पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
"(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्दशोनुवाकः)। (काम्ययाज्यापुरोनुवाक्याभिधानम्) विहीता पापिनस्त्विष्टिरनुवाके त्रयोदशे। अथास्मिन्नन्तिमे चतुर्दशेनुवाके काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते। तत्र त्रिहविष्का येयं यज्ञविभ्रष्टेष्टिस्तृतीयानुवाके समाम्नाता, प्रथमद्वितीययोर्हविषोः क्रमेण याज्यानुवाक्या (नां) प्रतीकं (कानि) दर्शयति स प्रत्नवन्निति। स प्रत्नवन्नवीयसेत्यनुवाक्या। नि काव्या वेधस इति याज्या। एतदुभयमाग्नेये हविषि द्रष्टव्यम्। तच्च हिरण्यगर्भ आपो हेत्यस्मिन्ननुवाके व्याख्यातम्। इन्द्रं वो विश्पस्परीत्यनुवाक्या। इन्द्रं नरो नामधितेति याज्या। एतदुभयमैन्द्रे हविषि द्रष्टव्यम्। तच्च प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्। अथ सौम्यस्य हविषः पुरोनुवाक्यामाह त्वं नः सोमेति। अघं पापमस्मदुपद्रवमिच्छन्नधायंस्तस्मात्पापसमघाद्वि श्वतः सर्वस्मान्नोस्मान्हे सोम राजंस्त्वं रक्ष। त्वावतत्स्वादृशस्य प्रभोः सखा कश्चित्सममर्थोपि त्वदनुग्रहान्न रिष्येदस्मान्न हिनस्ति। तत्रैव याज्यामाह या ते धामानिति। हे सोम राजंस्ते तव दिवि पृथव्यादिषु च प्रदेशेषु यानि धामानि स्थानानि सन्ति। प्रतिप्रदेशं पृथगनुवादार्था यच्छब्दावृत्तिः। तेभिर्विश्वैस्तैः सर्वेः स्थानैर्युक्तः शोभनमनस्कः क्रोधरहितः सन्नोस्माकं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण। यस्मिन्स्थाने त्वं स्थितस्तत आगत्य हविः स्वीकुर्वित्यर्थः। “अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्। इत्यत्र पुरोनुवाक्यामाह अग्नीषोमेति। हेग्नीषोमौ गिरोस्मदीयाः स्तुतीर्वनतं भजतम्। कीदृशौ। सवेदसा समानज्ञानयुक्तौ। सहूती समानाह्वानयुक्तौ देवत्रा देवषु मध्ये संबभूवथुर्युवां संभूयैव सन्तौ न कदाचिदप्यन्योन्यं वियुक्तावित्यर्थः। तत्रैव याज्यामाह युवमेतानीति। हे सोम त्वमग्निश्चेत्येतौ युवां सक्रतू समानसंकल्पौ सन्तौ दिवि एतानि रोचनानि नक्षत्रादीनि अधत्तमस्थापयतम्। हेग्नीषोमौ युवां गृभीतान्सिन्धून्मध्योदकादिनिमित्तेनापूर्णत्वापवादेन पङ्कादिरूपेण दृष्टेन दोषेण च गृहीताः सर्वा नदीरभिशस्तेस्तस्मादपवादादवद्यात्पङ्कादिदृष्टदोषाच्चामुञ्चतं मोचि तवन्तौ। यद्यप्येतत्सर्वभीश्वरकृत्यं तथापि तद्रूपत्वेनैतौ स्तूयेते। “अग्नीषोभी यमष्ट कपालं निर्वपेद्ब्रह्मवर्चसकामः” इत्यत्र पुरोनुवाक्यामाह अग्नीषोमाविममिति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां मे मदीयमिमे हवमाह्वानं सुष्ठु शृणुतं, सूक्तानि अस्मदीयानि प्रतिहर्यतं मनसा प्रतीगृह्णीत, दाशषे हविर्दत्तवते यजमानाय मयः सुखं भवतं संपादयतम्। तत्रैत्र याज्यामाह आन्यं दिव इति। मातरिश्वा वायुरन्यं युवयोरेक्रमग्निं दिवो द्युलाकस्या