अनुवाकः 14 TS 2.3.14

(A14)

(यु॒वं - ॅवी॒तमा॒ - विवा॑सति॒ - पन्था॑नो - दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार - दे॒वा - नव॑ च)

अनुवाकः 14 - Complete Audio

TS 2.3.14 - स्वरानुगामी

0:00 0:00
PS1.1 स प्र॑त्न॒व न्नि काव्ये
PS1.2 न्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरः॑
PS1.3 त्वं नः॑ सोम वि॒श्वतो॒
PS1.4 रक्षा॑ राजन्नघाय॒तः
PS1.5 न रि॑ष्ये॒त् त्वाव॑तः॒ सखाः᳚
PS1.6 या ते॒ धामा॑नि दि॒वि
PS1.7 या पृ॑थि॒व्यां ॅया पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु
PS1.8 तेभि॑र्नो॒ विश्वः᳚ सु॒मना॒ अहे॑ड॒न्
PS1.9 राजन्᳚थ्-सोम॒ प्रति॑ ह॒व्या गृ॑भाय
PS1.10 अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑
PS1.11 सं दे॑व॒त्रा ब॑भूवथुः
PS1.12 यु॒व - [ ]
PS2.1 -मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒
PS2.2 सक्र॑तू अधत्तं
PS2.3 यु॒वꣳ सिन्धूꣳ॑ र॒भिश॑स्तेरव॒द्या-दग्नी॑षोमा॒-वमु॑ञ्चतं गृभी॒तान्
PS2.4 अग्नी॑षोमावि॒मꣳ सु मे॑ शृणु॒तं
PS2.5 ॅवृ॑षणा॒ हवं᳚
PS2.6 प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं
PS2.7 दा॒शुषे॒ मयः॑
PS2.8 आऽन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राऽम॑थ्नाद॒न्यं
PS2.9 परि॑ श्ये॒नो अद्रेः᳚
PS2.10 अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं ॅय॒ज्ञाय॑
PS2.11 चक्रथुरु लो॒कं
PS2.12 अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तꣳ
PS2.13 - [ ]
PS3.1 हर्य॑तं ॅवृषणा जु॒षेथां᳚
PS3.2 सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑
PS3.3 धत्तं॒ ॅयज॑मानाय॒ शं ॅयोः
PS3.4 आप्या॑यस्व॒ सं ते᳚
PS3.5 ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे
PS3.6 क॒विं क॑वी॒ना-मु॑प॒मश्र॑वस्तमं
PS3.7 ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ
PS3.8 नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं
PS3.9 स इज्जने॑न॒ स वि॒शा
PS3.10 स जन्म॑ना॒ स पु॒त्रैर्वाजं॑
PS3.11 भरते॒ धना॒ नृभिः॑
PS3.12 दे॒वानां॒ ॅयः पि॒तर॑मा॒विवा॑सति -
PS3.13 [ ]
PS4.1 श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं᳚
PS4.2 स सु॒ष्टुभा॒ स ऋक्व॑ता
PS4.3 ग॒णेन॑ व॒लꣳ रु॑रोज फलि॒गꣳ
PS4.4 रवे॑ण
PS4.5 बृह॒स्पति॑रु॒स्त्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्- वाव॑शती॒रुदा॑जत्
PS4.6 मरु॑तो॒ यद्ध॑ वो दि॒वोया
PS4.7 वः॒ शर्म॑
PS4.8 अ॒र्य॒मा ऽऽया॑ति वृष॒भस्तुवि॑ष्मान् दा॒ता
PS4.9 वसू॑नां पुरुहू॒तो अर्.हन्न्॑
PS4.10 स॒ह॒स्रा॒क्षो गो᳚त्र॒भिद्-वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु
PS4.11 ये ते᳚ऽर्यमन् ब॒हवो॑ देव॒यानाः॒
PS4.12 पन्था॑नो - [ ]
PS5.1 राजन् दि॒व आ॒चर॑न्ति
PS5.2 तेभि॑र्नो देव॒ महि॒ शर्म॑
PS5.3 यच्छ॒ शं न॑ एधि
PS5.4 द्वि॒पदे॒ शं चतु॑ष्पदे
PS5.5 बु॒द्ध्नादग्र॒-मङ्गि॑रोभि-र्गृणा॒नो वि पर्व॑तस्य दृꣳहि॒तान्यै॑रत्
PS5.6 रु॒जद्रोधाꣳ॑सिकृ॒त्रिमा᳚ण्येषाꣳ॒॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार
PS5.7 बु॒द्ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां᳚
PS5.8 वृथा॑ ऽसृजत् प॒थिभि॑ र्दीर्घया॒थैः
PS5.9 सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार
PS6.1 प्र यो ज॒ज्ञे वि॒द्वाꣳ
PS6.2 अ॒स्य बन्धुं॒ ॅविश्वा॑नि दे॒वो
PS6.3 जनि॑मा विवक्ति
PS6.4 ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मद्ध्या᳚न्नी॒चादु॒च्चा
PS6.5 स्व॒धया॒ऽभि प्रत॑स्थौ
PS6.6 म॒हान् म॒ही अ॑स्तभाय॒द्वि जा॒तो
PS6.7 द्याꣳ सद्म॒ पार्थि॑वं च॒
PS6.8 रजः॑
PS6.9 स बु॒द्ध्नादा᳚ष्ट ज॒नुषा॒ऽभ्यग्रं॒ बृह॒स्पति॑
PS6.10 र्दे॒वता॒यस्य॑ स॒म्राट्
PS6.11 बु॒द्ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति
PS6.12 दे॒वाः ( )
PS6.13 भि॒नद्व॒लं ॅवि पुरो॑ दर्दरीति॒
PS6.14 कनि॑क्रद॒थ् सुव॑र॒पो जि॑गाय

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 2.3.14.1 TS 2.3.14.1
स प्र॑त्न॒व न्नि काव्ये न्द्रं॑ ॅवो वि॒श्वत॒स्परीन्द्रं॒ नरः॑॥त्वं नः॑ सोम वि॒श्वतो॒ रक्षा॑ राजन्नघाय॒तः । न रि॑ष्ये॒त् त्वाव॑तः॒ सखाः᳚ ॥या ते॒ धामा॑नि दि॒वि या पृ॑थि॒व्यां ॅया पर्व॑ते॒ष्वोष॑धीष्व॒फ्सु ॥ तेभि॑र्नो॒ विश्वः᳚ सु॒मना॒ अहे॑ड॒न् राजन्᳚थ्-सोम॒ प्रति॑ ह॒व्या गृ॑भाय ॥ अग्नी॑षोमा॒ सवे॑दसा॒ सहू॑ती वनतं॒ गिरः॑ । सं दे॑व॒त्रा ब॑भूवथुः ॥ यु॒व - [ ]
पदपाठः (Word-by-word)
सः । प्र॒त्न॒वदिति॑ प्रत्न - वत् । नीति॑ । काव्या᳚ । इन्द्र᳚म् । वः॒ । वि॒श्वतः॑ । परीति॑ । इन्द्र᳚म् । नरः॑ ॥ त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । रक्ष॑ । रा॒ज॒न्न् । अ॒घा॒य॒त इत्य॑घ - य॒तः ॥ न । रि॒ष्ये॒त् । त्वाव॑त॒ इति॒ त्व - व॒तः॒ । सखा᳚ ॥ या । ते॒ । धामा॑नि । दि॒वि । या । पृ॒थि॒व्याम् । या । पर्व॑तेषु । ओष॑धीषु । अ॒फ्सित्य॑प् - सु ॥ तेभिः॑ । नः॒ । विश्वैः᳚ । सु॒मना॒ इति॑ सु-मनाः᳚ । अहे॑डन्न् । राजन्न्॑ । सो॒म॒ । प्रतीति॑ । ह॒व्या । गृ॒भा॒य॒ ॥ अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ । सवे॑द॒सेति॒ स - वे॒द॒सा॒ । सहू॑ती॒ इति॒ स - हू॒ती॒ । व॒न॒त॒म् । गिरः॑ ॥ समिति॑ । दे॒व॒त्रेति॑ देव - त्रा । ब॒भू॒व॒थुः॒ ॥ यु॒वम् ।
