रुद्र रीरिषः ॥ मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः । वी॒रान् मानो॑ रुद्र भामि॒तो व॑धीर्. ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ॥ आ॒रात्ते॑ गो॒घ्न उ॒त पू॑रुष॒घ्ने क्ष॒यद्वी॑राय सु॒म्नम॒स्मे ते॑ अस्तु । रक्षा॑ च नो॒ अधि॑ च देव ब्रू॒ह्यधा॑ च नः॒ शर्म॑ यच्छ द्वि॒बर्.हाः᳚ ॥ स्तु॒हि - [ ]
पदपाठः (Word-by-word)
रु॒द्र॒ । री॒रि॒षः॒ ॥ मा । नः॒ । तो॒के । तन॑ये । मा । नः॒ । आयु॑षि । मा । नः॒ । गोषु॑ । मा । नः॒ । अश्वे॑षु । री॒रि॒षः॒ ॥ वी॒रान् । मा । नः॒ । रु॒द्र॒ । भा॒मि॒तः । व॒धीः॒ । ह॒विष्म॑न्तः । नम॑सा । वि॒धे॒म॒ । ते॒ ॥ आ॒रात् । ते॒ । गो॒घ्न इति॑ गो - घ्ने । उ॒त । पू॒रु॒ष॒घ्न इति॑ पूरुष - घ्ने । क्ष॒यद्वी॑रा॒येति॑ क्ष॒यत् - वी॒रा॒य॒ । सु॒म्नम् । अ॒स्मे इति॑ । ते॒ । अ॒स्तु॒ ॥ रक्ष॑ । च॒ । नः॒ । अधीति॑ । च॒ । दे॒व॒ । ब्रू॒हि॒ । अध॑ । च॒ । नः॒ । शर्म॑ । य॒च्छ॒ । द्वि॒बर्.हा॒ इति॑ द्वि - बर्.हाः᳚ ॥ स्तु॒हि ।