काण्डम् 5 - प्रश्नः 6

Kanda 5, Prasna 6

23 अनुवाकाः | 54 पञ्चाशत्

प्रश्नः 6 - Complete Audio Recording

॥

अनुवाकः 1 (4 पञ्चाशत्)

TS 5.6.1.1 TS 5.6.1.1
हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑ । अ॒ग्निं ॅया गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासाꣳ॒॒ राजा॒ वरु॑णो॒ याति॒ मद्ध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नां । म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ यासां᳚ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं ॅया अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति । याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ - [ ]
▶ पदपाठः (Word-by-word)
हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । शुच॑यः । पा॒व॒काः । यासु॑ । जा॒तः । क॒श्यपः॑ । यासु॑ । इन्द्रः॑ ॥ अ॒ग्निम् । याः । गर्भ᳚म् । द॒धि॒रे । विरू॑पा॒ इति॒ वि - रू॒पाः॒ । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । राजा᳚ । वरु॑णः । याति॑ । मद्ध्ये᳚ । स॒त्या॒नृ॒ते इति॑ सत्य - अ॒नृ॒ते । अ॒व॒पश्य॒न्नित्य॑व - पश्यन्न्॑ । जना॑नाम् ॥ म॒धु॒श्चुत॒ इति॑ मधु - श्चुतः॑ । शुच॑यः । याः । पा॒व॒काः । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ यासा᳚म् । दे॒वाः । दि॒वि । कृ॒ण्वन्ति॑ । भ॒क्षम् । याः । अ॒न्तरि॑क्षे । ब॒हु॒धेति॑ बहु - धा । भव॑न्ति ॥ याः । पृ॒थि॒वीम् । पय॑सा । उ॒न्दन्ति॑ ।
पदसंख्या: 50
TS 5.6.1.2 TS 5.6.1.2
शु॒क्रास्ता न॒ आपः॒ शꣳ स्यो॒ना भ॑वन्तु ॥ शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽऽ*पः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे ।सर्वाꣳ॑ अ॒ग्नीꣳ र॑फ्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त ॥यद॒दः सं॑ प्रय॒॒तीरहा॒॒ वन॑दताह॒ते । तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः ॥ यत् प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभꣳ॑ स॒मव॑ल्गत ।
▶ पदपाठः (Word-by-word)
शु॒क्राः । ताः । नः॒ । आपः॑ । शम् । स्यो॒नाः । भ॒व॒न्तु॒ ॥ शि॒वेन॑ । मा॒ । चक्षु॑षा । प॒श्य॒त॒ । आ॒पः॒ । शि॒वया᳚ । त॒नुवा᳚ । उपेति॑ । स्पृ॒श॒त॒ । त्वच᳚म् । मे॒ ॥ सर्वान्॑ । अ॒ग्नीन् । अ॒फ्सु॒षद॒ इत्य॑फ्सु - सदः॑ । हु॒वे॒ । वः॒ । मयि॑ । वर्चः॑ । बल᳚म् । ओजः॑ । नीति॑ । ध॒त्त॒ ॥ यत् । अ॒दः । स॒प्रं॒य॒तीरिति॑ सं - प्र॒य॒तीः । अहौ᳚ । अन॑दत । ह॒ते ॥ तस्मा᳚त् । एति॑ । न॒द्यः॑ । नाम॑ । स्थ॒ । ता । वः॒ । नामा॑नि । सि॒न्ध॒वः॒ ॥ यत् । प्रेषि॑ता॒ इति॒ प्र - इ॒षि॒ताः॒ । वरु॑णेन । ताः । शीभ᳚म् । स॒मव॑ल्ग॒तेति॑ सं - अव॑ल्गत ॥
पदसंख्या: 50
TS 5.6.1.3 TS 5.6.1.3
तदा᳚प्नो॒-दिन्द्रो॑ वो य॒ती-स्तस्मा॒-दापो॒ अनु॑ स्थन ॥ अ॒प॒का॒मꣳ स्यन्द॑माना॒ अवी॑वरत वो॒ हिकं᳚ ।इन्द्रो॑ वः॒ शक्ति॑भि र्देवी॒-स्तस्मा॒द्-वार्णाम॑ वो हि॒तं ॥एको॑ दे॒वो अप्य॑तिष्ठ॒थ् स्यन्द॑माना यथा व॒शं । उदा॑निषु-र्म॒हीरिति॒ तस्मा॑-दुद॒क-मु॑च्यते ॥ आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नी-षोमौ॑ बिभ्र॒त्याप॒ इत् ताः । ती॒व्रो रसो॑ मधु॒पृचा॑ - [ ]
▶ पदपाठः (Word-by-word)
तत् । आ॒प्नो॒त् । इन्द्रः॑ । वः॒ । य॒तीः । तस्मा᳚त् । आपः॑ । अन्विति॑ । स्थ॒न॒ ॥ अ॒प॒का॒ममित्य॑प - का॒मम् । स्यन्द॑मानाः । अवी॑वरत । वः॒ । हिक᳚म् ॥ इन्द्रः॑ । वः॒ । शक्ति॑भि॒रिति॒ शक्ति॑-भिः॒ । दे॒वीः॒ । तस्मा᳚त् । वाः । नाम॑ । वः॒ । हि॒तम् ॥ एकः॑ । दे॒वः । अपीति॑ । अ॒ति॒ष्ठ॒त् । स्यन्द॑मानाः । य॒था॒व॒शमिति॑ यथा - व॒शम् ॥ उदिति॑ । आ॒नि॒षुः॒ । म॒हीः । इति॑ । तस्मा᳚त् । उ॒द॒कम् । उ॒च्य॒ते॒ ॥ आपः॑ । भ॒द्राः । घृ॒तम् । इत् । आपः॑ । आ॒सुः॒ । अ॒ग्नीषोमा॒वित्य॒ग्नी - सोमौ᳚ । बि॒भ्र॒ति॒ । आपः॑ । इत् । ताः ॥ ती॒व्रः । रसः॑ । म॒धु॒पृचा॒मिति॑ मधु-पृचा᳚म् ।
पदसंख्या: 50
TS 5.6.1.4 TS 5.6.1.4
-मरंग॒म आ मा᳚ प्रा॒णेन॑ स॒ह वर्च॑सा गन्न् ॥ आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसां । मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्.हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं ॅय॒दा वः॑ ॥ आपो॒ हि ष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से ॥ यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ( ) ॥ तस्मा॒ अरं ग॑माम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ । आपो॑ ज॒नय॑था च नः ॥
▶ पदपाठः (Word-by-word)
अ॒र॒ङ्ग॒म इत्य॑रं - ग॒मः । एति॑ । मा॒ । प्रा॒णेनेति॑ प्र - अ॒नेन॑ । स॒ह । वर्च॑सा । ग॒न्न् ॥ आत् । इत् । प॒श्या॒मि॒ । उ॒त । वा॒ । शृ॒णो॒मि॒ । एति॑ । मा॒ । घोषः॑ । ग॒च्छ॒ति॒ । वाक् । नः॒ । आ॒सा॒म् ॥ मन्ये᳚ । भे॒जा॒नः । अ॒मृत॑स्य । तर्.हि॑ । हिर॑ण्यवर्णा॒ इति॒ हिर॑ण्य - व॒र्णाः॒ । अतृ॑पम् । य॒दा । वः॒ ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ( ) ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥ दि॒वि । श्र॒य॒स्व॒ । अ॒न्तरि॑क्षे । य॒त॒स्व॒ । पृ॒थि॒व्या । समिति॑ । भ॒व॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अ॒सि॒ । ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । त्वा॒ ॥
पदसंख्या: 72

अनुवाकः 2 (6 पञ्चाशत्)

