पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः)। (आयुष्कामेष्टिविधिः) इष्टेर्विधास्यमाताया दशमे मन्त्र ईरितः। अथाकादशे तामिष्टिं विधातुं प्रस्तौति अग्निं वा इति। यं दीर्घव्याधिः पीडयति एतस्य शरीरमग्निं प्रविशति, मांसभक्षणेन कृशत्वात्। सोमेन रसस्वीकाराद्वलक्षयः। वरुणपाशेन ग्रहणादुदरादिव्यथा। सरस्वतीमेतदीया वाग्भाषा गच्छति, तेनायं भाषितुं न शक्नोति। जीवात्मा त्वग्नाविष्णू प्राप्नोति, तेन मुमूर्षति। इदानीं विधत्ते यो ज्योगामयावीति । ज्योगामयाविनो रोगपरिहारार्थमरोगस्य चापमृत्युपरिहारार्थमियं पञ्चहविकेष्टिः मन्त्रं विनियुङ्क्ते यन्नवमैत्तदीति। मन्त्रोक्तैर्नवनीतसर्पिर्घृतनिर्वचनैरस्याज्यस्यैतद्विद्यमानरूपं महिमानं ख्यापनाय मन्त्रौ व्याचष्टे। यद्वा मन्त्रस्यैतत्स्वरूपमेव घृतस्य महिमानं व्याचष्टे। मन्त्राक्षरेरेव स्पष्टं प्रतीयते नाव पृथग्वक्तव्यमस्तीत्यर्थः। उपहोममन्त्रान्व्याचष्टे अश्विनोरिति। यजमानस्याज्यावेक्षणमन्त्रे स्पष्टार्थतां दर्शयति"
"घृतस्येति। ऋत्विग्भिः पठ्यमानानां मन्त्राणां तात्पर्य दर्शयति पावमानेनेति। पवमानस्य वायोः प्राणरूपत्वात्तेन प्राणस्थापनं, बृहद्रथंतरयोः पृष्ठस्तोत्रप्रकृतित्वेन सारत्वात्तेनौजोधारणम्। अग्नेरात्मा मीयतेनयेत्युक्तत्वात्तेनात्मस्थापनम्। एतेषां पाठं विधत्ते ऋत्विज इति। पाठकाले हस्तग्रहणं विधत्ते ब्रह्मणो हस्तमिति। एकधैव सर्वषामृत्विजामैकमत्येनैव यजमानस्य यदेषायुः संपादनीयमस्ति तत्सर्वं तस्मिन्यजमाने स्थापयन्ति। यदुक्तं सूत्रकारेण----‘पात्रसंपादनकाले खादिरं पात्रं चतुस्रक्ति प्रयुङक्ते ,सौवर्णस्य प्रवर्तं शतमानस्य कृतम्, अथो खलु यावतीः समा एष्यन्मन्येत वावन्मान स्यात्’ इति। आज्यग्रहणकाले तूष्णीं खादिरे चतुर्गृहीतं गृहीत्वा सादनकाल उत्तरेण ध्रुवां खादिरं सादयित्वा तस्मिन्प्रवर्तमवदधाति” इति च। प्रवर्तः कर्णाभरणं कुण्डलम्। (तत्र घृते स्थापितात्प्रवर्तान्निष्पीडितस्य घृतस्य पानं विधत्ते हिरण्यादिति। तस्य परिमाणं द्वेधा विधत्ते शतमानमिति। शतमानं पञ्चपणपरिमितमित्यसकृदुक्तम्। अथवा रुग्णो यजमानो योवतो भाविनः संवत्सरान्प्राप्नोत्वित्यध्वर्युर्युर्मन्यते तावद्भिर्मानैः परिमितं कर्तव्यम्। मानशब्दो गुञ्जाबीजं ब्रूते। रुग्णस्यातीतमायुः परित्यज्या गामिन आयुषो यावन्तः संवत्सरा एतस्य मनसि निश्चितास्तावद्भिर्गुञ्जाबीजैः परिमितमित्यर्थः। प्राश्नतो यजमानस्याभिमन्त्रणमन्त्रे प्रथमचरमभागयोरभिप्रायं दर्श यति इदमग्न इति। आयुषञ्चरमभागस्थाया जराया अष्टिर्व्याप्तिर्यस्य। अथवा जीर्यत्यष्टिरशनं यस्यासौ जरदष्टिः नीरोग इत्यर्थः। अध्वर्यार्यजमानदक्षिण हस्तग्रहणं विधत्ते अग्निरायुष्मानिति। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहितायभाष्ये द्वितीयकाण्डे तृतीयप्रपाठक एकादशोनुवाकः।। ११।।"