दादित्याद्यादाजभारादृतवान्। तथा चान्यत्र मन्त्र आम्नायते “आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः इति। श्येनो गायत्र्याः पक्षिरूपावतारोन्यं युक्येरिकं सोममद्रेः परि पर्वतवदुन्नततमस्य द्युलोकस्योपरि अमथ्नात्सोमरक्षकाणां तत्रत्यानां मन्थनं विलोडनं पराजयरूपं क्षोभं कृत्या समानीतवानित्यर्थः । एतच्च ‘कद्रूश्च वै सुपर्णी च” इत्यस्मिन्ननुवाके समाम्नातम्। हेग्नीषोमौ युवां ब्रह्मणा वावृधाना मन्त्रेण वर्धमानो यज्ञार्थमुरुं लोकं विस्तीर्णं स्थानं चक्रथुरुरुकृतन्तावेव। यजमानस्य फलभूतं लोकं संपादितवन्तावित्यर्थः । तत्रैव विकल्पितां याज्यामाह अग्नीषोमेति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां प्रस्थित तस्य समर्पितस्य हविषः सारं वतिं प्राप्नुतं हर्यंत प्रतिगृह्णीतं जुषेथां सेवथां, सुशर्माणा शोभनसुखयुक्तै स्ववसा शोभनरक्षणोपेतौ भूतं भवतम्। हि यस्मादेवं तस्मादथानन्तरं यजमानाय यजमानार्थं शँ सुखं योः पुत्रादिमिश्रणं च धत्तं कुरुतम्। “सोमाय वाजिने श्यामाकं चरुं विर्वपेत्” इत्यत्र याज्यानुवाक्ययोः प्रतीके दर्शयति आ प्यायस्वेति। आ प्यायस्व समेतु त इत्येषा पुरोनुवाक्या। सं ते पया सीत्येषा याज्या। एते उभे चतुर्थकाण्डस्य द्वितीयप्रपाठके मा नो हि सीज्जनिता इत्यस्मिन्ननुवाके समाम्नास्येते अतस्तत्रैव व्याख्यास्येते। “ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकामः” इत्यत्र पुरोनुवाक्यामाह गणानां त्वेति। ब्रह्मणां ब्रह्मणस्पते हे कृत्स्नमन्त्रपते गणानां गणपतिं कृत्स्नदेवगणस्वामिनं त्वां हवामह आह्वयामः। कीदृशं त्वां कविं कवीनां विदुषां मध्ये प्रशस्तं विद्वांसम्, उपमश्रवस्तममुपमानत्वेन श्रवः कीर्तिर्यस्यासावुपमश्रवाः, सर्वगुणसंपन्नत्वेनायमेव सर्वेषां पदार्थामुपमानमित्येतादृशी कीर्तिः, अति शयेनोपमश्रवा उपश्रवस्तमस्तादृशं, राज्ञां मध्ये ज्येष्ठो ज्येष्ठराजस्तादृशम्। यथोक्तगुणोपेतस्त्वं नोस्माकमूतिभिः पालनैर्निमित्तभूतैर्बुक्त सन्सादनमस्मिन्कर्मण्युपवेशनमासीद प्राप्नुहि। तत्रेव याज्यामाह स इज्जनेनेति। स इत्स एव यजमानो अनेन किंकरादिना युक्तं वाजमर्न्न भरते दधाति। स एव विशा करप्रदया प्रजया सहितं वाजं भरते। स एव ब्राह्मणादिजन्मना सहितं वाजं भरते। स एव पुत्रैः सहितं वाजं भरते । स एव नृभिर्बन्धुभिः सहितानि धना द्रव्याणि भरते । यो यजमानः श्रध्दामनाः श्रध्दायुक्तमनस्को देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा स्वकीयेनाविवासति आ समन्ताद्विशेषेण परिचरति, स इज्जनेनेति पूर्वत्रान्वयः। अत्रैव विकल्पितां याज्यामाह। यद्वा तत्रैवोपहोममन्त्रमाह स सुष्ठुभेति। स देवः सुष्टुभा, शोभना स्तुभः सामावयवाः स्तोभा यस्य मन्त्रगणस्य सोऽयं सुष्ठुप्तेन सुष्ठुभा, ऋक्वता, ऋचो बहुविधा यस्मिन्मन्त्रगणे स ऋक्वांस्तेन ऋक्वता, रवेण ध्वनियुक्तेन