TS 5.6.2.1 TS 5.6.2.1
अ॒पां ग्रहा᳚न् गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ ॅयदे॒ते ग्रहाः᳚ स॒वो᳚ ऽग्निर्व॑रुणस॒वो रा॑ज॒सूय॑-मग्निस॒व-श्चित्य॒स्ताभ्या॑-मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ऽग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्नेर्भ्रातृ॑व्या॒ यद॒पो᳚ ऽग्नेर॒धस्ता॑दुप॒ दधा॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्य॒मृतं॒ - [ ]
▶ पदपाठः (Word-by-word)
अ॒पाम् । ग्रहान्॑ । गृ॒ह्णा॒ति॒ । ए॒तत् । वाव । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । यत् । ए॒ते । ग्रहाः᳚ । स॒वः । अ॒ग्निः । व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । अ॒ग्नि॒स॒व इत्य॑ग्नि - स॒वः । चित्यः॑ । ताभ्या᳚म् । ए॒व । सू॒य॒ते॒ । अथो॒ इति॑ । उ॒भौ । ए॒व । लो॒कौ । अ॒भीति॑ । ज॒य॒ति॒ । यः । च॒ । रा॒ज॒सूये॒नेति॑ राज - सूये॑न । ई॒जा॒नस्य॑ । यः । च॒ । अ॒ग्नि॒चित॒ इत्य॑ग्नि-चितः॑ । आपः॑ । भ॒व॒न्ति॒ । आपः॑ । वै । अ॒ग्नेः । भ्रातृ॑व्याः । यत् । अ॒पः । अ॒ग्नेः । अ॒धस्ता᳚त् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । अ॒मृत᳚म् ।
पदसंख्या: 50
TS 5.6.2.2 TS 5.6.2.2
ॅवा आप॒स्तस्मा॑-द॒द्भिरव॑तान्त-म॒भि षि॑ञ्चन्ति॒ नाऽऽ*र्ति॒मार्च्छ॑ति॒ सर्व॒मायु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं ॅवेदान्नं॒ ॅवा आपः॑ प॒शव॒ आपोऽन्नं॑ प॒शवो᳚ऽन्ना॒दः प॑शु॒मान् भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं ॅवेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रेणै॒वास्मा॒ - [ ]
▶ पदपाठः (Word-by-word)
वै । आपः॑ । तस्मा᳚त् । अ॒द्भिरित्य॑त्-भिः । अव॑तान्त॒मित्यव॑-ता॒न्त॒म् । अ॒भीति॑ । सि॒ञ्च॒न्ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । सर्व᳚म् । आयुः॑ । ए॒ति॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । अन्न᳚म् । वै । आपः॑ । प॒शवः॑ । आपः॑ । अन्न᳚म् । प॒शवः॑ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । प॒शु॒मानिति॑ पशु - मान् । भ॒व॒ति॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प-धी॒यन्ते᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । द्वाद॑श । भ॒व॒न्ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । ए॒व । अ॒स्मै॒ ।
पदसंख्या: 50
TS 5.6.2.3 TS 5.6.2.3
अन्न॒मव॑ रुन्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा अन्न॑मद्यते॒ सयो᳚न्ये॒वान्न॒मव॑ रुन्ध॒ आ द्वा॑द॒शात् पुरु॑षा॒दन्न॑-म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ यस्यै॒ता उ॑पधी॒यन्ते य उ॑ चैना ए॒वं ॅवेद॑ कुं॒भाश्च॑ कुं॒भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒नस्य॒ प्रजा᳚त्यै॒ प्र प्र॒जया॑ प॒शुभि॑-र्मिथु॒नै-र्जा॑यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ - [ ]
▶ पदपाठः (Word-by-word)
अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । पात्रा॑णि । भ॒व॒न्ति॒ । पात्रे᳚ । वै । अन्न᳚म् । अ॒द्य॒ते॒ । सयो॒नीति॒ स - यो॒नि॒ । ए॒व । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । एति॑ । द्वा॒द॒शात् । पुरु॑षात् । अन्न᳚म् । अ॒त्ति॒ । अथो॒ इति॑ । पात्रा᳚त् । न । छि॒द्य॒ते॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प-धी॒यन्ते᳚ । यः । उ॒ । च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । कु॒भांः । च॒ । कु॒भींः । च॒ । मि॒थु॒नानि॑ । भ॒व॒न्ति॒ । मि॒थु॒नस्य॑ । प्रजा᳚त्या॒ इति॒ प्र - जा॒त्यै॒ । प्रेति॑ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । मि॒थु॒नैः । जा॒य॒ते॒ । यस्य॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । यः । उ॒ ।
पदसंख्या: 50
TS 5.6.2.4 TS 5.6.2.4
चैना ए॒वं ॅवेद॒ शुग्वा अ॒ग्निः सो᳚ऽद्ध्व॒र्युं ॅयज॑मानं प्र॒जाः शु॒चाऽर्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शुच॑मे॒वास्य॑ शमयति॒ नाऽऽ*र्ति॒मार्च्छ॑त्यद्ध्व॒र्युर्न यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒यन्ते॒ ऽपां ॅवा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒ यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सꣳ सृ॑जति॒ वर्.षु॑कः प॒र्जन्यो॑ - [ ]
▶ पदपाठः (Word-by-word)
च॒ । ए॒नाः॒ । ए॒वम् । वेद॑ । शुक् । वै । अ॒ग्निः । सः । अ॒द्ध्व॒र्युम् । यज॑मानम् । प्र॒जा इति॑ प्र - जाः । शु॒चा । अ॒र्प॒य॒ति॒ । यत् । अ॒पः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । शुच᳚म् । ए॒व । अ॒स्य॒ । श॒म॒य॒ति॒ । न । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । अ॒द्ध्व॒र्युः । न । यज॑मानः । शाम्य॑न्ति । प्र॒जा इति॑ प्र - जाः । यत्र॑ । ए॒ताः । उ॒प॒धी॒यन्त॒ इत्यु॑प - धी॒यन्ते᳚ । अ॒पाम् । वै । ए॒तानि॑ । हृद॑यानि । यत् । ए॒ताः । आपः॑ । यत् । ए॒ताः । अ॒पः । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । दि॒व्याभिः॑ । ए॒व । ए॒नाः॒ । समिति॑ । सृ॒ज॒ति॒ । वर्.षु॑कः । प॒र्जन्यः॑ ।
पदसंख्या: 50
TS 5.6.2.5 TS 5.6.2.5
भवति॒ यो वा ए॒तासा॑मा॒यत॑नं॒ क्लृप्तिं॒ ॅवेदा॒ऽऽ*यत॑नवान् भवति॒ कल्प॑ते ऽस्मा अनुसी॒तमुप॑ दधात्ये॒तद्वा आ॑सामा॒यत॑नमे॒षा क्लृप्ति॒र्य ए॒वं ॅवेदा॒ऽऽ*यत॑नवान् भवति॒ कल्प॑तेऽस्मै द्व॒द्वंम॒न्या उप॑ दधाति॒ चत॑स्रो॒ मद्ध्ये॒ धृत्या॒ अन्नं॒ ॅवा इष्ट॑का ए॒तत् खलु॒ वै सा॒क्षादन्नं॒ ॅयदे॒ष च॒रुर्यदे॒तं च॒रुमु॑प॒ दधा॑ति सा॒क्षा - [ ]
▶ पदपाठः (Word-by-word)
भ॒व॒ति॒ । यः । वै । ए॒तासा᳚म् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । क्लृप्ति᳚म् । वेद॑ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । कल्प॑ते । अ॒स्मै॒ । अ॒नु॒सी॒तमित्य॑नु - सी॒तम् । उपेति॑ । द॒धा॒ति॒ । ए॒तत् । वै । आ॒सा॒म् । आ॒यत॑न॒मित्या᳚ - यत॑नम् । ए॒षा । क्लृप्तिः॑ । यः । ए॒वम् । वेद॑ । आ॒यत॑नवा॒नित्या॒यत॑न - वा॒न् । भ॒व॒ति॒ । कल्प॑ते । अ॒स्मै॒ । द्व॒द्वंमिति॑ द्वं - द्वम् । अ॒न्याः । उपेति॑ । द॒धा॒ति॒ । चत॑स्रः । मद्ध्ये᳚ । धृत्यै᳚ । अन्न᳚म् । वै । इष्ट॑काः । ए॒तत् । खलु॑ । वै । सा॒क्षादिति॑ स-अ॒क्षात् । अन्न᳚म् । यत् । ए॒षः । च॒रुः । यत् । ए॒तम् । च॒रुम् । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । सा॒क्षादिति॑ स - अ॒क्षात् ।
पदसंख्या: 50
TS 5.6.2.6 TS 5.6.2.6
दे॒वास्मा॒ अन्न॒मव॑ रुन्धे मद्ध्य॒त उप॑ दधाति मद्ध्य॒त ए॒वास्मा॒ अन्नं॑ दधाति॒ तस्मा᳚न् मद्ध्य॒तोऽन्न॑मद्यते बार्.हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒-र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒ यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं ॅवेद॑ ॥
▶ पदपाठः (Word-by-word)
ए॒व । अ॒स्मै॒ । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । म॒द्ध्य॒तः । उपेति॑ । द॒धा॒ति॒ । म॒द्ध्य॒तः । ए॒व । अ॒स्मै॒ । अन्न᳚म् । द॒धा॒ति॒ । तस्मा᳚त् । म॒द्ध्य॒तः । अन्न᳚म् । अ॒द्य॒ते॒ । बा॒र्.॒ह॒स्प॒त्यः । भ॒व॒ति॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । अ॒स्मै॒ । अन्न᳚म् । अवेति॑ । रु॒न्धे॒ । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अ॒सि॒ । ब्र॒ह्म॒व॒र्च॒सायेति॑ ब्रह्म - व॒र्च॒साय॑ । त्वा॒ । इति॑ । आ॒ह॒ । ते॒ज॒स्वी । ब्र॒ह्म॒व॒र्च॒सीति॑ ब्रह्म - व॒र्च॒सी । भ॒व॒ति॒ । यस्य॑ । ए॒षः । उ॒प॒धी॒यत॒ इत्यु॑प - धी॒यते᳚ । यः । उ॒ । च॒ । ए॒न॒म् । ए॒वम् । वेद॑ ॥
पदसंख्या: 47

अनुवाकः 3 (4 पञ्चाशत्)

