इषु॑मद्भ्यो धन्वा॒विभ्य॑श्च वो॒ नमो॒ नम॑ आतन्वा॒नेभ्यः॑ प्रति॒दधा॑नेभ्यश्च वो॒ नमो॒ नम॑ आ॒यच्छ॑द्भ्यो विसृ॒जद्भ्य॑श्च वो॒ नमो॒ नमोऽस्य॑द्भ्यो॒ विद्ध्य॑द्भ्यश्च वो॒ नमो॒ नम॒ आसी॑नेभ्यः॒ शया॑नेभ्यश्च वो॒ नमो॒ नमः॑ स्व॒पद्भ्यो॒ जाग्र॑द्भ्यश्च वो॒ नमो॒ नम॒स्तिष्ठ॑द्भ्यो॒ धाव॑द्भ्यश्च वो॒ नमो॒ नमः॑ स॒भाभ्यः॑ स॒भाप॑तिभ्यश्च वो॒ नमो॒ नमो॒ अश्वे॒भ्यो ऽश्व॑पतिभ्य ( ) श्च वो॒ नमः॑ ॥
पदपाठः (Word-by-word)
इषु॑मद्भ्य॒ इतीषु॑मत् - भ्यः॒ । ध॒न्वा॒विभ्य॒ इति॑ धन्वा॒वि-भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । आ॒त॒न्वा॒नेभ्य॒ इत्या᳚ - त॒न्वा॒नेभ्यः॑ । प्र॒ति॒दधा॑नेभ्य॒ इति॑ प्रति - दधा॑नेभ्यः । च॒ । वः॒ । नमः॑ । नमः॑ । आ॒यच्छ॑द्भ्य॒ इत्या॒यच्छ॑त् - भ्यः॒ । वि॒सृ॒जद्भ्य॒ इति॑ विसृ॒जत् - भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । अस्य॑द्भ्य॒ इत्यस्य॑त् - भ्यः॒ । विद्ध्य॑द्भ्य॒ इति॒ विद्ध्य॑त्-भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । आसी॑नेभ्यः । शया॑नेभ्यः । च॒ । वः॒ । नमः॑ । नमः॑ । स्व॒पद्भ्य॒ इति॑ स्व॒पत् - भ्यः॒ । जाग्र॑द्भ्य॒ इति॒ जाग्र॑त्-भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । तिष्ठ॑द्भ्य॒ इति॒ तिष्ठ॑त् - भ्यः॒ । धाव॑द्भ्य॒ इति॒ धाव॑त् - भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । स॒भाभ्यः॑ । स॒भाप॑तिभ्य॒ इति॑ स॒भाप॑ति - भ्यः॒ । च॒ । वः॒ । नमः॑ । नमः॑ । अश्वे᳚भ्यः । अश्व॑पतिभ्य॒ इत्यश्व॑पति - भ्यः॒ ( ) । च॒ । वः॒ । नमः॑ ॥