गणेन मन्त्रसमूहेन तुष्टः सन्रुरोज बभञ् जेत्यन्वयः। कं बलं फलिगं फलमस्यास्तीति कली यजमानस्तं गच्छति प्राप्नोतीति फलिगस्तादृशं बलं प्रबलं प्रतिबन्धं रुरोज। हव्यसूदो हविर्भोक्ता कनिक्र ददहो स्वादुतमं हविरिति क्रन्दनं कुर्वाणो बृहस्पतीर्वावशतीः प्रस्रुवस्तनत्वेन वत्सान्प्रति हम्बारवं कुर्वतीरुस्त्रिया गा उत्कर्षेणैतदीयगृहं प्रति प्रेरयति। स इत्यभ्यास आदरार्थः। ‘एतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं विनाशयेयमिति मारुती याज्यानुवाक्ये कुर्यात्’ इति विहितयोः प्रतीके दर्शयति। मरुतो यद्धेति। मरुतो यद्ध व इत्यनुवाक्या। या वः शर्मेति याज्या। एतच्चोभयं प्रथमकाण्डस्य पञ्चमप्रपाठके व्याख्यातम्। ‘अर्यम्णे चरुं निर्वपेत्सुमर्गकामः’। इति चतुर्थेनुवाके यद्विहितं तत्र पुरोनुवाक्यामाह अर्थभातीति। ‘असौ वा आदित्योर्यमा’ इतिश्रुतेरयमशब्ध आदित्यं ब्रूते। स चेन्द्राभेदोपचारेणेन्द्रधर्मैः स्तूयते। वृषभः कामानां वर्षयिता। तुविष्मान्महावलः। वसूनां धनानां दाता। पुरुषु बहुषु यज्ञेषु हूत आहूतः। अह न्स्वर्गं दातुं योग्यः। सहस्राक्षत्वादिकं स्पष्टम्। तत्रैव याज्यामाह यो तेर्यमन्निति। हेर्यमन्राजंस्ते त्वदीया देवयाना देवैर्गन्तुमर्हा ये बहवः पन्थान आ दिवः स्वर्गपर्यन्तं चरन्ति गच्छन्ति हे देव तेभिस्तः पथिभिर्नोस्माकं महि शर्म महत्सुखं यच्छ, द्विपदे मनुष्याय नोस्माकं संबन्धिने शमेधि सुखकरो भव, चतुष्पदे गवादिरूपाय शमेधि। ‘अर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युः’ ‘अर्यम्णे चः निर्वपेद्यः कामयेत स्वस्ति जनतामियाम्’ इत्यनयोरपि एते एव याज्यानुवाक्ये। ‘यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह बुध्नादग्रामिति। बुध्नादग्रं कर्मोपक्रमादारभ्य समाप्तिपर्यन्तमङ्गिरोभिर्गृणानोङ्गिकारोनाम्ना मुनिना सदृशैर्ऋत्विग्भिः स्तूयमान इन्द्रः पर्वतवत्सर्वा धीरस्य राज्ञो दृंहितानि समानैर यैः क्रियमाणान्द्रोहविशेषाव्यैराद्वंगतानकरोत्। किं कुर्वन्। एषां समानानं कृत्रिमाणि बलात्संपादितानि रोधांसि श्रैष्ठ्यप्रतिबन्धकाकाव्यवरोधिनानि र जज्जम्भयन्। कदैतत्सर्वमकरोदित्युच्यते। सोमस्य मदे सोम पानसंबन्धिनि भदे सतीन्द्रस्ता चकार तानु द्रोहनिवारणादीति कृतवान्। तत्रैव याज्यामाह बुध्नादग्रेणेति। इन्द्रो नदीनां बुध्नादग्रेण मुलादग्रपर्यन्तं मानद (नैर्द) ण्डैर्विभिमाय विशेषेण निश्चितवान्। निश्चित्य च नदीनां खानि जलप्रवाहार्थानवकाशान्प्रति वज्रणातृणज्जलवाहनिरोधकपर्वतान्वज्रेण हिंसितवान्। दीर्घयाथैर्दीर्घाणां प्रवाहाणां गमनोपयुक्तैः पथिभिर्मार्गैर्युक्तान्नदीविशेषानसृजत्। न चात्रास्य भूयान्प्रयासः किंतु वृथा। यथा लोके नखैस्तृणच्छेदादिव्यर्थचेष्टामायासमन्तरेण जनाः कुर्वन्ति तद्वदित्यर्थः। सोमस्येत्यादि पूर्ववत्। नखालम्भनमात्रेण महतीर्नदीः सृजत इन्द्रस्य श्रैष्ठ्यप्रापणे कः प्रयास इत्यभिप्रायः।"