TS 5.6.3.1 TS 5.6.3.1
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा᳚त्र॒ वै मृ॒त्युर्जा॑यते॒ यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒ तस्मा॑दग्नि॒चिथ् सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्यवो ऽवे᳚ष्टा॒स्तस्मा॑-दग्नि॒चिन्ना-भिच॑रित॒वै प्र॒त्यगे॑न-मभिचा॒रः स्तृ॑णुते सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्त्ये॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वास्त ए॒वा - [ ]
▶ पदपाठः (Word-by-word)
भू॒ते॒ष्ट॒का इति॑ भूत - इ॒ष्ट॒काः । उपेति॑ । द॒धा॒ति॒ । अत्रा॒त्रेत्यत्र॑-अ॒त्र॒ । वै । मृ॒त्युः । जा॒य॒ते॒ । यत्र॑य॒त्रेति॒ यत्र॑-य॒त्र॒ । ए॒व । मृ॒त्युः । जाय॑ते । ततः॑ । ए॒व । ए॒न॒म् । अवेति॑ । य॒ज॒ते॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । सर्व᳚म् । आयुः॑ । ए॒ति॒ । सर्वे᳚ । हि । अ॒स्य॒ । मृ॒त्यवः॑ । अवे᳚ष्टा॒ इत्यव॑ - इ॒ष्टाः॒ । तस्मा᳚त् । अ॒ग्नि॒चिदित्य॑ग्नि - चित् । न । अ॒भिच॑रित॒वा इत्य॒भि-च॒रि॒त॒वै । प्र॒त्यक् । ए॒न॒म् । अ॒भि॒चा॒र इत्य॑भि - चा॒रः । स्तृ॒णु॒ते॒ । सू॒यते᳚ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । दे॒व॒सु॒वामिति॑ देव - सु॒वाम् । ए॒तानि॑ । ह॒वीꣳषि॑ । भ॒व॒न्ति॒ । ए॒ताव॑न्तः । वै । दे॒वाना᳚म् । स॒वाः । ते । ए॒व ।
पदसंख्या: 50
TS 5.6.3.2 TS 5.6.3.2
-स्मै॑ स॒वान् प्र य॑च्छन्ति॒ त ए॑नꣳ सुवन्ते स॒वो᳚ऽग्निर्व॑रुणस॒वो रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑-स्यान्नस्या॒भि षि॑ञ्च॒त्यन्न॑-स्यान्न॒स्या-व॑रुद्ध्यै पु॒रस्ता᳚त् प्र॒त्यञ्च॑म॒भि षि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒ची-न॒मन्न॑म॒द्यते॑ शीर्.ष॒तो॑ऽभि षि॑ञ्चति शीर्.ष॒तो ह्यन्न॑म॒द्यत॒ आ मुखा॑द॒न्वव॑स्रावयति - [ ]
▶ पदपाठः (Word-by-word)
अ॒स्मै॒ । स॒वान् । प्रेति॑ । य॒च्छ॒न्ति॒ । ते । ए॒न॒म् । सु॒व॒न्ते॒ । स॒वः । अ॒ग्निः । व॒रु॒ण॒स॒व इति॑ वरुण - स॒वः । रा॒ज॒सूय॒मिति॑ राज - सूय᳚म् । ब्र॒ह्म॒स॒व इति॑ ब्रह्म-स॒वः । चित्यः॑ । दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र - स॒वे । इति॑ । आ॒ह॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ-प्र॒सू॒तः॒ । ए॒व । ए॒न॒म् । ब्रह्म॑णा । दे॒वता॑भिः । अ॒भीति॑ । सि॒ञ्च॒ति॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । अ॒भीति॑ । सि॒ञ्च॒ति॒ । अन्न॑स्यान्न॒स्येत्यन्न॑स्य - अ॒न्न॒स्य॒ । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । पु॒रस्ता᳚त् । प्र॒त्यञ्च᳚म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । पु॒रस्ता᳚त् । हि । प्र॒ती॒चीन᳚म् । अन्न᳚म् । अ॒द्यते᳚ । शी॒र्.॒ष॒तः । अ॒भीति॑ । सि॒ञ्च॒ति॒ । शी॒र्.॒ष॒तः । हि । अन्न᳚म् । अ॒द्यते᳚ । एति॑ । मुखा᳚त् । अ॒न्वव॑स्रावय॒तीत्य॑नु - अव॑स्रावयति ।
पदसंख्या: 50
TS 5.6.3.3 TS 5.6.3.3
मुख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते᳚स्त्वा॒ साम्रा᳚ज्येना॒भिषि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ साम्रा᳚ज्येना॒भि षि॑ञ्चा॒-मीत्या॑हेन्द्रि॒यमे॒वास्मि॑-न्नु॒परि॑ष्टाद् दधात्ये॒ त - [ ]
▶ पदपाठः (Word-by-word)
मु॒ख॒तः । ए॒व । अ॒स्मै॒ । अ॒न्नाद्य॒मित्य॑न्न -अद्य᳚म् । द॒धा॒ति॒ । अ॒ग्नेः । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । स॒वः । तेन॑ । ए॒व । ए॒न॒म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । बृह॒स्पतेः᳚ । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां-रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑णा । ए॒व । ए॒न॒म् । अ॒भीति॑ । सि॒ञ्च॒ति॒ । इन्द्र॑स्य । त्वा॒ । साम्रा᳚ज्ये॒नेति॒ सां - रा॒ज्ये॒न॒ । अ॒भीति॑ । सि॒ञ्चा॒मि॒ । इति॑ । आ॒ह॒ । इ॒न्द्रि॒यम् । ए॒व । अ॒स्मि॒न्न् । उ॒परि॑ष्टात् । द॒धा॒ति॒ । ए॒तत् ।
पदसंख्या: 50
TS 5.6.3.4 TS 5.6.3.4
-द्वै रा॑ज॒सूय॑स्य रू॒पं ॅय ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ यश्चा᳚ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं ॅवी॒र्यं॑ परा॑ऽपत॒त् तद्दे॒वाः सौ᳚त्राम॒ण्या सम॑भरन्थ् सू॒यते॒ वा ए॒ष यो᳚ऽग्निं चि॑नु॒ते᳚ऽग्निं चि॒त्वा सौ᳚त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यꣳ॑ स॒भृंत्या॒ऽऽ*त्मन् ध॑त्ते ॥
▶ पदपाठः (Word-by-word)
वै । रा॒ज॒सूय॒स्येति॑ राज - सूय॑स्य । रू॒पम् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । उ॒भौ । ए॒व । लो॒कौ । अ॒भीति॑ । ज॒य॒ति॒ । यः । च॒ । रा॒ज॒सूये॒नेति॑ राज - सूये॑न । ई॒जा॒नस्य॑ । यः । च॒ । अ॒ग्नि॒चित॒ इत्य॑ग्नि - चितः॑ । इन्द्र॑स्य । सु॒षु॒वा॒णस्य॑ । द॒श॒धेति॑ दश - धा । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । परेति॑ । अ॒प॒त॒त् । तत् । दे॒वाः । सौ॒त्रा॒म॒ण्या । समिति॑ । अ॒भ॒र॒न्न् । सू॒यते᳚ । वै । ए॒षः । यः । अ॒ग्निम् । चि॒नु॒ते । अ॒ग्निम् । चि॒त्वा । सौ॒त्रा॒म॒ण्या । य॒जे॒त॒ । इ॒न्द्रि॒यम् । ए॒व । वी॒र्य᳚म् । स॒भृंत्येति॑ सं - भृत्य॑ । आ॒त्मन्न् । ध॒त्ते॒ ॥
पदसंख्या: 48

अनुवाकः 4 (5 पञ्चाशत्)

