भुव॑नस्य॒ रेतो॑ गा॒तुं ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तꣳ शशमा॒नं ॅयदस्था᳚ज्जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒वं दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्याः स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ यत् प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ विश्वा᳚न् मुञ्च॒त्वꣳह॑सः ॥ शमि॑तार उ॒पेत॑न य॒ज्ञ्ं - [ ]
पदपाठः (Word-by-word)
भुव॑नस्य । रेतः॑ । गा॒तुम् । ध॒त्त॒ । यज॑मानाय । दे॒वाः॒ ॥ उ॒पाकृ॑त॒मित्यु॑प-आकृ॑तम् । श॒श॒मा॒नम् । यत् । अस्था᳚त् । जी॒वम् । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ ॥ नाना᳚ । प्रा॒ण इति॑ प्र - अ॒नः । यज॑मानस्य । प॒शुना᳚ । य॒ज्ञ्ः । दे॒वेभिः॑ । स॒ह । दे॒व॒यान॒ इति॑ देव - यानः॑ ॥ जी॒वम् । दे॒वाना᳚म् । अपीति॑ । ए॒तु॒ । पाथः॑ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः᳚ ॥ यत् । प॒शुः । मा॒युम् । अकृ॑त । उरः॑ । वा॒ । प॒द्भिरिति॑ पत् - भिः । आ॒ह॒त इत्या᳚ - ह॒ते ॥ अ॒ग्निः । मा॒ । तस्मा᳚त् । एन॑सः । विश्वा᳚त् । मु॒ञ्च॒तु॒ । अꣳह॑सः ॥ शमि॑तारः । उ॒पेत॒नेत्यु॑प - एत॑न । य॒ज्ञ्म् ।