पदसंख्या: 50
सायणभाष्यम् (Sayana Commentary)

"(अथ द्वितीयकाण्डे तृतीयप्रपाठके चतुर्दशोनुवाकः)। (काम्ययाज्यापुरोनुवाक्याभिधानम्) विहीता पापिनस्त्विष्टिरनुवाके त्रयोदशे। अथास्मिन्नन्तिमे चतुर्दशेनुवाके काम्ययाज्या (पुरोनुवाक्या) उच्यन्ते। तत्र त्रिहविष्का येयं यज्ञविभ्रष्टेष्टिस्तृतीयानुवाके समाम्नाता, प्रथमद्वितीययोर्हविषोः क्रमेण याज्यानुवाक्या (नां) प्रतीकं (कानि) दर्शयति स प्रत्नवन्निति। स प्रत्नवन्नवीयसेत्यनुवाक्या। नि काव्या वेधस इति याज्या। एतदुभयमाग्नेये हविषि द्रष्टव्यम्। तच्च हिरण्यगर्भ आपो हेत्यस्मिन्ननुवाके व्याख्यातम्। इन्द्रं वो विश्पस्परीत्यनुवाक्या। इन्द्रं नरो नामधितेति याज्या। एतदुभयमैन्द्रे हविषि द्रष्टव्यम्। तच्च प्रथमकाण्डस्य षष्ठप्रपाठके व्याख्यातम्। अथ सौम्यस्य हविषः पुरोनुवाक्यामाह त्वं नः सोमेति। अघं पापमस्मदुपद्रवमिच्छन्नधायंस्तस्मात्पापसमघाद्वि श्वतः सर्वस्मान्नोस्मान्हे सोम राजंस्त्वं रक्ष। त्वावतत्स्वादृशस्य प्रभोः सखा कश्चित्सममर्थोपि त्वदनुग्रहान्न रिष्येदस्मान्न हिनस्ति। तत्रैव याज्यामाह या ते धामानिति। हे सोम राजंस्ते तव दिवि पृथव्यादिषु च प्रदेशेषु यानि धामानि स्थानानि सन्ति। प्रतिप्रदेशं पृथगनुवादार्था यच्छब्दावृत्तिः। तेभिर्विश्वैस्तैः सर्वेः स्थानैर्युक्तः शोभनमनस्कः क्रोधरहितः सन्नोस्माकं हव्या हवींषि प्रतिगृभाय प्रतिगृहाण। यस्मिन्स्थाने त्वं स्थितस्तत आगत्य हविः स्वीकुर्वित्यर्थः। “अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्। इत्यत्र पुरोनुवाक्यामाह अग्नीषोमेति। हेग्नीषोमौ गिरोस्मदीयाः स्तुतीर्वनतं भजतम्। कीदृशौ। सवेदसा समानज्ञानयुक्तौ। सहूती समानाह्वानयुक्तौ देवत्रा देवषु मध्ये संबभूवथुर्युवां संभूयैव सन्तौ न कदाचिदप्यन्योन्यं वियुक्तावित्यर्थः। तत्रैव याज्यामाह युवमेतानीति। हे सोम त्वमग्निश्चेत्येतौ युवां सक्रतू समानसंकल्पौ सन्तौ दिवि एतानि रोचनानि नक्षत्रादीनि अधत्तमस्थापयतम्। हेग्नीषोमौ युवां गृभीतान्सिन्धून्मध्योदकादिनिमित्तेनापूर्णत्वापवादेन पङ्कादिरूपेण दृष्टेन दोषेण च गृहीताः सर्वा नदीरभिशस्तेस्तस्मादपवादादवद्यात्पङ्कादिदृष्टदोषाच्चामुञ्चतं मोचि तवन्तौ। यद्यप्येतत्सर्वभीश्वरकृत्यं तथापि तद्रूपत्वेनैतौ स्तूयेते। “अग्नीषोभी यमष्ट कपालं निर्वपेद्ब्रह्मवर्चसकामः” इत्यत्र पुरोनुवाक्यामाह अग्नीषोमाविममिति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां मे मदीयमिमे हवमाह्वानं सुष्ठु शृणुतं, सूक्तानि अस्मदीयानि प्रतिहर्यतं मनसा प्रतीगृह्णीत, दाशषे हविर्दत्तवते यजमानाय मयः सुखं भवतं संपादयतम्। तत्रैत्र याज्यामाह आन्यं दिव इति। मातरिश्वा वायुरन्यं युवयोरेक्रमग्निं दिवो द्युलाकस्या दादित्याद्यादाजभारादृतवान्। तथा चान्यत्र मन्त्र आम्नायते “आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः इति। श्येनो गायत्र्याः पक्षिरूपावतारोन्यं युक्येरिकं सोममद्रेः परि पर्वतवदुन्नततमस्य द्युलोकस्योपरि अमथ्नात्सोमरक्षकाणां तत्रत्यानां मन्थनं विलोडनं पराजयरूपं क्षोभं कृत्या समानीतवानित्यर्थः । एतच्च ‘कद्रूश्च वै सुपर्णी च” इत्यस्मिन्ननुवाके समाम्नातम्। हेग्नीषोमौ युवां ब्रह्मणा वावृधाना मन्त्रेण वर्धमानो यज्ञार्थमुरुं लोकं विस्तीर्णं स्थानं चक्रथुरुरुकृतन्तावेव। यजमानस्य फलभूतं लोकं संपादितवन्तावित्यर्थः । तत्रैव विकल्पितां याज्यामाह अग्नीषोमेति। हेग्नीषोमौ वृषणा कामानां वर्षयितारौ युवां प्रस्थित तस्य समर्पितस्य हविषः सारं वतिं प्राप्नुतं हर्यंत प्रतिगृह्णीतं जुषेथां सेवथां, सुशर्माणा शोभनसुखयुक्तै स्ववसा शोभनरक्षणोपेतौ भूतं भवतम्। हि यस्मादेवं तस्मादथानन्तरं यजमानाय यजमानार्थं शँ सुखं योः पुत्रादिमिश्रणं च धत्तं कुरुतम्। “सोमाय वाजिने श्यामाकं चरुं विर्वपेत्” इत्यत्र याज्यानुवाक्ययोः प्रतीके दर्शयति आ प्यायस्वेति। आ प्यायस्व समेतु त इत्येषा पुरोनुवाक्या। सं ते पया सीत्येषा याज्या। एते उभे चतुर्थकाण्डस्य द्वितीयप्रपाठके मा नो हि सीज्जनिता इत्यस्मिन्ननुवाके समाम्नास्येते अतस्तत्रैव व्याख्यास्येते। “ब्राह्मणस्पत्यमेकादशकपालं निर्वपेद्ग्रामकामः” इत्यत्र पुरोनुवाक्यामाह गणानां त्वेति। ब्रह्मणां ब्रह्मणस्पते हे कृत्स्नमन्त्रपते गणानां गणपतिं कृत्स्नदेवगणस्वामिनं त्वां हवामह आह्वयामः। कीदृशं त्वां कविं कवीनां विदुषां मध्ये प्रशस्तं विद्वांसम्, उपमश्रवस्तममुपमानत्वेन श्रवः कीर्तिर्यस्यासावुपमश्रवाः, सर्वगुणसंपन्नत्वेनायमेव सर्वेषां पदार्थामुपमानमित्येतादृशी कीर्तिः, अति शयेनोपमश्रवा उपश्रवस्तमस्तादृशं, राज्ञां मध्ये ज्येष्ठो ज्येष्ठराजस्तादृशम्। यथोक्तगुणोपेतस्त्वं नोस्माकमूतिभिः पालनैर्निमित्तभूतैर्बुक्त सन्सादनमस्मिन्कर्मण्युपवेशनमासीद प्राप्नुहि। तत्रेव याज्यामाह स इज्जनेनेति। स इत्स एव यजमानो अनेन किंकरादिना युक्तं वाजमर्न्न भरते दधाति। स एव विशा करप्रदया प्रजया सहितं वाजं भरते। स एव ब्राह्मणादिजन्मना सहितं वाजं भरते। स एव पुत्रैः सहितं वाजं भरते । स एव नृभिर्बन्धुभिः सहितानि धना द्रव्याणि भरते । यो यजमानः श्रध्दामनाः श्रध्दायुक्तमनस्को देवानां पितरं पालयितारं ब्रह्मणस्पतिं हविषा स्वकीयेनाविवासति आ समन्ताद्विशेषेण परिचरति, स इज्जनेनेति