"‘यो ब्राह्मण आनुजावरः स्यात्तस्या एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह प्र यो जज्ञ इति। विद्वान्सर्वज्ञो यो बृहस्पतिरस्य ब्राह्मणस्य यजमानस्य बन्धुं समानानां मध्येनुकूलं प्रजज्ञे प्रकर्षेण जानाति। तदीयमभिज्ञत्वं कथं निश्चियत इति चेदुच्यते। यतोयं देवो विश्वानि जनिमा सर्वेषां प्राणिनां सर्वाणि जन्मानि विवक्ति पुनः पुनः कथयति तस्मादभिज्ञत्वं निश्चियते। अ (सो) भिज्ञो बृहस्पतिर्बह्मणो वेदस्य मध्यान्नीचादुच्चा मध्यमभागात्प्रथमभागादुत्तप्रभागाच्च व्र परिवृढं कर्मोज्ज प्रारोद्धृतवान्। स्वधयामृतेन श्रैष्ठ्यप्रापणलक्षणेनाभि प्रतस्थौ एनं यजमानसभिलक्ष्य प्रस्थानं कृतवान्। समानानां मध्ये श्रैष्ठ्यं दातुं यजमानसमीपे समागतवानित्यर्थः। तत्रैव याज्यामाह महान्महीति। महान्सामर्थ्येनाधिको बृहस्पतिर्मही प्रौढे पृथिव्यन्तरिक्षे द्यां द्युलोकं सद्म मनुष्याणां गृह पार्थिव रजश्च जात उत्पत्तिमात्रेण व्यस्तभायद्विविधं स्तम्भितवान्। यद्यप्येतत्सर्वमीश्वरस्यैव कर्म तथापि तदभेदेन बृहस्पतिः स्तूयते। यद्वा परमेश्वरानुग्रहादयमेव लोकत्रयादिकं स्वस्वव्यापारक्षममकोरोत्। यस्य यजमानस्य सम्राड्यथोक्तरीत्या साम्राज्यं प्राप्तो बृहस्पतिर्देवता स यजमानो जनुषा जन्ममात्रेणैव बुध्नादग्रमभि आयुषोनुष्ठियमानकर्मणो वा मृला दारभ्य समाप्तिपर्यन्तमाष्ट व्याप्तवान्। ईदृशेन बृहस्पत्यनुग्रहेण युक्तो यजमानः सर्वथा श्रैष्ठ्यं प्राप्नोत्येवेत्यभिप्रायः। तत्रैव विकल्पितां याज्यामाह बुध्नाद्य इति। यो बृहस्पतिर्जगतो देहस्य कर्मणो वा बुध्नादारभ्याग्रमभ्यर्त्यवसानमोजसा स्वबलेन प्राप्नोति तं बृहस्पतिमितरे देवा आविवासन्ति आगत्य विशेषेण वासयन्ति परिचरन्तीत्यर्थः। बृहस्पतिर्बलं यजमानसंबन्धिनां मध्ये प्रबलं पुरुषं भिनद्भिनत्ति प्रातिकूल्यान्निवारयति, पुरः समानानां पुराणि विशेषेण दर्दरीति प्रातिकूल्यनिवारणाय पुनः पुनर्दारितवान्। कनिक्रददुत्साहेन शब्दं कुर्वन्, सुवः, तत्सदृशं श्रैष्ठ्यमपस्तत्साधनं सर्वं जलक्षेत्रादिकं जिगाय जितवान्य जमानार्थे संपादितवानित्यर्थः। अत्र विनियोगसंग्रहः “यज्ञविभ्रष्टयागे तु याज्याः स प्र निकेति च । इन्द्रमिन्द्रं चैन्द्रयागे त्वं नः साम्यचरौ तथा।। अग्नी कामप्रापकेग्नी ब्रह्मवर्चसिनस्त्रयम्। आप्या सं ते चरौ सौम्ये गणां ग्रामप्रदे त्रयम्।। मरु यागे नाशकेष्टावर्यमार्यमणे चरौ "
बुध्नादैन्द्रे प्र यस्तिस्रो बार्हरस्पत्यानुषूकके। पञ्चविंशतित (र) त्रोक्ता अनुवाके चतुर्दशे।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके
चतुर्दशोनुवाकः।।१४।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयः प्रपाठकः।।३।।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
॥ प्रपाठकस्सम्पूर्णः ॥
—-------------------