प्रश्नः 3 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 4.3.4.1 TS 4.3.4.1
ध्रु॒वक्षि॑ति -र्ध्रु॒वयो॑नि-र्ध्रु॒वाऽसि॑ ध्रु॒वां ॅयोनि॒मा सी॑द सा॒द्ध्या । उख्य॑स्य के॒तुं प्र॑थ॒मं पु॒रस्ता॑द॒श्विना᳚ऽद्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ स्वे दक्षे॒ दक्ष॑पिते॒ह सी॑द देव॒त्रा पृ॑थि॒वी बृ॑ह॒ती ररा॑णा । स्वा॒स॒स्था त॒नुवा॒ सं ॅवि॑शस्व पि॒तेवै॑धि सू॒नव॒ आ सु॒शेवा॒ऽश्विना᳚द्ध्व॒र्यू सा॑दयतामि॒ह त्वा᳚ ॥ कु॒ला॒यिनी॒ वसु॑मती वयो॒धा र॒यिं नो॑ वर्द्ध बहु॒लꣳ सु॒वीरं᳚ ।
▶ पदपाठः (Word-by-word)
ध्रु॒वक्षि॑ती॒रिति॑ ध्रु॒व - क्षि॒तिः॒ । ध्रु॒वयो॑नि॒रिति॑ ध्रु॒व-यो॒निः॒ । ध्रु॒वा । अ॒सि॒ । ध्रु॒वाम् । योनि᳚म् । एति॑ । सी॒द॒ । सा॒द्ध्या ॥ उख्य॑स्य । के॒तुम् । प्र॒थ॒मम् । पु॒रस्ता᳚त् । अ॒श्विना᳚ । अ॒द्ध्व॒र्यू इति॑ । सा॒द॒य॒ता॒म् । इ॒ह । त्वा॒ ॥ स्वे । दक्षे᳚ । दक्ष॑पि॒तेति॒ दक्ष॑ - पि॒ता॒ । इ॒ह । सी॒द॒ । दे॒व॒त्रेति॑ देव - त्रा । पृ॒थि॒वी । बृ॒ह॒ती । ररा॑णा ॥ स्वा॒स॒स्थेति॑ सु - आ॒स॒स्था । त॒नुवा᳚ । समिति॑ । वि॒श॒स्व॒ । पि॒ता । इ॒व॒ । ए॒धि॒ । सू॒नवे᳚ । एति॑ । सु॒शेवेति॑ सु - शेवा᳚ । अ॒श्विना᳚ । अ॒द्ध्व॒र्यू इति॑ । सा॒द॒य॒ता॒म् । इ॒ह । त्वा॒ ॥ कु॒ला॒यिनी᳚ । वसु॑म॒तीति॒ वसु॑ - म॒ती॒ । व॒यो॒धा इति॑ वयः - धाः । र॒यिम् । नः॒ । व॒द्‌र्ध॒ । ब॒हु॒लम् । सु॒वीर॒मिति॑ सु - वीर᳚म् ॥
पदसंख्या: 50