पूर्वत्रान्वयः। अत्रैव विकल्पितां याज्यामाह। यद्वा तत्रैवोपहोममन्त्रमाह स सुष्ठुभेति। स देवः सुष्टुभा, शोभना स्तुभः सामावयवाः स्तोभा यस्य मन्त्रगणस्य सोऽयं सुष्ठुप्तेन सुष्ठुभा, ऋक्वता, ऋचो बहुविधा यस्मिन्मन्त्रगणे स ऋक्वांस्तेन ऋक्वता, रवेण ध्वनियुक्तेन गणेन मन्त्रसमूहेन तुष्टः सन्रुरोज बभञ् जेत्यन्वयः। कं बलं फलिगं फलमस्यास्तीति कली यजमानस्तं गच्छति प्राप्नोतीति फलिगस्तादृशं बलं प्रबलं प्रतिबन्धं रुरोज। हव्यसूदो हविर्भोक्ता कनिक्र ददहो स्वादुतमं हविरिति क्रन्दनं कुर्वाणो बृहस्पतीर्वावशतीः प्रस्रुवस्तनत्वेन वत्सान्प्रति हम्बारवं कुर्वतीरुस्त्रिया गा उत्कर्षेणैतदीयगृहं प्रति प्रेरयति। स इत्यभ्यास आदरार्थः। ‘एतामेव निर्वपेद्यः कामयेत ब्रह्मन्विशं विनाशयेयमिति मारुती याज्यानुवाक्ये कुर्यात्’ इति विहितयोः प्रतीके दर्शयति। मरुतो यद्धेति। मरुतो यद्ध व इत्यनुवाक्या। या वः शर्मेति याज्या। एतच्चोभयं प्रथमकाण्डस्य पञ्चमप्रपाठके व्याख्यातम्। ‘अर्यम्णे चरुं निर्वपेत्सुमर्गकामः’। इति चतुर्थेनुवाके यद्विहितं तत्र पुरोनुवाक्यामाह अर्थभातीति। ‘असौ वा आदित्योर्यमा’ इतिश्रुतेरयमशब्ध आदित्यं ब्रूते। स चेन्द्राभेदोपचारेणेन्द्रधर्मैः स्तूयते। वृषभः कामानां वर्षयिता। तुविष्मान्महावलः। वसूनां धनानां दाता। पुरुषु बहुषु यज्ञेषु हूत आहूतः। अह न्स्वर्गं दातुं योग्यः। सहस्राक्षत्वादिकं स्पष्टम्। तत्रैव याज्यामाह यो तेर्यमन्निति। हेर्यमन्राजंस्ते त्वदीया देवयाना देवैर्गन्तुमर्हा ये बहवः पन्थान आ दिवः स्वर्गपर्यन्तं चरन्ति गच्छन्ति हे देव तेभिस्तः पथिभिर्नोस्माकं महि शर्म महत्सुखं यच्छ, द्विपदे मनुष्याय नोस्माकं संबन्धिने शमेधि सुखकरो भव, चतुष्पदे गवादिरूपाय शमेधि। ‘अर्यम्णे चरुं निर्वपेद्यः कामयेत दानकामा मे प्रजाः स्युः’ ‘अर्यम्णे चः निर्वपेद्यः कामयेत स्वस्ति जनतामियाम्’ इत्यनयोरपि एते एव याज्यानुवाक्ये। ‘यो राजन्य आनुजावरः स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह बुध्नादग्रामिति। बुध्नादग्रं कर्मोपक्रमादारभ्य समाप्तिपर्यन्तमङ्गिरोभिर्गृणानोङ्गिकारोनाम्ना मुनिना सदृशैर्ऋत्विग्भिः स्तूयमान इन्द्रः पर्वतवत्सर्वा धीरस्य राज्ञो दृंहितानि समानैर यैः क्रियमाणान्द्रोहविशेषाव्यैराद्वंगतानकरोत्। किं कुर्वन्। एषां समानानं कृत्रिमाणि बलात्संपादितानि रोधांसि श्रैष्ठ्यप्रतिबन्धकाकाव्यवरोधिनानि र जज्जम्भयन्। कदैतत्सर्वमकरोदित्युच्यते। सोमस्य मदे सोम पानसंबन्धिनि भदे सतीन्द्रस्ता चकार तानु द्रोहनिवारणादीति कृतवान्। तत्रैव याज्यामाह बुध्नादग्रेणेति। इन्द्रो नदीनां बुध्नादग्रेण मुलादग्रपर्यन्तं मानद (नैर्द) ण्डैर्विभिमाय विशेषेण निश्चितवान्। निश्चित्य च नदीनां खानि जलप्रवाहार्थानवकाशान्प्रति वज्रणातृणज्जलवाहनिरोधकपर्वतान्वज्रेण हिंसितवान्। दीर्घयाथैर्दीर्घाणां प्रवाहाणां गमनोपयुक्तैः पथिभिर्मार्गैर्युक्तान्नदीविशेषानसृजत्। न चात्रास्य भूयान्प्रयासः किंतु वृथा। यथा लोके नखैस्तृणच्छेदादिव्यर्थचेष्टामायासमन्तरेण जनाः कुर्वन्ति तद्वदित्यर्थः। सोमस्येत्यादि पूर्ववत्। नखालम्भनमात्रेण महतीर्नदीः सृजत इन्द्रस्य श्रैष्ठ्यप्रापणे कः प्रयास इत्यभिप्रायः।"

"‘यो ब्राह्मण आनुजावरः स्यात्तस्या एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत्’ इत्यत्र पुरोनुवाक्यामाह प्र यो जज्ञ इति। विद्वान्सर्वज्ञो यो बृहस्पतिरस्य ब्राह्मणस्य यजमानस्य बन्धुं समानानां मध्येनुकूलं प्रजज्ञे प्रकर्षेण जानाति। तदीयमभिज्ञत्वं कथं निश्चियत इति चेदुच्यते। यतोयं देवो विश्वानि जनिमा सर्वेषां प्राणिनां सर्वाणि जन्मानि विवक्ति पुनः पुनः कथयति तस्मादभिज्ञत्वं निश्चियते। अ (सो) भिज्ञो बृहस्पतिर्बह्मणो वेदस्य मध्यान्नीचादुच्चा मध्यमभागात्प्रथमभागादुत्तप्रभागाच्च व्र परिवृढं कर्मोज्ज प्रारोद्धृतवान्। स्वधयामृतेन श्रैष्ठ्यप्रापणलक्षणेनाभि प्रतस्थौ एनं यजमानसभिलक्ष्य प्रस्थानं कृतवान्। समानानां मध्ये श्रैष्ठ्यं दातुं यजमानसमीपे समागतवानित्यर्थः। तत्रैव याज्यामाह महान्महीति। महान्सामर्थ्येनाधिको बृहस्पतिर्मही प्रौढे पृथिव्यन्तरिक्षे द्यां द्युलोकं सद्म मनुष्याणां गृह पार्थिव रजश्च जात उत्पत्तिमात्रेण व्यस्तभायद्विविधं स्तम्भितवान्। यद्यप्येतत्सर्वमीश्वरस्यैव कर्म तथापि तदभेदेन बृहस्पतिः स्तूयते। यद्वा परमेश्वरानुग्रहादयमेव लोकत्रयादिकं स्वस्वव्यापारक्षममकोरोत्। यस्य यजमानस्य सम्राड्यथोक्तरीत्या साम्राज्यं प्राप्तो बृहस्पतिर्देवता स यजमानो जनुषा जन्ममात्रेणैव बुध्नादग्रमभि आयुषोनुष्ठियमानकर्मणो वा मृला दारभ्य समाप्तिपर्यन्तमाष्ट व्याप्तवान्। ईदृशेन बृहस्पत्यनुग्रहेण युक्तो यजमानः सर्वथा श्रैष्ठ्यं प्राप्नोत्येवेत्यभिप्रायः। तत्रैव विकल्पितां याज्यामाह बुध्नाद्य इति। यो बृहस्पतिर्जगतो देहस्य कर्मणो वा बुध्नादारभ्याग्रमभ्यर्त्यवसानमोजसा स्वबलेन प्राप्नोति तं बृहस्पतिमितरे देवा आविवासन्ति आगत्य विशेषेण वासयन्ति परिचरन्तीत्यर्थः। बृहस्पतिर्बलं यजमानसंबन्धिनां मध्ये प्रबलं पुरुषं भिनद्भिनत्ति प्रातिकूल्यान्निवारयति, पुरः समानानां पुराणि विशेषेण दर्दरीति प्रातिकूल्यनिवारणाय पुनः पुनर्दारितवान्। कनिक्रददुत्साहेन शब्दं कुर्वन्, सुवः, तत्सदृशं श्रैष्ठ्यमपस्तत्साधनं सर्वं जलक्षेत्रादिकं जिगाय जितवान्य जमानार्थे संपादितवानित्यर्थः। अत्र विनियोगसंग्रहः “यज्ञविभ्रष्टयागे तु याज्याः स प्र निकेति च । इन्द्रमिन्द्रं चैन्द्रयागे त्वं नः साम्यचरौ तथा।। अग्नी कामप्रापकेग्नी ब्रह्मवर्चसिनस्त्रयम्। आप्या सं ते चरौ सौम्ये गणां ग्रामप्रदे त्रयम्।। मरु यागे नाशकेष्टावर्यमार्यमणे चरौ "

