प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.5.1.2 TS 4.5.1.2
बिभ॒र्ष्यस्त॑वे । शि॒वां गि॑रित्र॒ तां कु॑रु॒ मा हिꣳ॑सी॒ः॒ पुरु॑षं॒ जग॑त् ॥ शि॒वेन॒ वच॑सा त्वा॒ गिरि॒शाच्छा॑ वदामसि ।यथा॑ नः॒ सर्व॒मि-ज्जग॑दय॒क्ष्मꣳ सु॒मना॒ अस॑त् ॥ अद्ध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् । अहीꣳ॑श्च॒॒ सर्वा᳚न् ज॒भंय॒न्थ् सर्वा᳚श्च यातु धा॒न्यः॑ ॥ अ॒सौ यस्ता॒म्रो अ॑रु॒ण उ॒त ब॒भ्रुः सु॑म॒ङ्गलः॑ । ये चे॒माꣳ रु॒द्रा अ॒भितो॑ दि॒क्षु - [ ]
पदपाठः (Word-by-word)
बिभ॑र्.षि । अस्त॑वे ॥ शि॒वाम् । गि॒रि॒त्रेति॑ गिरि - त्र॒ । ताम् । कु॒रु॒ । मा । हिꣳ॒॒सीः॒ । पुरु॑षम् । जग॑त् ॥ शि॒वेन॑ । वच॑सा । त्वा॒ । गिरि॑श । अच्छ॑ । व॒दा॒म॒सि॒ ॥ यथा᳚ । नः॒ । सर्व᳚म् । इत् । जग॑त् । अ॒य॒क्ष्मम् । सु॒मना॒ इति॑ सु - मनाः᳚ । अस॑त् ॥ अधीति॑ । अ॒वो॒च॒त् । अ॒धि॒व॒क्तेत्य॑धि - व॒क्ता । प्र॒थ॒मः । दैव्यः॑ । भि॒षक् ॥ अहीन्॑ । च॒ । सर्वान्॑ । ज॒भंयन्न्॑ । सर्वाः᳚ । च॒ । या॒तु॒धा॒न्य॑ इति॑ यातु - धा॒न्यः॑ ॥ अ॒सौ । यः । ता॒म्रः । अ॒रु॒णः । उ॒त । ब॒भ्रुः । सु॒म॒ङ्गल॒ इति॑ सु - म॒ङ्गलः॑ ॥ ये । च॒ । इ॒माम् । रु॒द्राः । अ॒भितः॑ । दि॒क्षु ।
पदसंख्या: 50