानुप्रवेशात् कार्यरूपनाशात्कर्तरि का र्यशक्त्युपसंहारस्स्यात् । 'रुजार्थानाम्' इति यस्येति कर्मणि षष्ठी । यो ज्योगामयावीत्यादि ॥ गतम् ॥
2 अग्नेरेवेत्यादि ॥ यत्रयत्र शरीरादीनि गतानि तेभ्यस्तानि निष्क्रीणाति हविःप्रदानेन । ततोसौ यजमानः यद्यपि गतासुर्भवति जीवत्येव, किं पुनरायुश्शेषवतामामयनिवृत्तिर्भवतीति । यद्वा - यागबलेन आमयश्च नश्यति, सर्वं चायुश्शतसंवत्सरप्रमाणं लभते ॥
3 आज्यमवेक्षत इति ॥ अस्य मन्त्रस्यैतद्रूपमेव विनैव व्याख्यानं आज्यस्य महिमानं व्याचष्टे व्याकरोति अवस्थात्रयविवरणात् ॥
4 अश्विनोरित्यादि ॥ पुरस्तात्स्विष्टकृतः स्रुवाहुत्युपहोममन्त्रा एते ॥
5 घृतस्य धारामित्यादि ॥ अनेन यजमानमाज्यमवेक्षयति । यथायजुरिति । अमृतत्वप्राप्तिहेतुत्वमस्य यथा यजुर्वदति एतदेव भवति ॥
6 पावमानेनेत्यादि ॥ ब्रह्मणो हस्तमन्वारभ्य ऋत्विजः पर्याहुरिमान् मन्त्रान् । तदेवाह - ऋत्विजः पर्याहुरिति । परित आसीना आहुः । ब्रह्मण इति । हस्तमन्वारभ्य परिवचनात्सर्वमस्यायुरेकधा कृत्वा अस्मिन् दधति यदेव तस्यायुस्तदेव दधति ॥
7 हिरण्यादिति ॥ अयमत्र प्रयोगः - यावतीस्समा एष्यन्मन्येत तावन्मानं सौवर्णं प्रवर्तं कुण्डलमुपकल्प्य खादिरे नवे पात्रे उपस्तीर्णाभिघारितं सह हविर्भिरन्तर्वेद्यासाद्य उपहोमान् हुत्वा संस्रावैः प्रवर्तमभिघार्य अग्रेणाहवनीयं पर्याहृत्य दक्षिणतो निधाय यजमानमवेक्षयति । अथायमवेक्ष्यास्माद्धिरण्यान्निष्पतत् घृतं पिबति । यद्वा - हिरण्यलग्नं घृतं निष्शेषं पिबति । आयुर्वा इति । उभयत्रापि तद्धेतुत्वात्ताच्छब्द्यम् । शतमानमिति । शतगुञ्जाप्रमाणं प्रवर्ताकारं सुवर्णं भवति । गुञ्जफलाकारः कर्णवेष्टः । प्रवर्तस्य शतसंख्यात्वात्तत्प्रमाणयुषामस्य लाभः । अथो खल्विति पक्षान्तरं दर्शयति । यावतस्संवत्सरानेष्यन् जीवितुं मन्येत तावन्मानं कुर्यात् प्रवर्तकम् । यजमानस्य गतानि वर्षाणि शताच्छोधयित्वा शिष्टसम्मितक्रमनिर्मितं कुर्यात् । एवं हि अभिमतसङ्ख्यान्वयात् समृद्ध्यै भवति ॥
8 इममग्न आयुष इति ॥ घृतं निष्पिबन्तमनुमन्त्रयते । जरदष्टिमेवेति । जराप्राप्त्या दीर्घायुष्ट्वं लक्ष्यते ॥
9 अग्निरायुष्मानिति ब्रह्मा यजमानस्य हस्तं गृह्णाति ॥
इति द्वितीये तृतीये एकादशोनुवाकः ॥
पञ्चशत् 2 #
TS 2.3.11.2 TS 2.3.11.2
ॅवारु॒णेनै॒वैनं॑ ॅवरुणपा॒शान् मु॑ञ्चति सारस्व॒तेन॒ वाचं॑ दधात्य॒ग्निः सर्वा॑ दे॒वता॒ विष्णु॑र्य॒ज्ञो दे॒वता॑भिश्चै॒वैनं॑ ॅय॒ज्ञेन॑ च भिषज्यत्यु॒त यदी॒तासु॒ र्भव॑ति॒ जीव॑त्ये॒व यन्नव॒मैत् तन्नव॑नीतम- भव॒दित्याज्य॒- मवे᳚क्षतेरू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे॒ऽश्विनोः᳚ प्रा॒णो॑ऽसीत्या॑हा॒श्विनौ॒ वै दे॒वानां᳚ - [ ]