बुध्नादैन्द्रे प्र यस्तिस्रो बार्हरस्पत्यानुषूकके। पञ्चविंशतित (र) त्रोक्ता अनुवाके चतुर्दशे।। इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयप्रपाठके

चतुर्दशोनुवाकः।।१४।। वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।। इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याज्ञापरिपालकेन माधवाचार्येण विरचिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये द्वितीयकाण्डे तृतीयः प्रपाठकः।।३।।

भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथेष्टिकाण्डे याज्याकाण्डम् । तत्र 'यो यज्ञविभ्रष्टस्स्यात्तस्मा एतामिष्टिं निर्वपेदाग्नेयमष्टाकपालमैन्द्रमेकादशकपालं सौम्यं चरुम्' इत्येतस्यास्त्रिहविषः आग्नेयस्य पुरोनुवाक्या - स प्रत्नवदिति गायत्री ॥ व्याख्यातेयं 'हिरण्यगर्भः' इत्यत्र ; इह तु प्रतीकग्रहणम् । हे अग्ने स त्वं प्रत्नवत् प्रागिव । यद्वा - पुराणो हि । नवीयसा नवतरेण द्युम्नेन यशसा संयता त्वामेव संगच्छता [ता भानुना भासनशीलेन] बृहत्ततन्थ भृशं विश्वं विस्तारयेति ॥
2 तत्रैव याज्या - निकाव्येति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता । इदं च प्रतीकग्रहणम् । काव्या कवित्वेन द्रष्टृत्वेनात्मीयेन वेधसो यजमानान् शश्वत अविच्छिन्नयागान् निकः नियमेन करोतु । नर्या नर्याणि नरेभ्यो हितानि पुरूणि बहूनि धनानि हस्ते दधानः ददानः । एवं कुर्वन्नयमग्निः रयीणां सर्वेषां सम्बन्धी रयिपतिः भवतु । विश्वान्यपि अमृतानि अमरणहेतुभूतानि सत्रा सहभूतानि हिरण्यादीनि चक्राणः सोस्माकं यज्ञविभ्रेषदोषं अपनयत्विति ॥
4 अथैन्द्रस्य पुरोनुवाक्या - इन्द्रं व इति गायत्री ॥ इयमपि षष्ठान्ते व्याख्याता । प्रतीकमत्र गृह्यते । हे ऋत्विग्यजमानाः वः युष्माकं जनेभ्यः पुत्रादिभ्यः युष्मभ्यमस्मभ्यं च सर्वार्थं विश्वत उपरि स्थितं इन्द्रं हवामहे आह्वायामः । यद्वा - विश्वस्मादुपारि आह्वायामः । अस्माकमेव केवलस्साधकः यज्ञविभ्रेषादिदोषापनयनेन स्वामी भवत्विति ॥
4 तत्रैव याज्या - इन्द्रं नर इति त्रिष्टुप् ॥ इयमपि तत्रैव व्याख्याता, प्रतीकग्रहणमिदम् । नरो मनुष्याः इन्द्रमेव नेमधिता सर्वेषां हविषामर्धेन धार्यं भवते आह्वयामि । कदा ? यदा पार्याः परलाकोय हिताः परप्राप्तेर्वा साध्वीर्वा धियः कर्माणि ताः इन्द्रमेवापेक्षमाणा युनजते युञ्जते । तस्मात्स त्वं शूरो नृषाता नृभिस्सम्भक्ता शवसः बलस्य नृभ्यो दाता वा । इत्थंभूतः चकानः तृप्तिशीलः गोमति व्रजे अस्मानाभज यज्ञविभ्रेषदोषापननेन गोमतोस्मान् कुर्विति ॥
5 अस्य सौम्यस्य पुरोनुवाक्या - त्वन्न इति गायत्री ॥ हे सोमराजन् अः अस्मान् विश्वतः विश्वस्मात् अघायतः अघं पापमस्माकमिच्छतो जनात् रक्ष । 'छन्दसि परेच्छायामपि' इति क्यच्, 'अश्वाघस्यात् ' इत्यात्वम्, 'शतुरनुमः' इति विभक्तेरुदात्तत्वम् । त्वावतः त्वत्सदृशस्य । 'युष्मदस्मद्भ्यां छन्दसि सादृश्य उपसङ्ख्यानम्' इति वतिः, 'आ सर्वनाम्नः' इत्यात्वम् । त्वावतो हि सखा कश्चिदपि न रिष्येत् यज्ञविभ्रेषादिभिः हिंस्यो भवितुं नार्हति । तस्मात्तदनुरूपमस्मान्रक्ष । 'द्व्यचोतस्तिङः' इति संहितायां रक्षेत्यस्य दीर्घत्वम् ॥
6 तत्रैव याज्या - या त इति त्रिष्टुप् ॥ हे सोमराजन् या यानि ते तव धामानि स्थानानि नामानि वा, जन्मानि वा, तेजांसि वा दिवि सन्ति, यानि च पृथिव्यां सन्ति, यानि च पर्वतेषु यानि ओषधीषु, यानि वाप्सु तेभिः तैर्विश्वैर्धामभिः ना मभिः सर्वात्मनास्मभ्यमुपकुर्वद्भिः, स्थानैर्वा सवर्त्र सन्निधानहेतुभिः, जन्मभिर्वा नानोपकारहेतुभिः, तेजोभिर्वा सर्वदोषक्षाळनैः अहेडन् अक्रुद्ध्यन् अस्या नादिकः [अज्ञानादिकं] सहमानः, अपि तु सुमना सानुग्रहमना एव भूत्वा । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । हेदृ अनादरे । अस्माकं हव्यानि प्रतिगृभाय प्रतिगृहाण । 'छन्दसि शायजपि', 'हृग्रहोर्भः' इति भत्वम् । प्रतिगृह्य चास्माकं भ्रेषदोषं अपनयेति ॥
7 'अग्नीषोमीयमेकादशकपालं निर्वपेद्यं कामो नोपनमेत्' इत्यस्य पुरोनुवाक्या - अग्नीषोमा इति गायत्री ॥ हे अग्नीषोमा अग्नीषोमौ । पूर्ववदाकारः, 'ईदग्नेस्सोमवरुणयोः' इतीकारः, 'अग्नेः स्तुत्स्तोमसोमाः' इति षत्वम् । युवां सवेदसा सवेदसौ समानधनौ सहूती समानहूतौ समानाह्वानौ । 'समानस्य च्छन्दसि' इति सभावः । ईदृशा युवां वनतं भजतं अस्माकं गिरः स्तुतिवचनानि । देवत्रा देवांश्च संबभूवथुः संगतौ भवतः । प्रमाणानतिरेकस्सम्भवः । देवानामप्याराध्यत्वेन वर्तेथाम् । यद्वा - युवां सवेदसा सहूती देवत्रा देवेष्वपि देवोपकारेष्वपि संबभूवथुः संगतौ भवतः । 'देवमनुष्य' इति त्राप्रत्ययः । तौ युवां अस्माकमपि काममुपनयतमिति ॥