TS 5.6.4.1 TS 5.6.4.1
स॒जूरब्दोऽया॑वभिः स॒जूरु॒षा अरु॑णीभिः स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दꣳसो॑भिः स॒जूर॒ग्निर्वै᳚श्वान॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑ संॅवथ्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा अरु॑णी॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संॅवथ्स॒रो᳚ऽग्निर्वै᳚श्वान॒रः प॒शव॒ इडा॑ प॒शवो॑ घृ॒तꣳ सं॑ॅवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते संॅवथ्स॒रेणै॒वास्मै॑ प॒शून् प्रज॑नयति दर्भस्त॒म्बे जु॑होति॒ य - [ ]
▶ पदपाठः (Word-by-word)
स॒जूरिति॑ स - जूः । अब्दः॑ । अया॑वभि॒रित्यया॑व - भिः॒ । स॒जूरिति॑ स - जूः । उ॒षाः । अरु॑णीभिः । स॒जूरिति॑ स - जूः । सूर्यः॑ । एत॑शेन । स॒जोषा॒विति॑ स - जोषौ᳚ । अ॒श्विना᳚ । दꣳसो॑भि॒रिति॒ दꣳसः॑ - भिः॒ । स॒जूरिति॑ स-जूः । अ॒ग्निः । वै॒श्वा॒न॒रः । इडा॑भिः । घृ॒तेन॑ । स्वाहा᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । वै । अब्दः॑ । मासाः᳚ । अया॑वाः । उ॒षाः । अरु॑णी । सूर्यः॑ । एत॑शः । इ॒मे इति॑ । अ॒श्विना᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । वै॒श्वा॒न॒रः । प॒शवः॑ । इडा᳚ । प॒शवः॑ । घृ॒तम् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । प॒शवः॑ । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । सं॒ॅव॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् । प्रेति॑ । ज॒न॒य॒ति॒ । द॒र्भ॒स्त॒बं इति॑ दर्भ - स्त॒बें । जु॒हो॒ति॒ । यत् ।
पदसंख्या: 50
TS 5.6.4.2 TS 5.6.4.2
-द्वा अ॒स्या अ॒मृतं॒ ॅयद्-वी॒र्यं॑ तद्-द॒र्भास्तस्मि॑न् जुहोति॒ प्रैव जा॑यते ऽन्ना॒दो भ॑वति॒ यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता᳚द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः पु॒रस्ता॒त् प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं ॅवेदाऽऽ*पो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒थ् स प्र॒जाप॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒थ् सः - [ ]
▶ पदपाठः (Word-by-word)
वै । अ॒स्याः । अ॒मृत᳚म् । यत् । वी॒र्य᳚म् । तत् । द॒र्भाः । तस्मिन्न्॑ । जु॒हो॒ति॒ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । भ॒व॒ति॒ । यस्य॑ । ए॒वम् । जुह्व॑ति । ए॒ताः । वै । दे॒वताः᳚ । अ॒ग्नेः । पु॒रस्ता᳚द्भागा॒ इति॑ पु॒रस्ता᳚त् - भा॒गाः॒ । ताः । ए॒व । प्री॒णा॒ति॒ । अथो॒ इति॑ । चक्षुः॑ । ए॒व । अ॒ग्नेः । पु॒रस्ता᳚त् । प्रतीति॑ । द॒धा॒ति॒ । अन॑न्धः । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । आपः॑ । वै । इ॒दम् । अग्रे᳚ । स॒लि॒लम् । आ॒सी॒त् । सः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । पु॒ष्क॒र॒प॒र्ण इति॑ पुष्कर - प॒र्णे । वातः॑ । भू॒तः । अ॒ले॒ला॒य॒त् । सः ।
पदसंख्या: 50
TS 5.6.4.3 TS 5.6.4.3
प्र॑ति॒ष्ठां नाऽवि॑न्दत॒ स ए॒तद॒पां कु॒लाय॑मपश्य॒त् तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒त् ततो॒ वै स प्रत्य॑तिष्ठ॒द्यां पु॒रस्ता॑दु॒पा-द॑धा॒त् तच्छिरो॑ ऽभव॒थ् सा प्राची॒ दिग्यां द॑क्षिण॒त उ॒पाद॑धा॒थ् स दक्षि॑णः प॒क्षो॑ऽभव॒थ् सा द॑क्षि॒णा दिग्यां प॒श्चा-दु॒पाद॑धा॒त् तत् पुच्छ॑मभव॒थ् सा प्र॒तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धा॒थ् - [ ]
▶ पदपाठः (Word-by-word)
प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । न । अ॒वि॒न्द॒त॒ । सः । ए॒तत् । अ॒पाम् । कु॒लाय᳚म् । अ॒प॒श्य॒त् । तस्मिन्न्॑ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । तत् । इ॒यम् । अ॒भ॒व॒त् । ततः॑ । वै । सः । प्रतीति॑ । अ॒ति॒ष्ठ॒त् । याम् । पु॒रस्ता᳚त् । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । तत् । शिरः॑ । अ॒भ॒व॒त् । सा । प्राची᳚ । दिक् । याम् । द॒क्षि॒ण॒तः । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । सः । दक्षि॑णः । प॒क्षः । अ॒भ॒व॒त् । सा । द॒क्षि॒णा । दिक् । याम् । प॒श्चात् । उ॒पाद॑धा॒दित्यु॑प-अद॑धात् । तत् । पुच्छ᳚म् । अ॒भ॒व॒त् । सा । प्र॒तीची᳚ । दिक् । याम् । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् ।
पदसंख्या: 50
TS 5.6.4.4 TS 5.6.4.4
स उत्त॑रः प॒क्षो॑ऽभव॒थ् सोदी॑ची॒ दिग्यामु॒परि॑ष्टा-दु॒पाद॑धा॒त् तत् पृ॒ष्ठम॑भव॒थ् सोर्द्ध्वा दिगि॒यं ॅवा अ॒ग्निः पञ्चे᳚ष्टक॒-स्तस्मा॒द्-यद॒स्यां खन॑न्त्य॒भीष्ट॑कां तृ॒न्दन्त्य॒भि शर्क॑राꣳ॒॒ सर्वा॒ वा इ॒यं ॅवयो᳚भ्यो॒ नक्तं॑ दृ॒शे दी᳚प्यते॒ तस्मा॑दि॒मां ॅवयाꣳ॑सि॒ नक्तं॒ नाद्ध्या॑सते॒ य ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒ते प्रत्ये॒व - [ ]
▶ पदपाठः (Word-by-word)
सः । उत्त॑र॒ इत्युत् - त॒रः॒ । प॒क्षः । अ॒भ॒व॒त् । सा । उदी॑ची । दिक् । याम् । उ॒परि॑ष्टात् । उ॒पाद॑धा॒दित्यु॑प - अद॑धात् । तत् । पृ॒ष्ठम् । अ॒भ॒व॒त् । सा । ऊ॒द्‌र्ध्वा । दिक् । इ॒यम् । वै । अ॒ग्निः । पञ्चे᳚ष्टक॒ इति॒ पञ्च॑-इ॒ष्ट॒कः॒ । तस्मा᳚त् । यत् । अ॒स्याम् । खन॑न्ति । अ॒भीति॑ । इष्ट॑काम् । तृ॒न्दन्ति॑ । अ॒भीति॑ । शर्क॑राम् । सर्वा᳚ । वै । इ॒यम् । वयो᳚भ्य॒ इति॒ वयः॑ - भ्यः॒ । नक्त᳚म् । दृ॒शे । दी॒प्य॒ते॒ । तस्मा᳚त् । इ॒माम् । वयाꣳ॑सि । नक्त᳚म् । न । अधीति॑ । आ॒स॒ते॒ । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । प्रतीति॑ । ए॒व ।
पदसंख्या: 50
TS 5.6.4.5 TS 5.6.4.5
ति॑ष्ठत्य॒भि दिशो॑ जयत्याग्ने॒यो वै ब्रा᳚ह्म॒णस्तस्मा᳚द्-ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्वर्द्धु॑कꣳ॒॒ स्वामे॒व तद्-दिश॒मन्वे᳚त्य॒पां ॅवा अ॒ग्निः कु॒लायं॒ तस्मा॒दापो॒ऽग्निꣳ हारु॑काः॒ स्वामे॒व तद्-योनिं॒ प्रवि॑शन्ति ॥
▶ पदपाठः (Word-by-word)
ति॒ष्ठ॒ति॒ । अ॒भीति॑ । दिशः॑ । ज॒य॒ति॒ । आ॒ग्ने॒यः । वै । ब्रा॒ह्म॒णः । तस्मा᳚त् । ब्रा॒ह्म॒णाय॑ । सर्वा॑सु । दि॒क्षु । अद्‌र्धु॑कम् । स्वाम् । ए॒व । तत् । दिश᳚म् । अन्विति॑ । ए॒ति॒ । अ॒पाम् । वै । अ॒ग्निः । कु॒लाय᳚म् । तस्मा᳚त् । आपः॑ । अ॒ग्निम् । हारु॑काः । स्वाम् । ए॒व । तत् । योनि᳚म् । प्रेति॑ । वि॒श॒न्ति॒ ॥
पदसंख्या: 32

अनुवाकः 5 (3 पञ्चाशत्)

