प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.5.11.2 TS 4.5.11.2
प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ॥ य ए॒ताव॑न्तश्च॒ भूयाꣳ॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ॥ तेषाꣳ॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ॥ नमो॑ रु॒द्रेभ्यो॒ ये पृ॑थि॒व्यां ॅये᳚ऽन्तरि॑क्षे॒ ये दि॒वि येषा॒मन्नं॒ ॅवातो॑ व॒र्॒.षमिष॑व॒स्तेभ्यो॒ दश॒ प्राची॒ र्दश॑दक्षि॒णा दश॑प्र॒तीची॒ र्दशोदी॑ची॒ र्दशो॒र्द्ध्वा-स्तेभ्यो॒ नम॒स्ते नो॑ मृडयन्तु॒ ते यं द्वि॒ष्मो यश्च॑ ( ) नो॒ द्वेष्टि॒ तं ॅवो॒ जंभे॑ दधामि ॥
पदपाठः (Word-by-word)
प्र॒चर॒न्तीति॑ प्र - चर॑न्ति । सृ॒काव॑न्त॒ इति॑ सृ॒का - व॒न्तः॒ । नि॒ष॒ङ्गिण॒ इति॑ नि - स॒ङ्गिनः॑ ॥ ये । ए॒ताव॑न्तः । च॒ । भूयाꣳ॑सः । च॒ । दिशः॑ । रु॒द्राः । वि॒त॒स्थि॒र इति॑ वि - त॒स्थि॒रे ॥ तेषा᳚म् । स॒ह॒स्र॒यो॒ज॒न इति॑ सहस्र - यो॒ज॒ने । अवेति॑ । धन्वा॑नि । त॒न्म॒सि॒ ॥ नमः॑ । रु॒द्रेभ्यः॑ । ये । पृ॒थि॒व्याम् । ये । अ॒न्तरि॑क्षे । ये । दि॒वि । येषा᳚म् । अन्न᳚म् । वातः॑ । व॒र्॒.षम् । इष॑वः । तेभ्यः॑ । दश॑ । प्राचीः᳚ । दश॑ । द॒क्षि॒णा । दश॑ । प्र॒तीचीः᳚ । दश॑ । उदी॑चीः । दश॑ । ऊ॒द्‌र्ध्वाः । तेभ्यः॑ । नमः॑ । ते । नः॒ । मृ॒ड॒य॒न्तु॒ । ते॒ । यम् । द्वि॒ष्मः । यः । च॒ ( ) । नः॒ । द्वेष्टि॑ । तम् । वः॒ । जंभे᳚ । द॒धा॒मि॒ ॥
पदसंख्या: 56