8 तत्रैव याज्या - युवमेतानीति त्रिष्टुप् ॥ हे सोम त्वं च अग्निश्च युवं युवां एतानि प्रसिद्धानि दिवि स्थितानि रोचनानि दीपनशीलानि ग्रहनक्षत्रादीनि अधत्तं धारयथः । छान्दसो लङ् । यद्वा - युवामेव रोचनानि दिवि अधत्तं स्थापितवन्तौ । सक्रतू समानकर्माणौ । किञ्च - युवामेव सिन्धून् नदीः । स्यन्दनात् सिन्धवः । रुत्वानुनासिकौ उक्तौ । अभिशस्तेः पातकाद्यारोपात् पापात् अवद्यात् परिवादपापाच्च तत्स्थानीयात् कालुष्यादिदोषात् अमुञ्चतम् । गृभीतान् तेन दोषेण गृहीतानापि तान् सिन्धूनपि अमुञ्चतम् । तस्मादेवम्महानुभावौ युवामस्माकं काममुपनयतमिति ॥
9 अग्नीषोमीयमष्टाकपालं निर्वपेत् ब्रह्मवर्चसकामः' इत्यस्य पुरोनुवाक्या - अग्नीषोमावित्यनुष्टुप् ॥ हे अग्नीषोमौ वृषणा कामानां वर्षितारौ । 'सुपां सुलुक्' इत्याकारः । इमं मे हवं आह्वानं सुशृणुतं सुष्ठु शृणुतं आह्वानप्रयोजनं यथावत्कुरुतमिति यावत् । 'भावेनुपसर्गस्य' इति ह्वयतेः अप् सम्प्रसारणं च । किञ्च - श्रुत्वाह्वानं अस्माकं सूक्तानि प्रतिहर्यतं मनसा प्रतिगृह्णीतम् । हर्य गतौ । तथा कृत्वा दाशुषे हविर्दत्तवते तस्मै यजमानाय मयः सुखहेतू भवतम् ॥
10 अत्रैव याज्या - आन्यं दिव इति त्रिष्टुप् ॥ उपरिष्टाल्लक्षणा त्रिष्टुप्त्वाच्च ['उपरि ... ल्लक्ष्मा' इत्युक्तत्वाच्च] केचिदिमां याज्यामाहुः । आचार्यस्तु इमां विहाय 'अग्नीषोमा हविषः' इत्युत्तरां याज्यां दर्शितवान् । तत्र विकल्पः । अन्यमेकं युवयोर्मध्ये अग्निं दिवः आदित्यात् मातरिश्वा वायुः प्राणवृत्तिरूपः आजभार आजहार आनीतवान्, यथा - 'आदूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः' इति । अन्यमेकं सोमं श्येनो गायत्री श्येनो भूत्वा अद्रेः उच्छ्रितात् स्थानात् तृतीयस्या दिवः पर्यमथ्नात् आहरत् तस्माद्वै अग्नीषोमौ एवं महानुभावौ ब्रह्मणा ऋगादिना मन्त्रेण परिबृढेन वा अनेन हविषा वावृधाना वावृधानौ वर्धमानौ । ताच्छीलिकश्चानश्, 'तुजादीनाम्' इत्यभ्यासस्य दीर्घत्वम्, पूर्ववदात्वम् । उरुं विस्तीर्णं लोकं स्थानं यत्र यजमानो गच्छति तादृशं यज्ञाय यज्ञवते यजमानाय यद्वा - यज्ञाय यज्ञफलभोगार्थं यजमानाय, लोकं चक्रथुः कुरुतम् । उ इति पादपूरणः अवधारणार्थो वा । तदर्थमस्मै ब्रह्मवर्चसं दत्तमिति ॥
11 ।अथ याज्याविकल्पः - अग्नीषोमा हविष इति त्रिष्टुप् ॥ हे अग्नीषोमौ हविषः प्रस्थितस्य उपस्थितस्य प्रारब्धस्य वा वीतं खादतम् । वी गत्यादिषु, आदादिकः । हर्यतं मनसा प्रत्रिगृह्णीतं स्पृहयतम् । 'अदुपदेशात्' इति लसार्वधातुकानुदात्तत्वे धातुस्वरः । जुषेथां नित्यं सेवेथाम् । पूर्ववल्लसार्वधातुकानुदात्तत्वे शस्योदात्तत्वम् । हे वृषणा वर्षितारौ कामानां युवां सुशर्माणा सुशर्माणौ सुग्रहौ सुसुखौ वा स्ववसा स्ववसौ शोभनरक्षणौ । उभयत्र पूर्ववदात्वम् । 'सोर्मनसी' इत्युत्तरपदाद्युदात्तत्वम् । ईदृशौ युवां यजमानो भूतं भवतम् । 'बहुळं छन्दसि' इति शपो लुक्, 'हि च' इति निघाताभावः । अथानन्तरं यजमानाय धत्त दत्तं शं शमनं रोगाणां योः यावतश्च आगामिनां भयानाम् । शाम्यतियौतिभ्यां व्यत्ययेन भावे विचि वचनव्यत्ययः । यौतेर्वा असुनि अडादेशाभावः । अपदान्तेपि पूर्ववद्रुत्वं, णिद्वद्भावाभावश्च । ब्रह्मवर्चसिनं च कुरुतमिति ॥
12 सोमाय वाजिने श्यामाकं चरुं निर्वपेद्यः क्लैब्यात् बिभीयात्' इत्यस्य पुरोनुवाक्या - आप्यायस्वेति गायत्री ॥ इयमग्निकाण्डे व्याख्यास्यते यत्राम्नायते प्रकृतौ हि हीयुः ['मा नो हिंसीः' ] इत्यत्र । इह तु प्रतीकग्रहणम् । हे सोम तव प्रसादात् वृष्णियं वीर्यं विश्वतः समेतु समागच्छताम् । त्वदर्थं च मामाप्यायस्व द्यध्यात् [दध्यादिना] । किञ्च - वाजस्यान्नस्य सङ्गथे सङ्गमनार्थं भवेति ॥
13 तत्रैव यज्या - सन्त इति त्रिष्टुप् ॥ इमामपि तत्रैव व्याख्यास्यामः, इह तु प्रतीकग्रहणमस्याः । हे सोम तव प्रसादात् पयांसि वाजाः वृष्ण्यानि च मां संगच्छन्तु । अभिमातिषाहः अभिमातिः पाप्मा क्लैब्यहेतुः, तस्याभिभवितुः तव । किञ्च - अमृताय अमृतत्वार्थमाप्यायमानो दिवि श्रवांसि अन्नानि उत्तमानि धिष्व स्थापयेति ॥
14 'ब्राह्मणस्पत्यमेकादशकपालं निर्वपेत् ग्रामकामः' इत्यस्य पुरोनुवाक्या - गणानां त्वेति जगती ॥ हे ब्रह्मणः परिबृढस्य कर्मणो वा पते पालयितः । 'षष्ठ्याः पतिपुत्र' इति सत्वम्, 'सुबामन्त्रिते' इति पराङ्गवद्भावात् षष्ठ्यामन्त्रितममुदायो निहन्यते । त्वां गणानां सर्वेषां संबन्धिनं गणपतिं ग्रामादिसङ्घातस्वामिनं हवामहे आह्वयामः । पूर्ववत्सम्प्रसारणम् । कवीनां क्रान्तदर्शनानामापि कविं क्रान्तदर्शिनम् । उपमश्रवस्तमं उपमीयते अनेनेत्युपमः, सर्वेषां श्रवसामन्नानां उपमानं यस्य श्रवः, न तु केन चिदुपमीयते प्रसिद्धमुपमानमिति, स उपमश्रवाः । 'आतश्चोपसर्गे' इत्यङ्, 'ड्यापोस्संज्ञाच्छन्दसोः' इति ह्रस्वत्वम् । यद्वि[द्वा - श्यन्वि]करणस्य कर्मविवक्षायां 'आतश्चोपसर्गे' इति कः । यद्वा - श्रूयत इति श्रवः यस्य[यस्तु] सर्वदा श्रूयते । त एवो[स इवो]पमश्रवाः न कदाचिद्दृश्यते स उपमश्रवाः, श्रूयमाणोपम इति यावत् । आहिताग्नि[ताग्न्यादि]र्द्रष्टव्यः । अनुभवाभावार्थैव श्रूयमाणत्वोक्तिः, 'विषं भुङ्क्ष्व' इतिवदन्यपरत्वात् । सर्वानुपमश्रवसः अतिशेत इति उपमश्रवस्तमम् । ज्येष्ठराजं ज्येष्ठं प्रशस्तं राजतीति ज्येष्ठराट् । स त्वं एवं महानुभावः अस्माकं स्तुतीः शृण्वन् ऊतिभिः रक्षणैः तर्पणैर्वा हेतुभूतैः ताभिर्व्याप्रियमाणाभिरुपलक्षितः सादनं आत्मीयमासनं असीद अधितिष्ठ । सीदन्त्यस्मिन्निति सादनं, च्छान्दसं दीर्घत्वम् । तथा ग्रामाधिपतिरिवासीदन् अस्मभ्यं ग्रामं देहीति ॥