TS 5.6.5.1 TS 5.6.5.1
सं॒ॅव॒थ्स॒रमुख्यं॑ भृ॒त्वा द्वि॒तीये॑ संॅवथ्स॒र आ᳚ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पेदै॒न्द्र-मेका॑दशकपालं ॅवैश्वदे॒वं द्वाद॑शकपालं बार्.हस्प॒त्यं च॒रुं ॅवै᳚ष्ण॒वं त्रि॑कपा॒लं तृ॒तीये॑ संॅवथ्स॒रे॑ऽभि॒जिता॑ यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या᳚ग्ने॒यं गा॑य॒त्रं प्रा॑तस्सव॒नं प्रा॑तस्सव॒नमे॒व तेन॑ दाधार गाय॒त्रीं छन्दो॒ यदेका॑दशकपालो॒ भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भं॒ माद्ध्य॑न्दिनꣳ॒॒ सव॑नं॒ माद्ध्य॑न्दिनमे॒व सव॑नं॒ तेन॑ दाधार त्रि॒ष्टुभं॒ - [ ]
▶ पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उख्य᳚म् । भृ॒त्वा । द्वि॒तीये᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । आ॒ग्ने॒यम् । अ॒ष्टाक॑पाल॒मित्य॒ष्टा - क॒पा॒ल॒म् । निरिति॑ । व॒पे॒त् । ऐ॒न्द्रम् । एका॑दशकपाल॒मित्येका॑दश - क॒पा॒ल॒म् । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । द्वाद॑शकपाल॒मिति॒ द्वाद॑श - क॒पा॒ल॒म् । बा॒र्.॒ह॒स्प॒त्यम् । च॒रुम् । वै॒ष्ण॒वम् । त्रि॒क॒पा॒लमिति॑ त्रि - क॒पा॒लम् । तृ॒तीये᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । अ॒भि॒जितेत्य॑भि - जिता᳚ । य॒जे॒त॒ । यत् । अ॒ष्टाक॑पाल॒ इत्य॒ष्टा - क॒पा॒लः॒ । भव॑ति । अ॒ष्टाक्ष॒रेत्य॒ष्टा - अ॒क्ष॒रा॒ । गा॒य॒त्री । आ॒ग्ने॒यम् । गा॒य॒त्रम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः - स॒व॒नम् । प्रा॒त॒स्स॒व॒नमिति॑ प्रातः-स॒व॒नम् । ए॒व । तेन॑ । दा॒धा॒र॒ । गा॒य॒त्रीम् । छन्दः॑ । यत् । एका॑दशकपाल॒ इत्येका॑दश - क॒पा॒लः॒ । भव॑ति । एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । ऐ॒न्द्रम् । त्रैष्टु॑भम् । माद्ध्य॑न्दिनम् । सव॑नम् । माद्ध्य॑न्दिनम् । ए॒व । सव॑नम् । तेन॑ । दा॒धा॒र॒ । त्रि॒ष्टुभ᳚म् ।
पदसंख्या: 50
TS 5.6.5.2 TS 5.6.5.2
छन्दो॒ यद्-द्वाद॑शकपालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं जाग॑तं तृतीयसव॒नं तृ॑तीयसव॒नमे॒व तेन॑ दाधार॒ जग॑तीं॒ छन्दो॒ यद्-बा॑र्.हस्प॒त्यश्च॒रुर्भव॑ति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒ यद्-वै᳚ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒ज्ञ्मे॒व तेन॑ दाधार॒ यत् तृ॒तीये॑ संॅवथ्स॒रे॑ऽभि॒जिता॒ यज॑ते॒ऽभिजि॑त्यै॒ यथ् सं॑ॅवथ्स॒रमुख्यं॑ बि॒भर्ती॒ममे॒व - [ ]
▶ पदपाठः (Word-by-word)
छन्दः॑ । यत् । द्वाद॑शकपाल॒ इति॒ द्वाद॑श - क॒पा॒लः॒ । भव॑ति । द्वाद॑शाक्ष॒रेति॒ द्वाद॑शा-अ॒क्ष॒रा॒ । जग॑ती । वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । जाग॑तम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । ए॒व । तेन॑ । दा॒धा॒र॒ । जग॑तीम् । छन्दः॑ । यत् । बा॒र्.॒ह॒स्प॒त्यः । च॒रुः । भव॑ति । ब्रह्म॑ । वै । दे॒वाना᳚म् । बृह॒स्पतिः॑ । ब्रह्म॑ । ए॒व । तेन॑ । दा॒धा॒र॒ । यत् । वै॒ष्ण॒वः । त्रि॒क॒पा॒ल इति॑ त्रि - क॒पा॒लः । भव॑ति । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञ्म् । ए॒व । तेन॑ । दा॒धा॒र॒ । यत् । तृ॒तीये᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । अ॒भि॒जितेत्य॑भि - जिता᳚ । यज॑ते । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । यत् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । उख्य᳚म् । बि॒भर्ति॑ । इ॒मम् । ए॒व ।
पदसंख्या: 50
TS 5.6.5.3 TS 5.6.5.3
तेन॑ लो॒कꣳ स्पृ॑णोति॒ यद् द्वि॒तीये॑ संॅवथ्स॒रे᳚ऽग्निं चि॑नु॒ते᳚ ऽन्तरि॑क्षमे॒व तेन॑ स्पृणोति॒ यत् तृ॒तीये॑ संॅवथ्स॒रे यज॑ते॒ऽमुमे॒व तेन॑ लो॒कꣳ स्पृ॑णोत्ये॒तं ॅवै पर॑ आट्णा॒रः क॒क्षीवाꣳ॑ औशि॒जो वी॒तह॑व्यः श्राय॒सस्त्र॒सद॑स्युः पौरुकु॒थ्स्यः प्र॒जाका॑मा अचिन्वत॒ ततो॒ वै ते स॒हस्रꣳ॑ सहस्रं पु॒त्रान॑विन्दन्त॒ प्रथ॑ते प्र॒जया॑ प॒शुभि॒स्तां मात्रा॑माप्नोति॒ यां तेऽग॑च्छ॒न्॒ य ए॒वं ( ) ॅवि॒द्वाने॒तम॒ग्निं चि॑नु॒ते ॥
▶ पदपाठः (Word-by-word)
तेन॑ । लो॒कम् । स्पृ॒णो॒ति॒ । यत् । द्वि॒तीये᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । अ॒ग्निम् । चि॒नु॒ते । अ॒न्तरि॑क्षम् । ए॒व । तेन॑ । स्पृ॒णो॒ति॒ । यत् । तृ॒तीये᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । यज॑ते । अ॒मुम् । ए॒व । तेन॑ । लो॒कम् । स्पृ॒णो॒ति॒ । ए॒तम् । वै । परः॑ । आ॒ट्णा॒रः । क॒क्षीवा॒निति॑ क॒क्षी - वा॒न् । औ॒शि॒जः । वी॒तह॑व्य॒ इति॑ वी॒त - ह॒व्यः॒ । श्रा॒य॒सः । त्र॒सद॑स्युः । पौ॒रु॒कु॒थ्स्य इति॑ पौरु - कु॒थ्स्यः । प्र॒जाका॑मा॒ इति॑ प्र॒जा-का॒माः॒ । अ॒चि॒न्व॒त॒ । ततः॑ । वै । ते । स॒हस्रꣳ॑सहस्र॒मिति॑ स॒हस्रं᳚ - स॒ह॒स्र॒म् । पु॒त्रान् । अ॒वि॒न्द॒न्त॒ । प्रथ॑ते । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । ताम् । मात्रा᳚म् । आ॒प्नो॒ति॒ । याम् । ते॒ । अग॑च्छन्न् । यः । ए॒वम् ( ) । वि॒द्वान् । ए॒तम् । अ॒ग्निम् । चि॒नु॒ते ॥
पदसंख्या: 54

अनुवाकः 6 (4 पञ्चाशत्)

