उ॒थ्स॒न्न॒ य॒ज्ञो वा ए॒ष यद॒ग्निः किं ॅवाऽहै॒तस्य॑ क्रि॒यते॒ किं ॅवा॒ न यद्वै य॒ज्ञ्स्य॑ क्रि॒यमा॑णस्या-न्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा᳚श्वि॒नीरुप॑ दधात्य॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ॒ ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति॒ पञ्चोप॑ दधाति॒ पाङ्क्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञ्स्तस्मै॑ भेष॒जं क॑रोत्यृत॒व्या॑ उप॑ दधात्यृतू॒नां क्लृप्त्यै॒ - [ ]
पदपाठः (Word-by-word)
उ॒थ्स॒न्न॒य॒ज्ञ् इत्यु॑थ्सन्न - य॒ज्ञ्ः । वै । ए॒षः । यत् । अ॒ग्निः । किम् । वा॒ । अह॑ । ए॒तस्य॑ । क्रि॒यते᳚ । किम् । वा॒ । न । यत् । वै । य॒ज्ञ्स्य॑ । क्रि॒यमा॑णस्य । अ॒न्त॒र्यन्तीत्य॑न्तः - यन्ति॑ । पूय॑ति । वै । अ॒स्य॒ । तत् । आ॒श्वि॒नीः । उपेति॑ । द॒धा॒ति॒ । अ॒श्विनौ᳚ । वै । दे॒वाना᳚म् । भि॒षजौ᳚ । ताभ्या᳚म् । ए॒व । अ॒स्मै॒ । भे॒ष॒जम् । क॒रो॒ति॒ । पञ्च॑ । उपेति॑ । द॒धा॒ति॒ । पाङ्क्तः॑ । य॒ज्ञ्ः । यावान्॑ । ए॒व । य॒ज्ञ्ः । तस्मै᳚ । भे॒ष॒जम् । क॒रो॒ति॒ । ऋ॒त॒व्याः᳚ । उपेति॑ । द॒धा॒ति॒ । ऋ॒तू॒नाम् । क्लृप्त्यै᳚ ।