15 तत्रैव याज्या - स इज्जनेनेति जगती ॥ स एव जनेन परिजनेन किङ्करादिना, स एव विशा विड्बिरुपजीवनीभिः प्रजाभिः, स एव जन्मना जनोः जन्मप्रभृति स एव पुत्रैः पुत्रपौत्रादिभिः एतैस्सर्वैस्सह वाजं भरते दधाति । धना धनानि च नृभिः अन्यैश्च बन्धुसुहृदादिभिः सह स एव दधाति । 'नृ चान्यतरस्याम्' इति विभक्तेरुदात्तत्वाभावः, 'सावेकाचः' इति हि प्राप्नोति । स एव दधातीति, क इत्याह - यः श्रद्धामनाः श्रद्धायुक्तमनाः देवानां पितरं पातारं ब्रह्मणस्पतिं हविषा आविवासति परिचरति । आविवासतिः परिचरणकर्मा ॥
16 अथ बार्हस्पत्य उपहोमः - स सुष्टुभेति ॥ त्रिष्टुबेषा । स बृहस्पतिः सुष्टुभा शोभनस्तुव[तिम]ता । स्तोभतिस्स्तुतिकर्मा । स्तौतेर्वा क्विपि वर्णव्यत्यये तुको भत्वम्, 'उपसर्गात्सुनोति' इत्यादिना षत्वम् । ऋक्वता स्तुतिमता, (षुरुवता ?) वा । 'झयः' इति मतुपो वत्वम्, अयस्मयादित्वेन पदत्वात्कुत्वम्, भत्वाज्जस्त्वाभावः । ईदृशेन गणेन सहितः वलं मेघम् । वृणोतेः पचाद्यच्, कपिलकादित्वाल्लत्वम् । रुरोज भिनत्ति फलिगं स्वच्छोदकपूर्णं, बलवदुदकं वा रवेण शब्देन उपलक्षीतं बलं । रवेण वा फलिगं गिरिगुहादिषु प्रतिफलवन्तम् । किञ्च - अयं बृहस्पतिः हव्यसूदः हविषो भोक्ता । कर्मणि 'कुलसूदस्थलकषाः' इत्युत्तरपदाद्युदात्तत्वम् । उस्रियाः अपः वावशतीः अत्यर्थं कामयमानाः । वशेर्यङि 'न वशः' इति सम्प्रसारणाभावः । पूर्ववदाद्युदात्तत्वम् । उदाजत् भञ्जनानन्तरं बलात् उद्गमयती । अजगतिक्षेपणयोः छान्दसो लुङ् ॥
17 'एतामेव निर्वपेद्यः कामयेत ब्रह्मन् विशं विनाशयेयमिति मारुतीयाज्याणुवाक्ये कुर्यात्' इत्यस्याः पुरोनुवाक्या - मरुतो यद्ध व इति गायत्री ॥ व्याख्याता चेयं 'वैश्वानरोनः' इत्यत्र । इह त्वस्याः प्रतीकग्रहणम् । हे मरुतः वः युष्मान् यस्माद्वयं सुम्नायन्तः सुखमिच्छन्तः हवामहे आह्वयामः तस्मान्नः अस्मान् क्षिप्रं दिवः ओपगन्तन अस्मत्सकाशमागच्छतेति ब्रह्मणि विशं स्थापयितुमिति ॥
18 तत्रैव याज्या - या वश्शर्मेति त्रिषुप् ॥ इयमपि तत्रैव व्याख्याता ; प्रतीकग्रहणमिदम् । हे मरुतः युष्माकं यानि शर्माणि सूखानि त्रिधातूनि त्रिलोकस्थानानि शशमानाय युष्मान् भजमानाय दातुं सन्ति भवन्ति यानि च दाशुषे हविर्दत्तवते यजमानाय अधिकं यच्छत प्रयच्छत तानि अस्मभ्यं वियन्त विशेषेण दत्त । किञ्च - हे वृषाणा कामानां वर्षितारः अस्मभ्यं सुवर्षं शुवीरं शोभनपुत्रादिकं रयिं दत्तेति ॥
19 'अर्यम्णे चरुन्निर्वपेत् स्वर्गकामः' इत्यस्याः पुरोनुवाक्या - अर्यमायातीति त्रिष्टुप् ॥ अरीन् यमयति उपय[रमय]तीत्यर्यमा इन्द्र उच्यते, वक्ष्यमाणेभ्यो लिङ्गेभ्यः । सः आयाति आगच्छति आगच्छतु वा । वृषभः वर्षिता कामानां तुविष्मान् महाबलः दाता वसूनां धनानां पूरुहूतः बहुभिर्यजमानैराहूतः, बहुषु वा स्थानेषू आहूतः । तेन 'तृतीयाकर्मणि' इत्यस्याप्रसङ्गः । अर्हन् दानादिकं कर्तुमर्हन् । अर्हच्छब्दः पूज्यवाची । हे पूजनीय सहस्राक्षः बह्विन्द्रियः बहुकार्यकरणसमर्थेन्द्रियो वा गोत्रभृत् मेघानां पर्वतानां वा भेत्ता विदारयिता वज्रबाहुः वज्रपाणिः । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः' इति परनिपातः । ईदृशो देवः अस्मासु द्रविणं स्वर्गाख्यं धनं ददातु ॥
20 तत्रैव याज्या - ये तेर्यमन्निति त्रिष्टुप् ॥ हे अर्यमन् राजन् दीप्यमान ते तव ये बहवः देवयानाः देवा यैर्गच्छन्ति देवान्वा यैर्गच्छन्ति तादृशाः दिवः द्युलोकात् आचरन्ति आभिमुख्येन यावत्कर्मस्थानं आतन्यन्ते तेभिः तैः पथिभिः नः अस्मभ्यं हे देव देवनादिमन् महि महत् शर्म सुख यच्छ देहि । किञ्च – नः अस्माकं द्विपदे चतुष्पदे च शं एधि सुखहेतुर्भव ; तादृशमार्गगम्यस्वर्गहेतुर्भवेति यावत् । स्वरसमासान्तावुक्तौ ॥
21 'यो राजन्य आनुजावरस्स्यात्तस्मा एतमैन्द्रमानुषूकमेकादशकपालं निर्वपेत् ... बुध्नवती अग्रवती याज्यानुवाक्ये भवतः' इत्यस्याः पुरोनुवाक्या - बुध्नादग्रमङ्गिरोभिरिति त्रिष्टुप् ॥ बुध्नात् मूलादारभ्य यावदग्रं उपक्रमादारभ्य यावत्समाप्ति उग्रावदानि गृणानः गृणानैस्तुवद्भिरङ्गिरोभिरित्थंभूतः । 'सुपां सुलुक्' इति तृतीयाया (एकवचनस्य) स्वादेशः । यद्वा - व्यत्ययेन कर्मणि कर्तृप्रत्ययः । अङ्गिरोभिः स्तूयमानः पर्वतस्य मेघस्य दृंहितानि स्तम्भितानि रोधांसि उदकस्य रोधनानि द्वारपिधानानि रुजत् भिनत् प्रथमं ततो व्यैरत् विविधं प्रेरयति विश्लेषयति यथोदकं पतति । यद्वा - उदकमेव व्यैरत् विकिरति । 'बहुल सज्ञाच्छन्दसोः' इति णिलुक् । कीदृशानि रोधांसि? कृत्रिमाणि कृत्रिमाण्येव आत्मकृतानीव अ यत्नेन भिनत्ति एषां मेघानां सम्बन्धीनि । पर्वतस्येति वचनस्य तृतीयै [स्येति बहुवचनस्य व्यत्येयेनै]कवचनम् । इत्येवंविधानि यानि कर्माणि तानि सर्वाण्यपि सोमस्य मदे सोमपाननिमित्ते मदे सति इन्द्रश्चकार करोति । एवंमहानुभाव इन्द्र इमं राजन्यं समानानामग्रं परिणयत्विति ॥
22 तत्रैव याज्या - बुध्नादग्रेण विमिमायेति त्रिष्टुप् ॥ मूलादारभ्य अग्रेण सह यावदग्रं मानैर्मानयित्रीभिः विमिमाय विविधं परिच्छिनत्ति मेघान् । अथ तथा विमितेषु मेघेषु नदीनामपां, नदनान्नद्यः, खानि द्वाराणि वज्रेण अतृणत् भिनत्ति विहि [विमि] तानि विदारयति । उ तृ दिर् हिंसायां, रौधादिकः । यद्वा - नदीनामिति चतुर्थ्यर्थे षष्ठी, नदीभ्यः ; नद्यो यथा प्रवहेयुरित्येवमर्थमभिनत् भिनत्ति द्वाराणि ; सामर्थ्यादुदकस्येति लभ्यते । ततः वृथा भित्त्वा तथा क्रीडन्निव असृजन्निव [... सृजत्] नदीः प्रवर्तयति पथिभिः दीर्घयाथैः चिरप्रवृत्तैः । तादृशविधानि कर्माणि सोमस्य मदे सतीन्द्रश्चकारेति । गतम् ॥
