पदपाठः (Word-by-word)
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
तैत्तिरीय संहितीयां
द्वितीय काण्डे
तृतीयः प्रश्नः ॥
धारयद्वद्भ्य इति ॥ धारयच्छब्दवत्त्वाद्याज्यानुवाक्ययोः, यथा'धारयन्त अदित्यासः' तिस्रो भूमीर्धारयन्' इति । अत्रापि पूर्ववद्भत्वाभावः, अयस्मयादित्वाद्वा उभयत्र पदत्वम् । अपरुद्ध इत्यादि । अपरुद्धो राजान्तरेणापहृतराष्ट्रः । स एतं चरुं निर्वपेत् पुना राष्ट्रं लप्सीयेति । अपरुद्ध्यमानो वा राजान्तरेणापजिहीर्षितराष्ट्रः । स वा निर्वपेदिमं चरुं मा मा राष्ट्रं हासीदिति । आदित्या वा इत्यादि । आदित्या एव रास्ट्रस्यापरोद्धारः अपहर्तारः राष्ट्रापहारेण वास्य दुःखयितारः । आदित्या एव तस्यापगमयितारः । तस्मात्तेनानेन चरुणा एनमपरुद्धं विशि प्रकृतिषु दाध्रति धारयन्ति धारयद्वत्त्वात् । धारयतेः 'दाधर्तिदर्धर्ति' इत्यादिना निपात्यते । ततश्चायमनपरुद्ध्यः अपरोद्धुमशक्यो भवति । छान्दसो यत् ; 'ययतोश्चादर्थे' इत्युत्तरपदान्तोदात्तत्वम् ॥