TS 5.6.6.1 TS 5.6.6.1
प्र॒जाप॑तिर॒ग्निम॑चिनुत॒ स क्षु॒रप॑विर्भू॒त्वाऽति॑ष्ठ॒त् तं दे॒वा बिभ्य॑तो॒ नोपा॑ऽऽ*य॒न् ते छन्दो॑भिरा॒त्मानं॑ छादयि॒त्वोपा॑ऽऽ*य॒न् तच्छन्द॑सां छन्द॒स्त्वं ब्रह्म॒ वै छन्दाꣳ॑सि॒ ब्रह्म॑ण ए॒तद्-रू॒पं ॅयत् कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒ छन्दो॑भिरे॒वाऽऽ*त्मानं॑ छादयि॒त्वाऽग्निमुप॑ चरत्या॒त्मनोऽहिꣳ॑सायै देवनि॒धिर्वा ए॒ष नि धी॑यते॒ यद॒ग्नि - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । सः । क्षु॒रप॑वि॒रिति॑ क्षु॒र - प॒विः॒ । भू॒त्वा । अ॒ति॒ष्ठ॒त् । तम् । दे॒वाः । बिभ्य॑तः । न । उपेति॑ । आ॒य॒न्न् । ते । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । आ॒त्मान᳚म् । छा॒द॒यि॒त्वा । उपेति॑ । आ॒य॒न्न् । तत् । छन्द॑साम् । छ॒न्द॒स्त्वमिति॑ छन्दः - त्वम् । ब्रह्म॑ । वै । छन्दाꣳ॑सि । ब्रह्म॑णः । ए॒तत् । रू॒पम् । यत् । कृ॒ष्णा॒जि॒नमिति॑ कृष्ण - अ॒जि॒नम् । कार्ष्णी॒ इति॑ । उ॒पा॒नहौ᳚ । उपेति॑ । मु॒ञ्च॒ते॒ । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । ए॒व । आ॒त्मान᳚म् । छा॒द॒यि॒त्वा । अ॒ग्निम् । उपेति॑ । च॒र॒ति॒ । आ॒त्मनः॑ । अहिꣳ॑सायै । दे॒व॒नि॒धिरिति॑ देव - नि॒धिः । वै । ए॒षः । नीति॑ । धी॒य॒ते॒ । यत् । अ॒ग्निः ।
पदसंख्या: 50
TS 5.6.6.2 TS 5.6.6.2
-र॒न्ये वा॒ वै नि॒धिमगु॑प्तं ॅवि॒न्दन्ति॒ न वा॒ प्रति॒ प्र जा॑नात्यु॒खामा क्रा॑मत्या॒त्मान॑मे॒वाधि॒पां कु॑रुते॒ गुप्त्या॒ अथो॒ खल्वा॑हु॒र्नाऽऽक्रम्येति॑ नैर्.ऋ॒त्यु॑खा यदा॒क्रामे॒न्निर्.ऋ॑त्या आ॒त्मान॒मपि॑ दद्ध्या॒त् तस्मा॒न्नाऽऽक्रम्या॑ पुरुषशी॒र्॒.षमुप॑ दधाति॒ गुप्त्या॒ अथो॒ यथा᳚ ब्रू॒यादे॒तन्मे॑ गोपा॒येति॑ ता॒दृगे॒व तत् - [ ]
▶ पदपाठः (Word-by-word)
अ॒न्ये । वा॒ । वै । नि॒धिमिति॑ नि - धिम् । अगु॑प्तम् । वि॒न्दन्ति॑ । न । वा॒ । प्रति॑ । प्रेति॑ । जा॒ना॒ति॒ । उ॒खाम् । एति॑ । क्रा॒म॒ति॒ । आ॒त्मान᳚म् । ए॒व । अ॒धि॒पामित्य॑धि - पाम् । कु॒रु॒ते॒ । गुप्त्यै᳚ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । न । आ॒क्रम्येत्या᳚ - क्रम्या᳚ । इति॑ । नै॒र्.॒ऋ॒तीति॑ नैः-ऋ॒ती । उ॒खा । यत् । आ॒क्रामे॒दित्या᳚ - क्रामे᳚त् । निर्.ऋ॑त्या॒ इति॒ निः-ऋ॒त्यै॒ । आ॒त्मान᳚म् । अपीति॑ । द॒द्ध्या॒त् । तस्मा᳚त् । न । आ॒क्रम्येत्या᳚-क्रम्या᳚ । पु॒रु॒ष॒शी॒र्॒.षमिति॑ पुरुष - शी॒र्॒.षम् । उपेति॑ । द॒धा॒ति॒ । गुप्त्यै᳚ । अथो॒ इति॑ । यथा᳚ । ब्रू॒यात् । ए॒तत् । मे॒ । गो॒पा॒य॒ । इति॑ । ता॒दृक् । ए॒व । तत् ।
पदसंख्या: 50
TS 5.6.6.3 TS 5.6.6.3
प्र॒जाप॑ति॒र्वा अथ॑र्वा॒ ऽग्निरे॒व द॒द्ध्यङ्ङा॑थर्व॒णस्तस्येष्ट॑का अ॒स्थान्ये॒तꣳ ह॒ वाव तद्-ऋषि॑र॒भ्यनू॑वा॒चेन्द्रो॑ दधी॒चो अ॒स्थभि॒रिति॒ यदिष्ट॑काभिर॒ग्निं चि॒नोति॒ सात्मा॑नमे॒वाग्निं चि॑नुते॒ सात्मा॒मुष्मि॑न् ॅलो॒के भ॑वति॒ य ए॒वं ॅवेद॒ शरी॑रं॒ ॅवा ए॒तद॒ग्नेर्यच्चित्य॑ आ॒त्मा वै᳚श्वान॒रो यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व सꣳ॒॒स्कृत्या॒ - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । अथ॑र्वा । अ॒ग्निः । ए॒व । द॒द्ध्यङ् । आ॒थ॒र्व॒णः । तस्य॑ । इष्ट॑काः । अ॒स्थानि॑ । ए॒तम् । ह॒ । वाव । तत् । ऋषिः॑ । अ॒भ्यनू॑वा॒चेत्य॑भि - अनू॑वाच । इन्द्रः॑ । द॒धी॒चः । अ॒स्थभि॒रित्य॒स्थ - भिः॒ । इति॑ । यत् । इष्ट॑काभिः । अ॒ग्निम् । चि॒नोति॑ । सात्मा॑न॒मिति॒ स - आ॒त्मा॒न॒म् । ए॒व । अ॒ग्निम् । चि॒नु॒ते॒ । सात्मेति॒ स - आ॒त्मा॒ । अ॒मुष्मिन्न्॑ । लो॒के । भ॒व॒ति॒ । यः । ए॒वम् । वेद॑ । शरी॑रम् । वै । ए॒तत् । अ॒ग्नेः । यत् । चित्यः॑ । आ॒त्मा । वै॒श्वा॒न॒रः । यत् । चि॒ते । वै॒श्वा॒न॒रम् । जु॒होति॑ । शरी॑रम् । ए॒व । सꣳ॒॒स्कृत्य॑ ।
पदसंख्या: 50
TS 5.6.6.4 TS 5.6.6.4
-भ्यारो॑हति॒ शरी॑रं॒ ॅवा ए॒तद्-यज॑मानः॒ सꣳ स्कु॑रुते॒ यद॒ग्निं चि॑नु॒ते यच्चि॒ते वै᳚श्वान॒रं जु॒होति॒ शरी॑रमे॒व सꣳ॒॒स्कृत्या॒ ऽऽ*त्मना॒ऽभ्यारो॑हति॒ तस्मा॒त् तस्य॒ नाव॑ द्यन्ति॒ जीव॑न्ने॒व दे॒वानप्ये॑ति वैश्वान॒र्यर्चा पुरी॑ष॒मुप॑ दधाती॒यं ॅवा अ॒ग्निर्वै᳚श्वान॒रस्तस्यै॒षा चिति॒र्यत् पुरी॑षम॒ग्निमे॒व वै᳚श्वान॒रं चि॑नुत ए॒षा वा अ॒ग्नेः ( ) प्रि॒या त॒नूर्यद्-वै᳚श्वान॒रः प्रि॒यामे॒वास्य॑ त॒नुव॒मव॑ रुन्धे ॥
▶ पदपाठः (Word-by-word)
अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । शरी॑रम् । वै । ए॒तत् । यज॑मानः । समिति॑ । कु॒रु॒ते॒ । यत् । अ॒ग्निम् । चि॒नु॒ते । यत् । चि॒ते । वै॒श्वा॒न॒रम् । जु॒होति॑ । शरी॑रम् । ए॒व । सꣳ॒॒स्कृत्य॑ । आ॒त्मना᳚ । अ॒भ्यारो॑ह॒तीत्य॑भि -आरो॑हति । तस्मा᳚त् । तस्य॑ । न । अवेति॑ । द्य॒न्ति॒ । जीवन्न्॑ । ए॒व । दे॒वान् । अपीति॑ । ए॒ति॒ । वै॒श्वा॒न॒र्या । ऋ॒चा । पुरी॑षम् । उपेति॑ । द॒धा॒ति॒ । इ॒यम् । वै । अ॒ग्निः । वै॒श्वा॒न॒रः । तस्य॑ । ए॒षा । चितिः॑ । यत् । पुरी॑षम् । अ॒ग्निम् । ए॒व । वै॒श्वा॒न॒रम् । चि॒नु॒ते॒ । ए॒षा । वै । अ॒ग्नेः ( ) । प्रि॒या । त॒नूः । यत् । वै॒श्वा॒न॒रः । प्रि॒याम् । ए॒व । अ॒स्य॒ । त॒नुव᳚म् । अवेति॑ । रु॒न्धे॒ ॥
पदसंख्या: 60

अनुवाकः 7 (3 पञ्चाशत्)

TS 5.6.7.1 TS 5.6.7.1
अ॒ग्नेर्वै दी॒क्षया॑ दे॒वा वि॒राज॑माप्नुवन् ति॒स्रो रात्री᳚र्दीक्षि॒तः स्या᳚त् त्रि॒पदा॑ वि॒राड् वि॒राज॑माप्नोति॒ षड्-रात्री᳚र्दीक्षि॒तः स्या॒थ् षड् वा ऋ॒तवः॑ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ दश॒ रात्री᳚र्दीक्षि॒तः स्या॒द्-दशा᳚क्षरा वि॒राड् वि॒राज॑माप्नोति॒ द्वाद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ त्रयो॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त् त्रयो॑दश॒ - [ ]
▶ पदपाठः (Word-by-word)
अ॒ग्नेः । वै । दी॒क्षया᳚ । दे॒वाः । वि॒राज॒मिति॑ वि-राज᳚म् । आ॒प्नु॒व॒न्न् । ति॒स्रः । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । त्रि॒पदेति॑ त्रि - पदा᳚ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । षट् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । दश॑ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । द्वाद॑श । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । त्रयो॑द॒शेति॒ त्रयः॑ - द॒श॒ ।
पदसंख्या: 50
TS 5.6.7.2 TS 5.6.7.2
मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ पञ्च॑दश॒ रात्री᳚र्दीक्षि॒तः स्या॒त् पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति स॒प्तद॑श॒ रात्री᳚र्दीक्षि॒तः स्या॒द् द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॒ स सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति॒ चतु॑र्विꣳशतिꣳ॒॒ रात्री᳚र्दीक्षि॒तः स्या॒-च्चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति त्रिꣳ॒॒शतꣳ॒॒ रात्री᳚र्दीक्षि॒तः स्या᳚त् - [ ]
▶ पदपाठः (Word-by-word)
मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्‌र्ध॒मा॒सस्येत्य॒॑द्‌र्ध - मा॒सस्य॑ । रात्र॑यः । अ॒द्‌र्ध॒मा॒स॒श इत्य॒॑द्‌र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । स॒प्तद॒शेति॑ स॒प्त - द॒श॒ । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । सः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । चतु॑र्विꣳशति॒मिति॒ चतुः॑ - विꣳ॒॒श॒ति॒म् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध-मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । त्रिꣳ॒॒शत᳚म् । रात्रीः᳚ । दी॒क्षि॒तः । स्या॒त् ।
पदसंख्या: 50
TS 5.6.7.3 TS 5.6.7.3
त्रिꣳ॒॒शद॑क्षरा वि॒राड् वि॒राज॑माप्नोति॒ मासं॑ दीक्षि॒तः स्या॒द्-यो मासः॒ स सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रो वि॒राड् वि॒राज॑माप्नोति च॒तुरो॑ मा॒सो दी᳚क्षि॒तः स्या᳚च्च॒तुरो॒ वा ए॒तं मा॒सो वस॑वोऽबिभरु॒स्ते पृ॑थि॒वीमाऽज॑यन् गाय॒त्रीं छन्दो॒ऽष्टौ रु॒द्रास्ते᳚-ऽन्तरि॑क्ष॒माऽज॑यन् त्रि॒ष्टुभं॒ छन्दो॒ द्वाद॑शा-ऽऽदि॒त्यास्ते दिव॒माऽज॑य॒न् जग॑तीं॒ छन्द॒स्ततो॒ वै ते ( ) व्या॒वृत॑-मगच्छ॒ञ्छ्रैष्ठ्यं॑ दे॒वानां॒ तस्मा॒द् द्वाद॑श मा॒सो भृ॒त्वाऽग्निं चि॑न्वीत॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒रो᳚ -ऽग्निश्चित्य॒स्तस्या॑-होरा॒त्राणीष्ट॑का आ॒प्तेष्ट॑कमेनं चिनु॒तेऽथो᳚ व्या॒वृत॑मे॒व ग॑च्छति॒ श्रैष्ठ्यꣳ॑ समा॒नानां᳚ ॥
▶ पदपाठः (Word-by-word)
त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । मास᳚म् । दी॒क्षि॒तः । स्या॒त् । यः । मासः॑ । सः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वि॒राडिति॑ वि - राट् । वि॒राज॒मिति॑ वि - राज᳚म् । आ॒प्नो॒ति॒ । च॒तुरः॑ । मा॒सः । दी॒क्षि॒तः । स्या॒त् । च॒तुरः॑ । वै । ए॒तम् । मा॒सः । वस॑वः । अ॒बि॒भ॒रुः॒ । ते । पृ॒थि॒वीम् । एति॑ । अ॒ज॒य॒न्न् । गा॒य॒त्रीम् । छन्दः॑ । अ॒ष्टौ । रु॒द्राः । ते । अ॒न्तरि॑क्षम् । एति॑ । अ॒ज॒य॒न्न् । त्रि॒ष्टुभ᳚म् । छन्दः॑ । द्वाद॑श । आ॒दि॒त्याः । ते । दिव᳚म् । एति॑ । अ॒ज॒य॒न्न् । जग॑तीम् । छन्दः॑ । ततः॑ । वै । ते ( ) । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒न्न् । श्रैष्ठ्य᳚म् । दे॒वाना᳚म् । तस्मा᳚त् । द्वाद॑श । मा॒सः । भृ॒त्वा । अ॒ग्निम् । चि॒न्वी॒त॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । अ॒ग्निः । चित्यः॑ । तस्य॑ । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । इष्ट॑काः । आ॒प्तेष्ट॑क॒मित्या॒प्त-इ॒ष्ट॒क॒म् । ए॒न॒म् । चि॒नु॒ते॒ । अथो॒ इति॑ । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । ए॒व । ग॒च्छ॒ति॒ । श्रैष्ठ्य᳚म् । स॒मा॒नाना᳚म् ॥
पदसंख्या: 78