23 अथोपहोमादिष्वन्यत्र विनियोगा द्रष्टव्याः - प्र यो जज्ञे इति त्रिष्टुप् ॥ वक्ष्यमाण एव बार्हस्पत्यः । आचार्येण तु त्यक्त्वोमामुत्तरेण[... त्तरे] बार्हस्पत्ये विनियुक्ते । देवो विद्वान् आत्माधिकारज्ञः सर्वज्ञो वा अस्य मेघस्य बन्धुं बन्धनं यात्रायां बध्यते मेघेन वाऽयं बध्यते । तद्विद्वान् यो बन्धनमस्य जज्ञे जानाति । कथं ज्ञायते बन्धनमस्यायं जानतीति? तत्राह - विश्वानि जनिमा जन्मानि अयं हि देवो अस्य विवक्ति ऋब्रूते परेभ्यः कथयति तं जनमयं जानतीति जानीमः । वचेः 'बहुलं छन्दसि' इति शपश्श्लुः, अभ्यासस्य दीर्घ[सस्ये]त्वम् । एवमुत्पादितं ब्रह्म परिबृढं उदकं ब्रह्मणः परिबृढायाः पृथिव्याः उज्जहार उद्धरति । मध्यात् मध्यप्रदेशात् नीचा नीचप्रदेशात् । पञ्चम्येकवचनस्य 'सुपां सुलुक्' इत्याजादेशः । सांहितिको दकारोपजनश्छान्दसः । उक्तं च प्रातिशाख्ये - 'नीचापूर्वो दकार उच्चापरः' इति । उच्चा उच्चात् प्रदेशात् । पूर्ववदाजादेशः । एवं सर्वस्य उद्धृतं उदकं स्वधया अन्नेन सह अभिप्रतस्थौ आदित्ये अभिप्रतितिष्ठतु आभिमुख्येन प्रकृष्टं तिष्ठतु । स्वधया वा हेतुभूतया । यद्वा - स्वधया हविष सह स्थितिहेतुना आदित्ये उदकं तिष्ठत्विति यावत् । पक्वमितिते[क्क्वमादित्ये] ततोन्नमुत्पद्यते, सोस्माकमभिमतं सम्पादयतु बृहस्पतिरिति ॥
24 'यो ब्राह्मण आनुजावरस्स्यात्तस्मा एतं बार्हस्पत्यमानुषूकं चरुं निर्वपेत् बुध्नवती अग्र्वती याज्यानुवाक्ये भवतः' इत्यस्याः पुरोनुवाक्या - महान्महीति त्रिष्टुप् ॥ महान् बृहस्पतिः मही महत्यौ पृथिवीमन्तरिक्षं च व्यस्तभायत् विविधमस्तम्भयत् । जातः जातमात्र एव द्यां द्युलोकं व्यस्तम्भयत् इत्येव । सद्म सदनं स्थानमुदकस्य मध्यं मुख्यं तत्र स्थितं पार्थिवं च रजः उदकं व्यस्तम्भयत् । स महानुभावो बृहस्पतिर्बुध्नात् मूलादारभ्य अभ्यग्रं यावदग्रं आष्ट व्याप्नोतु । जनुषा जन्मनैव अयत्नेनैव तेजस्विनं करोतु । कं? यस्यायं देवता ईश्वरः सम्राट् सङ्गतदीप्तिः तं यजमानं तेजसा व्याप्नोतु यस्यायं देवता बृहस्पतिः । यत्सर्वमेवमयं व्याप्तवान् तस्मान्महानुभावोयमस्माकमानुजावरत्वं निवर्त्य समानानामग्रं परिणयत्विति । अश्नोतेर्लङि 'बहुलं छन्दसि' इति शपो लुक् ॥
25 तत्रैव याज्या - बुध्नाद्यो अग्रमिति त्रिष्टुप् ॥ बुध्नादारभ्य यावदग्रं योयमोजसा बलेन अभ्यर्ति आभिमुख्येन प्राप्नोति इदं विश्वमात्मीयेन तेजसा व्याप्नोति, यद्वा - यजमानं वा आत्मीयम् । तादृशं बृहस्पतिं देवा अपि आविवासन्ति परिचरन्ति, ऋत्विजो वा । स च एवं देवैः परिचर्यमाणो वलं मेघं भिनत् भिनत्ति वृष्ट्यर्थम् । पुरः असुरनगराणि च विदर्दरीति अत्यर्थं विदारयति । दृ विदारणे, यङ्लुकि 'रुग्रिकौ च लुकि' इति रुक्, 'यङो वा' इति ईडागमः । कनिक्रदत् अत्यर्थं शब्दं कुर्वन् अत्यर्थं क्रन्दन् । दाधर्त्यादौ निपात्यते । ततस्सुवरादित्यं अपश्च जिगाय जयति । आदित्यादाकृष्य मध्यमस्थाने उदकं वृष्ट्युन्मुखं प्रवर्तयति पर्जन्यात्मना । छान्दसे लिटि 'सन् लिटोर्जेः' इति जयतेः कुत्वम् । एवम्महानुभावोयं अस्मदीयं यजमानमानुजावरत्वान्मुक्त्वा समानानामग्रं परिणयत्विति ॥
इति श्रीभट्टभास्करमिश्रविरचिते यजुर्वेदभाष्ये ज्ञानयज्ञाख्ये द्वितीये काण्डे तृतीये प्रश्ने चतुर्दशोनुवाकः ॥

॥ प्रपाठकस्सम्पूर्णः ॥

—-------------------

पञ्चशत् 2 #
TS 2.3.14.2 TS 2.3.14.2
-मे॒तानि॑ दि॒वि रो॑च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तं ॥ यु॒वꣳ सिन्धूꣳ॑ र॒भिश॑स्तेरव॒द्या-दग्नी॑षोमा॒-वमु॑ञ्चतं गृभी॒तान् ॥ अग्नी॑षोमावि॒मꣳ सु मे॑ शृणु॒तं ॅवृ॑षणा॒ हवं᳚ । प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ॥ आऽन्यं दि॒वो मा॑त॒रिश्वा॑ जभा॒राऽम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः᳚ । अग्नी॑षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं ॅय॒ज्ञाय॑ चक्रथुरु लो॒कं ॥अग्नी॑षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तꣳ - [ ]
पदपाठः (Word-by-word)
ए॒तानि॑ । दि॒वि । रो॒च॒नानि॑ । अ॒ग्निः । च॒ । सो॒म॒ । सक्र॑तू॒ इति॒ स - क्र॒तू॒ । अ॒ध॒त्त॒म् ॥ यु॒वम् । सिन्धून्॑ । अ॒भिश॑स्ते॒रित्य॒भि - श॒स्तेः॒ । अ॒व॒द्यात् । अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ । अमु॑ञ्चतम् । गृ॒भी॒तान् ॥ अग्नी॑षोमा॒वित्यग्नी᳚ - सो॒मौ॒ । इ॒मम् । स्विति॑ । मे॒ । शृ॒णु॒तम् । वृ॒ष॒णा॒ । हव᳚म् । प्रतीति॑ ॥ सू॒क्ता॒नीति॑ सु - उ॒क्तानि॑ । ह॒र्य॒त॒म् । भव॑तम् । दा॒शुषे᳚ । मयः॑ ॥ एति॑ । अ॒न्यम् । दि॒वः । मा॒त॒रिश्वा᳚ । ज॒भा॒र॒ । अम॑थ्नात् । अ॒न्यम् । परीति॑ । श्ये॒नः । अद्रेः᳚ ॥ अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ । ब्रह्म॑णा । वा॒वृ॒धा॒ना । उ॒रुम् । य॒ज्ञाय॑ । च॒क्र॒थुः॒ । उ॒ । लो॒कम् ॥ अग्नी॑षो॒मेत्यग्नी᳚ - सो॒मा॒ । ह॒विषः॑ । प्रस्थि॑त॒स्येति॒ प्र - स्थि॒त॒स्य॒ । वी॒तम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 2.3.14.3 TS 2.3.14.3