पदपाठः (Word-by-word)
वा॒रु॒णेन॑ । ए॒व । ए॒न॒म् । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । मु॒ञ्च॒ति॒ । सा॒र॒स्व॒तेन॑ । वाच᳚म् । द॒धा॒ति॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । विष्णुः॑ । य॒ज्ञ्ः । दे॒वता॑भिः । च॒ । ए॒व । ए॒न॒म् । य॒ज्ञेन॑ । च॒ । भि॒ष॒ज्य॒ति॒ । उ॒त । यदि॑ । इ॒तासु॒रिती॒त - अ॒सुः॒ । भव॑ति । जीव॑ति । ए॒व । यत् । नव᳚म् । ऐत् । तत् । नव॑नीत॒मिति॒ नव॑-नी॒त॒म् । अ॒भ॒व॒त् । इति॑ । आज्य᳚म् । अवेति॑ । ई॒क्ष॒ते॒ । रू॒पम् । ए॒व । अ॒स्य॒ । ए॒तत् । म॒हि॒मान᳚म् । व्याच॑ष्ट॒ इति॑ वि-आच॑ष्टे । अ॒श्विनोः᳚ । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒श्विनौ᳚ । वै । दे॒वाना᳚म् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.3.11.3 TS 2.3.11.3
भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रो॒तीन्द्र॑स्य प्रा॒णो॑ ऽसीत्या॑हेन्द्रि॒य- मे॒वास्मि॑न्ने॒तेन॑ दधाति मि॒त्रावरु॑णयोः प्रा॒णो॑ऽसीत्या॑ह प्राणापा॒नावे॒- वास्मि॑न्ने॒तेन॑ दधाति॒ विश्वे॑षां दे॒वानां᳚ प्रा॒णो॑ऽसीत्या॑ह वी॒र्य॑मे॒वास्मि॑न्ने॒तेन॑ दधाति घृ॒तस्य॒ धारा॑म॒मृत॑स्य॒ पन्था॒मित्या॑ह यथाय॒जुरे॒वैतत् पा॑वमा॒नेन॑ त्वा॒ स्तोमे॒नेत्या॑ - [ ]
पदपाठः (Word-by-word)
भि॒षजौ᳚ । ताभ्या᳚म् । ए॒व । अ॒स्मै॒ । भे॒ष॒जम् । क॒रो॒ति॒ । इन्द्र॑स्य । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ । इति॑ । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । मि॒त्रावरु॑णया॒रिति॑ मि॒त्रा - वरु॑णयोः । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ । इति॑ । आ॒ह॒ । प्रा॒णा॒पा॒नाविति॑ प्राण - अ॒पा॒नौ । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । विश्वे॑षाम् । दे॒वाना᳚म् । प्रा॒ण इति॑ प्र - अ॒नः । अ॒सि॒ । इति॑ । आ॒ह॒ । वी॒र्य᳚म् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । घृ॒तस्य॑ । धारा᳚म् । अ॒मृत॑स्य । पन्था᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । पा॒व॒मा॒नेन॑ । त्वा॒ । स्तोमे॑न । इति॑ ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.3.11.4 TS 2.3.11.4
-ह प्रा॒णमे॒वास्मि॑न्ने॒तेन॑ दधाति बृहद्-रथन्त॒रयो᳚स्त्वा॒ स्तोमे॒नेत्या॒हौज॑ ए॒वास्मि॑न्ने॒तेन॑ दधात्य॒ग्नेस्त्वा॒ मात्र॒येत्या॑हा॒-ऽऽत्मान॑-मे॒वास्मि॑न्ने॒तेन॑ दधात्यृ॒त्विजः॒ पर्या॑हु॒र्याव॑न्त ए॒वर्त्विज॒स्त ए॑नं भिषज्यन्ति ब्र॒ह्मणो॒ हस्त॑मन्वा॒रभ्य॒ पर्या॑हुरेक॒धैव यज॑मान॒ आयु॑र्दधति॒ यदे॒व तस्य॒ तद्धिर॑ण्याद् - [ ]