अनुवाकः 8 (6 पञ्चाशत्)

TS 5.6.8.1 TS 5.6.8.1
सु॒व॒र्गाय॒ वा ए॒ष लो॒काय॑ चीयते॒ यद॒ग्निस्तं ॅयन्नान्वा॒रोहे᳚थ् सुव॒र्गाल्लो॒काद्-यज॑मानो हीयेत पृथि॒वीमाऽक्र॑मिषं प्रा॒णो मा॒ मा हा॑सीद॒न्तरि॑क्ष॒माऽक्र॑मिषं प्र॒जा मा॒ मा हा॑सी॒द्-दिव॒माऽक्र॑मिषꣳ॒॒ सुव॑रग॒न्मेत्या॑है॒ष वा अ॒ग्नेर॑न्वारो॒हस्तेनै॒वैन॑-म॒न्वारो॑हति सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै॒ यत् प॒क्षस॑म्मितां मिनु॒यात् - [ ]
▶ पदपाठः (Word-by-word)
सु॒व॒र्गायेति॑ सुवः - गाय॑ । वै । ए॒षः । लो॒काय॑ । ची॒य॒ते॒ । यत् । अ॒ग्निः । तम् । यत् । न । अ॒न्वा॒रोहे॒दित्य॑नु - आ॒रोहे᳚त् । सु॒व॒र्गादिति॑ सुवः-गात् । लो॒कात् । यज॑मानः । ही॒ये॒त॒ । पृ॒थि॒वीम् । एति॑ । अ॒क्र॒मि॒ष॒म् । प्रा॒ण इति॑ प्र - अ॒नः । मा॒ । मा । हा॒सी॒त् । अ॒न्तरि॑क्षम् । एति॑ । अ॒क्र॒मि॒ष॒म् । प्र॒जेति॑ प्र - जा । मा॒ । मा । हा॒सी॒त् । दिव᳚म् । एति॑ । अ॒क्र॒मि॒ष॒म् । सुवः॑ । अ॒ग॒न्म॒ । इति॑ । आ॒ह॒ । ए॒षः । वै । अ॒ग्नेः । अ॒न्वा॒रो॒ह इत्य॑नु-आ॒रो॒हः । तेन॑ । ए॒व । ए॒न॒म् । अ॒न्वारो॑ह॒तीत्य॑नु - आरो॑हति । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । यत् । प॒क्षस॑म्मिता॒मिति॑ प॒क्ष - स॒म्मि॒ता॒म् । मि॒नु॒यात् ।
पदसंख्या: 50
TS 5.6.8.2 TS 5.6.8.2
कनी॑याꣳसं ॅयज्ञ्क्र॒तुमुपे॑या॒त् पापी॑यस्यस्या॒ ऽऽत्मनः॑ प्र॒जा स्या॒द्-वेदि॑सम्मितां मिनोति॒ ज्यायाꣳ॑समे॒व य॑ज्ञ्क्र॒तुमुपै॑ति॒ नास्या॒ऽऽ*त्मनः॒ पापी॑यसी प्र॒जा भ॑वति साह॒स्रं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नः स॒हस्र॑सम्मितो॒ वा अ॒यं ॅलो॒क इ॒ममे॒व लो॒कम॒भि ज॑यति॒ द्विषा॑हस्रं चिन्वीत द्वि॒तीयं॑ चिन्वा॒नो द्विषा॑हस्रं॒ ॅवा अ॒न्तरि॑क्ष-म॒न्तरि॑क्षमे॒वाभि ज॑यति॒ त्रिषा॑हस्रं चिन्वीत तृ॒तीयं॑ चिन्वा॒न - [ ]
▶ पदपाठः (Word-by-word)
कनी॑याꣳसम् । य॒ज्ञ्॒क्र॒तुमिति॑ यज्ञ् - क्र॒तुम् । उपेति॑ । इ॒या॒त् । पापी॑यसी । अ॒स्य॒ । आ॒त्मनः॑ । प्र॒जेति॑ प्र - जा । स्या॒त् । वेदि॑सम्मिता॒मिति॒ वेदि॑ - स॒म्मि॒ता॒म् । मि॒नो॒ति॒ । ज्यायाꣳ॑सम् । ए॒व । य॒ज्ञ्॒क्र॒तुमिति॑ यज्ञ् - क्र॒तुम् । उपेति॑ । ए॒ति॒ । न । अ॒स्य॒ । आ॒त्मनः॑ । पापी॑यसी । प्र॒जेति॑ प्र - जा । भ॒व॒ति॒ । सा॒ह॒स्रम् । चि॒न्वी॒त॒ । प्र॒थ॒मम् । चि॒न्वा॒नः । स॒हस्र॑सम्मित॒ इति॑ स॒हस्र॑ - स॒म्मि॒तः॒ । वै । अ॒यम् । लो॒कः । इ॒मम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । चि॒न्वी॒त॒ । द्वि॒तीय᳚म् । चि॒न्वा॒नः । द्विषा॑हस्र॒मिति॒ द्वि - सा॒ह॒स्र॒म् । वै । अ॒न्तरि॑क्षम् । अ॒न्तरि॑क्षम् । ए॒व । अ॒भीति॑ । ज॒य॒ति॒ । त्रिषा॑हस्र॒मिति॒ त्रि - सा॒ह॒स्र॒म् । चि॒न्वी॒त॒ । तृ॒तीय᳚म् । चि॒न्वा॒नः ।
पदसंख्या: 50
TS 5.6.8.3 TS 5.6.8.3
-स्त्रिषा॑हस्रो॒ वा अ॒सौ लो॒को॑ ऽमुमे॒व लो॒कम॒भि ज॑यति जानुद॒घ्नं चि॑न्वीत प्रथ॒मं चि॑न्वा॒नो गा॑यत्रि॒यैवेमं ॅलो॒कम॒भ्यारो॑हति नाभिद॒घ्नं चि॑न्वीत द्वि॒तीयं॑ चिन्वा॒नस्त्रि॒ष्टुभै॒वा-न्तरि॑क्ष-म॒भ्यारो॑हति ग्रीवद॒घ्नं चि॑न्वीत तृ॒तीयं॑ चिन्वा॒नो जग॑त्यै॒वामुन् ॅलो॒कम॒भ्यारो॑हति॒ नाग्निं चि॒त्वा रा॒मामुपे॑यादयो॒नौ रेतो॑ धास्या॒मीति॒ न द्वि॒तीयं॑ चि॒त्वाऽन्यस्य॒ स्त्रिय॒ - [ ]
▶ पदपाठः (Word-by-word)
त्रिषा॑हस्र॒ इति॒ त्रि - सा॒ह॒स्रः॒ । वै । अ॒सौ । लो॒कः । अ॒मुम् । ए॒व । लो॒कम् । अ॒भीति॑ । ज॒य॒ति॒ । जा॒नु॒द॒घ्नमिति॑ जानु - द॒घ्नम् । चि॒न्वी॒त॒ । प्र॒थ॒मम् । चि॒न्वा॒नः । गा॒य॒त्रि॒या । ए॒व । इ॒मम् । लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । ना॒भि॒द॒घ्नमिति॑ नाभि - द॒घ्नम् । चि॒न्वी॒त॒ । द्वि॒तीय᳚म् । चि॒न्वा॒नः । त्रि॒ष्टुभा᳚ । ए॒व । अ॒न्तरि॑क्षम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । ग्री॒व॒द॒घ्नमिति॑ ग्रीव - द॒घ्नम् । चि॒न्वी॒त॒ । तृ॒तीय᳚म् । चि॒न्वा॒नः । जग॑त्या । ए॒व । अ॒मुम् । लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । न । अ॒ग्निम् । चि॒त्वा । रा॒माम् । उपेति॑ । इ॒या॒त् । अ॒यो॒नौ । रेतः॑ । धा॒स्या॒मि॒ । इति॑ । न । द्वि॒तीय᳚म् । चि॒त्वा । अ॒न्यस्य॑ । स्त्रिय᳚म् ।
पदसंख्या: 50
