पदपाठः (Word-by-word)
सायणभाष्यम् (Sayana Commentary)
( अथ तृतीयकाण्डे पञ्चमप्रपाठके पञ्चमोऽनुवाकः) ।
अतीमोक्षजपे मन्त्राश्चतुर्थे समुदीरिताः ।
कल्पः — “सूर्यो मा देव इति दर्मैर्हस्तेनपिधायोत्तिष्ठति” इति । पाठस्तु —
सूर्यो मा देव इति । अयमादित्यग्रहः सूर्यवाय्वात्मकोऽतः सूर्यरूपोऽयं देवो यज्ञविघातिभ्यो मां पातु । तथा वायुरूपोऽयं विघ्नकारिदेवयुक्तादन्तरिक्षान्मां पातु । तथा यजमानो यामहेतुरयमग्निश्चक्षुषो विरोधिदेवदृष्टेः सकाशान्मां पातु । हे सोम सक्षादीनि चत्वारि यानि तव नामानि एतैर्नामभिस्ते तव विधेम परिचयाँ करवाम । यानि च पूर्वोक्तानि सूर्यवाय्वग्निनामानि तेभिस्तैश्च नामभिस्तव परिचर्यां करवाम । हे सक्ष पात्रसङ्ग, [ हे ] शूष लवन्, हे सवितः प्रेरक हे विश्वचर्षणे सर्वमनुष्यानुग्राहक । एतैः सबोधनरूपैर्नामभिर्विधेमेत्यन्वयः ।
कल्पः — “अहं यजमानः परस्तात्परभागे ग्रहमन्वारभ इति शेषः । अहमवस्तादचरभागेऽपि ग्रहमन्वारभे । अहमस्याऽऽदित्यग्रहस्य ज्योतिषा विशेषेण तमो ववार वारितवानस्मि । उपरिभागाधोभागयार्मेध्यवर्ति यदन्तरिक्षं तदु तदपि मे पिता पितृवत्पालकमभूत् । अहं सूर्यमादित्यग्रहमुभयत ऊर्ध्वाधो भागयोर्दक्षिणोत्तरभागयोर्वा ददर्श दृष्टवानस्मि । अतोहं समानानां यजमानानां मध्य उत्तमो भूयासम् ।
कल्पः — “आसमुद्रादिति दर्भैराच्यावयति” इति । पाठस्तु —
आ समुद्रादिति । प्रजापतिरिमं ग्रहं चतुर्दिक्ष्वा समुद्रात्समुद्रपर्यन्तं दर्भैरा च्यावयतीति । तथैवोर्ध्वभागेऽन्तरिक्षपर्यन्तमुदधिं समुद्रसमानमादित्यग्रहं च्यावयति । इन्द्रो गवामूध इत्र ग्रहं प्रस्नौतु प्रस्नुतं करोतु । मरुतो वर्षयन्तु मेधा इव संततधाराः कुर्वन्तु ।
कल्पः — “उन्नम्भय पृथिवीमिति वृष्टिकामस्य जुहुयात्” इति । पाठस्तु —
उन्नम्भय पृथिवीमिति । हे आदित्य पृथिवीमुन्नम्भयोत्कर्षेण क्लिन्नां कुरु । इदं दिव्यं नभो भिन्धि द्युलोकस्थाकाशवर्तिमेधमिव ग्रहं भिन्धि भिन्नं कुरु । दिव्यस्य दिवि भवस्योदन् उदकस्य समृद्धिं नोऽस्मभ्यं देहि । ईशानः समर्थस्त्वं दृतिं विसृज जलविधारकं दृतिसमानं मेघं विमुञ्च । अथ विधत्ते —
पशवो वा इति । आदित्यग्रह इति यदेते पशवो वै तस्य पशुप्राप्तिहेत्वात् । अग्निरिति यदेष क्रूरो देवस्तस्मात्क्रौर्यपरिहारायाग्नावोषधीः प्रक्षिप्य पश्चादादित्यग्रहं जुहोति । तथा सति रुद्ररूपाग्निसकाशादित्यग्रहरूपान्पशूनन्तर्हितानेव करोति । किंचौषधीष्ववाऽऽदित्यग्रहरूपान्पशून्प्रतिष्ठितान्करोति ।
कल्पः — “कविर्यज्ञस्य वि तनोति पन्थामिति ग्रहं हत्वा” इति । पाठस्तु —
कविर्यस्योति । यज्ञस्य कविर्विद्वानयमादित्यग्रहा नाकस्य पन्थां वितनोति स्वर्गस्य मार्गं वितनोति विस्तृतं करोति । कुत्रेति । तदुच्यते-अधिरोचन आधिक्येन भासमान दिवः पृष्ठे द्युलोकस्योपरि । हेऽग्ने येन पथा हव्यं वहसि दवानां दूतस्त्वमितो निर्गत्य येन पथा यासि तादृशं पन्थानं वितनोतीति पूर्वत्रान्वयः । कीदृशो दूतः । प्रकर्षेण चेतते कर्मानुष्ठातारं जानातीति प्रचेताः । अमुतोऽमुष्मिन्स्वर्गे सनीयानतिशयेन फलस्य दाता ।
कल्पः — “यास्ते विश्वाः समिधः सन्त्यग्र इति दर्भानाहवनीये प्रास्य” इति । पाठस्तु —
यास्ते विश्वा इति । हेऽग्ने त्वदीयाः समिधः सम्यग्दीप्यमाना ज्वाला याः सन्ति ता एव विशेषाकारेणोच्यन्ते- पृथिव्यां भूलोके बर्हिषि यज्ञदेशे या दीप्तयः सन्ति सूर्ये च या दीप्तयः सन्ति ते त्वदीयास्ता दीप्तयो घृतस्याऽऽहुतीर्गच्छन्तु प्राप्नुवन्तु । देवानात्मन इच्छतीति देवायंस्तस्मै देवायते यजमानाय शर्म सुखं प्रयच्छतु । आदित्यग्रहविषयास्त एते मन्त्रः कदाचन स्तरीरसीत्यनुवाकादूर्ध्वं द्रष्टव्याः ।
अथ कल्पे — “यूपं यजमान उपतिष्ठते नमः स्वरुभ्यः” इत्युपक्रम्यान्ते पठितम् — “आशासानः सुवीर्यमिति चोपस्थाय” इति । पाठस्तु —
आशासान इति । हे यूप त्वं यजमानाय मह्यं रायस्पोषमाशासानस्तिष्ठ कीदृशं पोषम् । सुवीर्यं शोभनेन भोगसामर्थ्येनोपेतं स्वश्वियं शोभनैरश्वैरुपेतम् । कीदृशो यूपः । बृहस्पतिना देवेन रायाद्यनेकधननिमित्तं स्वगाकृतो यजमानस्य स्वगतो यथा भवति तथा कृतः । सोऽयं मन्त्रः पशुप्रकरणगतात्समुद्रं गच्छेत्यनुवाकादूर्ध्व द्रष्टव्यः । अत्र विनियोगसंग्रहः —
सूर्यो तृतीयसवन आदित्यग्रहहस्तकः ।
उत्तिष्ठेदहमित्यस्मात्स्वाम्यन्वारभते ग्रहम् ॥
आ समुञ्चावयेद्दर्भैरुन्नं वृष्ट्यर्तिहोमकः ।
कविर्हरेदग्रहं यास्ते वह्नौ प्रास्यति दर्भकान् ॥
आशा यूपोपस्थितिः स्यात्सप्त मन्त्रा इहेरिताः ॥
पञ्चमोऽनुवाकः ॥ ५ ॥