प्रश्नः 5 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 3.5.11.3 TS 3.5.11.3
मु॑ नः पर॒स्पास्त्वं ॅवस्य॒ आ वृ॑षभ प्रणे॒ता । अग्ने॑ तो॒कस्य॑ न॒स्तने॑ त॒नूना॒मप्र॑युच्छ॒न् दीद्य॑द्बोधि गो॒पाः ॥ अ॒भि त्वा॑ देव सवित॒रीशा॑नं॒ ॅवार्या॑णां । सदा॑ऽवन् भा॒गमी॑महे ॥ म॒ही द्यौः पृ॑थि॒वी च॑न इ॒मं ॅय॒ज्ञ्ं मि॑मिक्षतां । पि॒पृ॒तां नो॒ भरी॑मभिः ॥ त्वाम॑ग्ने॒ पुष्क॑रा॒दद्ध्यथ॑र्वा॒ निर॑मन्थत । मू॒र्द्ध्नो विश्व॑स्य वा॒घतः॑ ॥ तमु॑ - [ ]
▶ पदपाठः (Word-by-word)
उ॒ । नः॒ । प॒र॒स्पा इति॑ परः - पाः । त्वम् । वस्यः॑ । एति॑ । वृ॒ष॒भ॒ । प्र॒णे॒तेति॑ प्र - ने॒ता ॥ अग्ने᳚ । तो॒कस्य॑ । नः॒ । तने᳚ । त॒नूना᳚म् । अप्र॑युच्छ॒नित्यप्र॑ - यु॒च्छ॒न्न् । दीद्य॑त् । बो॒धि॒ । गो॒पा इति॑ गो-पाः ॥ अ॒भीति॑ । त्वा॒ । दे॒व॒ । स॒वि॒तः॒ । ईशा॑नम् । वार्या॑णाम् ॥ सदा᳚ । अ॒व॒न्न् । भा॒गम् । ई॒म॒हे॒ ॥ म॒ही । द्यौः । पृ॒थि॒वी । च॒ । नः॒ । इ॒मम् । य॒ज्ञ्म् । मि॒मि॒क्ष॒ता॒म् ॥ पि॒पृ॒ताम् । नः॒ । भरी॑मभि॒रिति॒ भरी॑म-भिः॒ ॥ त्वाम् । अ॒ग्ने॒ । पुष्क॑रात् । अधीति॑ । अथ॑र्वा । निरिति॑ । अ॒म॒न्थ॒त॒ ॥ मू॒र्द्ध्नः । विश्व॑स्य । वा॒घतः॑ ॥ तम् । उ॒ ।
पदसंख्या: 50