यो वा अय॑थादेवतम॒ग्निं चि॑नु॒त आ दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑यान् भवति॒ यो य॑थादेव॒तं न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भवत्याग्ने॒य्या गा॑यत्रि॒या प्र॑थ॒मां चिति॑म॒भि मृ॑शेत् त्रि॒ष्टुभा᳚ द्वि॒तीयां॒ जग॑त्या तृ॒तीया॑मनु॒ष्टुभा॑ चतु॒र्थीं प॒ङ्क्त्या प॑ञ्च॒मीं ॅय॑थादेव॒तमे॒वाग्निं चि॑नुते॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑यान् भव॒तीडा॑यै॒ वा ए॒षा विभ॑क्तिः प॒शव॒ इडा॑ प॒शुभि॑रेनं - [ ]
पदपाठः (Word-by-word)
यः । वै । अय॑थादेवत॒मित्यय॑था-दे॒व॒त॒म् । अ॒ग्निम् । चि॒नु॒ते । एति॑ । दे॒वता᳚भ्यः । वृ॒श्च्य॒ते॒ । पापी॑यान् । भ॒व॒ति॒ । यः । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । आ॒ग्ने॒य्या । गा॒य॒त्रि॒या । प्र॒थ॒माम् । चिति᳚म् । अ॒भीति॑ । मृ॒शे॒त् । त्रि॒ष्टुभाः᳚ । द्वि॒तीया᳚म् । जग॑त्या । तृ॒तीया᳚म् । अ॒नु॒ष्टुभेत्य॑नु - स्तुभा᳚ । च॒तु॒र्थीम् । प॒ङ्क्त्या । प॒ञ्च॒मीम् । य॒था॒दे॒व॒तमिति॑ यथा - दे॒व॒तम् । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । न । दे॒वता᳚भ्यः । एति॑ । वृ॒श्च्य॒ते॒ । वसी॑यान् । भ॒व॒ति॒ । इडा॑यै । वै । ए॒षा । विभ॑क्ति॒रिति॒ वि - भ॒क्तिः॒ । प॒शवः॑ । इडा᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । ए॒न॒म् ।