हर्य॑तं ॅवृषणा जु॒षेथां᳚ । सु॒शर्मा॑णा॒ स्वव॑सा॒ हि भू॒तमथा॑ धत्तं॒ ॅयज॑मानाय॒ शं ॅयोः ॥ आप्या॑यस्व॒ सं ते᳚ ॥ ग॒णानां᳚ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒ना-मु॑प॒मश्र॑वस्तमं । ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नं । स इज्जने॑न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं॑ भरते॒ धना॒ नृभिः॑ । दे॒वानां॒ ॅयः पि॒तर॑मा॒विवा॑सति - [ ]
पदपाठः (Word-by-word)
हर्य॑तम् । वृ॒ष॒णा॒ । जु॒षेथा᳚म् ॥ सु॒शर्मा॒णेति॑ सु - शर्मा॑णा । स्वव॒सेति॑ सु - अव॑सा । हि । भू॒तम् । अथ॑ । ध॒त्त॒म् । यज॑मानाय । शम् । योः ॥ एति॑ । प्या॒य॒स्व॒ । समिति॑ । ते॒ ॥ ग॒णाना᳚म् । त्वा॒ । ग॒णप॑ति॒मिति॑ ग॒ण - प॒ति॒म् । ह॒वा॒म॒हे॒ । क॒विम् । क॒वी॒नाम् । उ॒प॒मश्र॑वस्तम॒मित्यु॑प॒मश्र॑वः-त॒म॒म् ॥ ज्ये॒ष्ठ॒राज॒मिति॑ ज्येष्ठ-राज᳚म् । ब्रह्म॑णाम् । ब्र॒ह्म॒णः॒ । प॒ते॒ । एति॑ । नः॒ । शृ॒ण्वन्न् । ऊ॒तिभि॒रित्यू॒ति - भिः॒ । सी॒द॒ । साद॑नम् ॥ सः । इत् । जने॑न । सः । वि॒शा । सः । जन्म॑ना । सः । पु॒त्रैः । वाज᳚म् । भ॒र॒ते॒ । धना᳚ । नृभि॒रिति॒ नृ - भिः॒ ॥ दे॒वाना᳚म् । यः । पि॒तर᳚म् । आ॒विवा॑स॒तीत्या᳚ - विवा॑सति ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 2.3.14.4 TS 2.3.14.4
श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पतिं᳚ ॥ स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लꣳ रु॑रोज फलि॒गꣳ रवे॑ण । बृह॒स्पति॑रु॒स्त्रिया॑ हव्य॒सूदः॒ कनि॑क्रद॒द्- वाव॑शती॒रुदा॑जत् ॥ मरु॑तो॒ यद्ध॑ वो दि॒वोया वः॒ शर्म॑ ॥अ॒र्य॒मा ऽऽया॑ति वृष॒भस्तुवि॑ष्मान् दा॒ता वसू॑नां पुरुहू॒तो अर्.हन्न्॑ । स॒ह॒स्रा॒क्षो गो᳚त्र॒भिद्-वज्र॑बाहुर॒स्मासु॑ दे॒वो द्रवि॑णं दधातु ॥ये ते᳚ऽर्यमन् ब॒हवो॑ देव॒यानाः॒ पन्था॑नो - [ ]
पदपाठः (Word-by-word)
श्र॒द्धाम॑ना॒ इति॑ श्र॒द्धा - म॒नाः॒ । ह॒विषा᳚ । ब्रह्म॑णः । पति᳚म् ॥ सः । सु॒ष्टुभेति॑ सु - स्तुभा᳚ । सः । ऋक्व॑ता । ग॒णेन॑ । व॒लम् । रु॒रो॒ज॒ । फ॒लि॒गम् । रवे॑ण ॥ बृह॒स्पतिः॑ । उ॒स्त्रियाः᳚ । ह॒व्य॒सूद॒ इति॑ हव्य - सूदः॑ । कनि॑क्रदत् । वाव॑शतीः । उदिति॑ । आ॒ज॒त् ॥ मरु॑तः । यत् । ह॒ । वः॒ । दि॒वः । या । वः॒ । शर्म॑ ॥ अ॒र्य॒मा । एति॑ । या॒ति॒ । वृ॒ष॒भः । तुवि॑ष्मान् । दा॒ता । वसू॑नाम् । पु॒रु॒हू॒त इति॑ पुरु - हू॒तः । अर्.हन्न्॑ ॥ स॒ह॒स्रा॒क्ष इति॑ सहस्र - अ॒क्षः । गो॒त्र॒भिदिति॑ गोत्र-भित् । वज्र॑बाहु॒रिति॒ वज्र॑ - बा॒हुः॒ । अ॒स्मासु॑ । दे॒वः । द्रवि॑णम् । द॒धा॒तु॒ ॥ ये । ते॒ । अ॒र्य॒म॒न्न् । ब॒हवः॑ । दे॒व॒याना॒ इति॑ देव - यानाः᳚ । पन्था॑नः ।
पदसंख्या: 50
पञ्चशत् 5 #
TS 2.3.14.5 TS 2.3.14.5
राजन् दि॒व आ॒चर॑न्ति । तेभि॑र्नो देव॒ महि॒ शर्म॑ यच्छ॒ शं न॑ एधि द्वि॒पदे॒ शं चतु॑ष्पदे ॥ बु॒द्ध्नादग्र॒-मङ्गि॑रोभि-र्गृणा॒नो वि पर्व॑तस्य दृꣳहि॒तान्यै॑रत् । रु॒जद्रोधाꣳ॑सिकृ॒त्रिमा᳚ण्येषाꣳ॒॒सोम॑स्य॒तामद॒इन्द्र॑श्चकार ॥ बु॒द्ध्नादग्रे॑ण॒ वि मि॑माय॒ मानै॒र्वज्रे॑ण॒ खान्य॑तृणन्न॒दीनां᳚ । वृथा॑ ऽसृजत् प॒थिभि॑ र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ॥
पदपाठः (Word-by-word)
रा॒ज॒न्न् । दि॒वः । आ॒चर॒न्तीत्या᳚ - चर॑न्ति ॥ तेभिः॑ । नः॒ । दे॒व॒ । महि॑ । शर्म॑ । य॒च्छ॒ । शम् । नः॒ । ए॒धि॒ । द्वि॒पद॒ इति॑ द्वि - पदे᳚ । शम् । चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दे॒ ॥ बु॒द्ध्नात् । अग्र᳚म् । अङ्गि॑रोभि॒रित्यङ्गि॑रः-भिः॒ । गृ॒णा॒नः । वीति॑ । पर्व॑तस्य । दृꣳ॒॒हि॒तानि॑ । ऐ॒र॒त् ॥ रु॒जत् । रोधाꣳ॑सि । कृ॒त्रिमा॑णि । ए॒षा॒म् । सोम॑स्य । ता । मदे᳚ । इन्द्रः॑ । च॒का॒र॒ ॥ बु॒द्ध्नात् । अग्रे॑ण । वीति॑ । मि॒मा॒य॒ । मानैः᳚ । वज्रे॑ण । खानि॑ । अ॒तृ॒ण॒त् । न॒दीना᳚म् ॥ वृथा᳚ । अ॒सृ॒ज॒त् । प॒थिभि॒रिति॑ प॒थि - भिः॒ । दी॒र्घ॒या॒थैरिति॑ दीर्घ - या॒थैः । सोम॑स्य । ता । मदे᳚ । इन्द्रः॑ । च॒का॒र॒ ॥
पदसंख्या: 50
पञ्चशत् 6 #
TS 2.3.14.6 TS 2.3.14.6
प्र यो ज॒ज्ञे वि॒द्वाꣳ अ॒स्य बन्धुं॒ ॅविश्वा॑नि दे॒वो जनि॑मा विवक्ति । ब्रह्म॒ ब्रह्म॑ण॒ उज्ज॑भार॒ मद्ध्या᳚न्नी॒चादु॒च्चा स्व॒धया॒ऽभि प्रत॑स्थौ ॥म॒हान् म॒ही अ॑स्तभाय॒द्वि जा॒तो द्याꣳ सद्म॒ पार्थि॑वं च॒ रजः॑ । स बु॒द्ध्नादा᳚ष्ट ज॒नुषा॒ऽभ्यग्रं॒ बृह॒स्पति॑ र्दे॒वता॒यस्य॑ स॒म्राट् ॥ बु॒द्ध्नाद्यो अग्र॑म॒भ्यर्त्योज॑सा॒ बृह॒स्पति॒मा वि॑वासन्ति दे॒वाः ( ) । भि॒नद्व॒लं ॅवि पुरो॑ दर्दरीति॒ कनि॑क्रद॒थ् सुव॑र॒पो जि॑गाय ॥
पदपाठः (Word-by-word)
प्रेति॑ । यः । ज॒ज्ञे । वि॒द्वान् । अ॒स्य । बन्धु᳚म् । विश्वा॑नि । दे॒वः । जनि॑मा । वि॒व॒क्ति॒ ॥ ब्रह्म॑ । ब्रह्म॑णः । उदिति॑ । ज॒भा॒र॒ । मद्ध्या᳚त् । नी॒चा । उ॒च्चा । स्व॒धयेति॑ स्व - धया᳚ । अ॒भि । प्रेति॑ । त॒स्थौ॒ ॥ म॒हान् । म॒ही इति॑ । अ॒स्त॒भा॒य॒त् । वीति॑ । जा॒तः । द्याम् । सद्म॑ । पार्त्थि॑वम् । च॒ । रजः॑ ॥ सः । बु॒द्ध्नात् । आ॒ष्ट॒ । ज॒नुषा᳚ । अ॒भीति॑ । अग्र᳚म् । बृह॒स्पतिः॑ । दे॒वता᳚ । यस्य॑ । स॒म्राडिति॑ सं-राट् ॥ बु॒द्ध्नात् । यः । अग्र᳚म् । अ॒भ्यर्तीत्य॑भि-अर्ति॑ । ओज॑सा । बृह॒स्पति᳚म् । एति॑ । वि॒वा॒स॒न्ति॒ । दे॒वाः ( ) ॥ भि॒नत् । व॒लम् । वीति॑ । पुरः॑ । द॒र्द॒री॒ति॒ । कनि॑क्रदत् । सुवः॑ । अ॒पः । जि॒गा॒य॒ ॥
पदसंख्या: 59