पदपाठः (Word-by-word)
आ॒ह॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । बृ॒ह॒द्र॒थ॒न्त॒रयो॒रिति॑ बृहत्-र॒थ॒न्त॒रयोः᳚ । त्वा॒ । स्तोमे॑न । इति॑ । आ॒ह॒ । ओजः॑ । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । अ॒ग्नेः । त्वा॒ । मात्र॑या । इति॑ । आ॒ह॒ । आ॒त्मान᳚म् । ए॒व । अ॒स्मि॒न्न् । ए॒तेन॑ । द॒धा॒ति॒ । ऋ॒त्विजः॑ । परीति॑ । आ॒हुः॒ । याव॑न्तः । ए॒व । ऋ॒त्विजः॑ । ते । ए॒न॒म् । भि॒ष॒ज्य॒न्ति॒ । ब्र॒ह्मणः॑ । हस्त᳚म् । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । परीति॑ । आ॒हुः॒ । ए॒क॒धेत्ये॑क - धा । ए॒व । यज॑माने । आयुः॑ । द॒ध॒ति॒ । यत् । ए॒व । तस्य॑ । तत् । हिर॑ण्यात् ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.3.11.5 TS 2.3.11.5
घृ॒तं निष्पि॑ब॒त्यायु॒र्वै घृ॒तम॒मृतꣳ॒॒ हिर॑ण्यम॒मृता॑दे॒वा ऽऽयु॒र्निष्पि॑बति श॒तमा॑नं भवति श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑य॒ आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठ॒त्यथो॒ खलु॒ याव॑तीः॒ समा॑ ए॒ष्यन् मन्ये॑त॒ ताव॑न्मानꣳ स्या॒थ् समृ॑द्ध्या इ॒मम॑ग्न॒ आयु॑षे॒ वर्च॑से कृ॒धीत्या॒हा ऽऽयु॑रे॒वास्मि॒न्. वर्चो॑ दधाति॒ विश्वे॑ देवा॒ जर॑दष्टि॒र्यथा ऽस॒दित्या॑ ( ) -ह॒ जर॑दष्टिमे॒वैनं॑ करोत्य॒ग्नि-रायु॑ष्मा॒निति॒ हस्तं॑ गृह्णात्ये॒ते वै दे॒वा आयु॑ष्मन्त॒स्त ए॒वास्मि॒न्नायु॑र्दधति॒ सर्व॒मायु॑रेति ॥
पदपाठः (Word-by-word)
घृ॒तम् । निरिति॑ । पि॒ब॒ति॒ । आयुः॑ । वै । घृ॒तम् । अ॒मृत᳚म् । हिर॑ण्यम् । अ॒मृता᳚त् । ए॒व । आयुः॑ । निरिति॑ । पि॒ब॒ति॒ । श॒तमा॑न॒मिति॑ श॒त - मा॒न॒म् । भ॒व॒ति॒ । श॒तायु॒रिति॑ श॒त - आ॒युः॒ । पुरु॑षः । श॒तेन्द्रि॑य॒ इति॑ श॒त - इ॒न्द्रि॒यः॒ । आयु॑षि । ए॒व । इ॒न्द्रि॒ये । प्रतीति॑ । ति॒ष्ठ॒ति॒ । अथो॒ इति॑ । खलु॑ । याव॑तीः । समाः᳚ । ए॒ष्यन्न् । मन्ये॑त । ताव॑न्मान॒मिति॒ ताव॑त् - मा॒न॒म् । स्या॒त् । समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्ध्यै॒ । इ॒मम् । अ॒ग्ने॒ । आयु॑षे । वर्च॑से । कृ॒धि॒ । इति॑ । आ॒ह॒ । आयुः॑ । ए॒व । अ॒स्मि॒न्न् । वर्चः॑ । द॒धा॒ति॒ । विश्वे᳚ । दे॒वाः॒ । जर॑दष्टि॒रिति॒ जर॑त् - अ॒ष्टिः॒ । यथा᳚ । अस॑त् । इति॑ ( ) । आ॒ह॒ । जर॑दष्टि॒मिति॒ जर॑त् - अ॒ष्टि॒म् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । अ॒ग्निः । आयु॑ष्मान् । इति॑ । हस्त᳚म् । गृ॒ह्णा॒ति॒ । ए॒ते । वै । दे॒वाः । आयु॑ष्मन्तः । ते । ए॒व । अ॒स्मि॒न्न् । आयुः॑ । द॒ध॒ति॒ । सर्व᳚म् । आयुः॑ । ए॒ति॒ ॥
पदसंख्या: 72