नम॑ ऊ॒र्व्या॑य च सू॒र्म्या॑य च॒ नमः॑ प॒र्ण्या॑य च पर्णश॒द्या॑य च॒ नमो॑ऽपगु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आक्खिद॒ते च॑ प्रक्खिद॒ते च॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वानाꣳ॒॒ हृद॑येभ्यो॒ नमो॑ विक्षीण॒केभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नम॑ आनिर्. ह॒तेभ्यो॒ नम॑ आमीव॒त्केभ्यः॑ ॥
पदपाठः (Word-by-word)
नमः॑ । ऊ॒र्व्या॑य । च॒ । सू॒र्म्या॑य । च॒ । नमः॑ । प॒र्ण्या॑य । च॒ । प॒र्ण॒श॒द्या॑येति॑ पर्ण - श॒द्या॑य। च॒ । नमः॑ । अ॒प॒गु॒रमा॑णा॒येत्य॑प - गु॒रमा॑णाय । च॒ । अ॒भि॒घ्न॒त इत्य॑भि - घ्न॒ते । च॒ । नमः॑ । आ॒क्खि॒द॒त इत्या᳚ - खि॒द॒ते । च॒ । प्र॒क्खि॒द॒त इति॑ प्र-खि॒द॒ते । च॒ । नमः॑ । वः॒ । कि॒रि॒केभ्यः॑ । दे॒वाना᳚म् । हृद॑येभ्यः । नमः॑ । वि॒क्षी॒ण॒केभ्य॒ इति॑ वि - क्षी॒ण॒केभ्यः॑ । नमः॑ । वि॒चि॒न्व॒त्केभ्य॒ इति॑ वि - चि॒न्व॒त्केभ्यः॑ । नमः॑ । आ॒नि॒र्॒.ह॒तेभ्य॒ इत्या॑निः-ह॒तेभ्यः॑ । नमः॑ । आ॒मी॒व॒त्केभ्य॒ इत्या᳚ - मी॒व॒त्केभ्यः॑ ॥