TS 5.6.8.4 TS 5.6.8.4
-मुपे॑या॒न्न तृ॒तीयं॑ चि॒त्वा कां च॒नोपे॑या॒द्-रेतो॒ वा ए॒तन्नि ध॑त्ते॒ यद॒ग्निं चि॑नु॒ते यदु॑पे॒याद्-रेत॑सा॒ व्यृ॑द्ध्ये॒ताऽथो॒ खल्वा॑हुर प्रज॒स्यं तद्-यन्नोपे॒यादिति॒ यद्-रे॑त॒स्सिचा॑वुप॒दधा॑ति॒ ते ए॒व यज॑मानस्य॒ रेतो॑ बिभृत॒स्तस्मा॒-दुपे॑या॒द्-रेत॒सो-ऽस्क॑न्दाय॒ त्रीणि॒ वाव रेताꣳ॑सि पि॒ता पु॒त्रः पौत्रो॒ - [ ]
▶ पदपाठः (Word-by-word)
उपेति॑ । इ॒या॒त् । न । तृ॒तीय᳚म् । चि॒त्वा । काम् । च॒न । उपेति॑ । इ॒या॒त् । रेतः॑ । वै । ए॒तत् । नीति॑ । ध॒त्ते॒ । यत् । अ॒ग्निम् । चि॒नु॒ते । यत् । उ॒पे॒यादित्यु॑प - इ॒यात् । रेत॑सा । वीति॑ । ऋ॒द्ध्ये॒त॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒प्र॒ज॒स्यमित्य॑प्र-ज॒स्यम् । तत् । यत् । न । उ॒पे॒यादित्यु॑प - इ॒यात् । इति॑ । यत् । रे॒त॒स्सिचा॒विति॑ रेतः - सिचौ᳚ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ते इति॑ । ए॒व । यज॑मानस्य । रेतः॑ । बि॒भृ॒तः॒ । तस्मा᳚त् । उपेति॑ । इ॒या॒त् । रेत॑सः । अस्क॑न्दाय । त्रीणि॑ । वाव । रेताꣳ॑सि । पि॒ता । पु॒त्रः । पौत्रः॑ ।
पदसंख्या: 50
TS 5.6.8.5 TS 5.6.8.5
यद् द्वे रे॑त॒स्सिचा॑वुपद॒द्ध्याद्-रेतो᳚ऽस्य॒ विच्छि॑न्द्यात् ति॒स्र उप॑ दधाति॒ रेत॑सः॒ संत॑त्या इ॒यं ॅवाव प्र॑थ॒मा रे॑त॒स्सिग् वाग्वा इ॒यं तस्मा॒त् पश्य॑न्ती॒मां पश्य॑न्ति॒ वाचं॒ ॅवद॑न्तीम॒न्तरि॑क्षं द्वि॒तीया᳚ प्रा॒णो वा अ॒न्तरि॑क्षं॒ तस्मा॒न्नाऽन्तरि॑क्षं॒ पश्य॑न्ति॒ न प्रा॒णम॒सौ तृ॒तीया॒ चक्षु॒र्वा अ॒सौ तस्मा॒त् पश्य॑न्त्य॒मूं पश्य॑न्ति॒ चक्षु॒र्यजु॑षे॒मां चा॒ - [ ]
▶ पदपाठः (Word-by-word)
यत् । द्वे इति॑ । रे॒त॒स्सिचा॒विति॑ रेतः-सिचौ᳚ । उ॒प॒द॒द्ध्यादित्यु॑प-द॒ध्यात् । रेतः॑ । अ॒स्य॒ । वीति॑ । छि॒न्द्या॒त् । ति॒स्रः । उपेति॑ । द॒धा॒ति॒ । रेत॑सः । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । इ॒यम् । वाव । प्र॒थ॒मा । रे॒त॒स्सिगिति॑ रेतः - सिक् । वाक् । वै । इ॒यम् । तस्मा᳚त् । पश्य॑न्ति । इ॒माम् । पश्य॑न्ति । वाच᳚म् । वद॑न्तीम् । अ॒न्तरि॑क्षम् । द्वि॒तीया᳚ । प्रा॒ण इति॑ प्र - अ॒नः । वै । अ॒न्तरि॑क्षम् । तस्मा᳚त् । न । अ॒न्तरि॑क्षम् । पश्य॑न्ति । न । प्रा॒णमिति॑ प्र - अ॒नम् । अ॒सौ । तृ॒तीया᳚ । चक्षुः॑ । वै । अ॒सौ । तस्मा᳚त् । पश्य॑न्ति । अ॒मूम् । पश्य॑न्ति । चक्षुः॑ । यजु॑षा । इ॒माम् । च॒ ।
पदसंख्या: 50
TS 5.6.8.6 TS 5.6.8.6
-मूं चोप॑ दधाति॒ मन॑सा मद्ध्य॒मामे॒षां ॅलो॒कानां॒ क्लृप्त्या॒ अथो᳚ प्रा॒णाना॑मि॒ष्टो य॒ज्ञो भृगु॑भिराशी॒र्दा वसु॑भि॒स्तस्य॑ त इ॒ष्टस्य॑ वी॒तस्य॒ द्रवि॑णे॒ह भ॑क्षी॒येत्या॑ह स्तुतश॒स्त्रे ए॒वैतेन॑ दुहे पि॒ता मा॑त॒रिश्वाऽच्छि॑द्रा प॒दा धा॒ अच्छि॑द्रा उ॒शिजः॑ प॒दाऽनु॑ तक्षुः॒ सोमो॑ विश्व॒विन्ने॒ता ने॑ष॒द्-बृह॒स्पति॑रुक्थाम॒दानि॑ शꣳसिष॒दित्या॑है॒तद्वा ( ) अ॒ग्नेरु॒क्थं तेनै॒वैन॒मनु॑ शꣳसति ॥
▶ पदपाठः (Word-by-word)
अ॒मूम् । च॒ । उपेति॑ । द॒धा॒ति॒ । मन॑सा । म॒द्ध्य॒माम् । ए॒षाम् । लो॒काना᳚म् । क्लृप्त्यै᳚ । अथो॒ इति॑ । प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । इ॒ष्टः । य॒ज्ञ्ः । भृगु॑भि॒रिति॒ भृगु॑ - भिः॒ । आ॒शी॒र्दा इत्या॑शीः - दाः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । तस्य॑ । ते॒ । इ॒ष्टस्य॑ । वी॒तस्य॑ । द्रवि॑णा । इ॒ह । भ॒क्षी॒य॒ । इति॑ । आ॒ह॒ । स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे । ए॒व । ए॒तेन॑ । दु॒हे॒ । पि॒ता । मा॒त॒रिश्वा᳚ । अच्छि॑द्रा । प॒दा । धाः॒ । अच्छि॑द्राः । उ॒शिजः॑ । प॒दा । अन्विति॑ । त॒क्षुः॒ । सोमः॑ । वि॒श्व॒विदिति॑ विश्व - वित् । ने॒ता । ने॒ष॒त् । बृह॒स्पतिः॑ । उ॒क्था॒म॒दानीत्यु॑क्थ - म॒दानि॑ । शꣳ॒॒सि॒ष॒त् । इति॑ । आ॒ह॒ । ए॒तत् । वै ( ) । अ॒ग्नेः । उ॒क्थम् । तेन॑ । ए॒व । ए॒न॒म् । अन्विति॑ । शꣳ॒॒स॒ति॒ ॥
पदसंख्या: 57

अनुवाकः 9 (3 पञ्चाशत्)

TS 5.6.9.1 TS 5.6.9.1
सू॒यते॒ वा ए॒षो᳚ऽग्नी॒नां ॅय उ॒खायां᳚ भ्रि॒यते॒ यद॒धः सा॒दये॒द्-गर्भाः᳚ प्र॒पादु॑काः स्यु॒रथो॒ यथा॑ स॒वात् प्र॑त्यव॒रोह॑ति ता॒दृगे॒व तदा॑स॒न्दी सा॑दयति॒ गर्भा॑णां॒ धृत्या॒ अप्र॑पादा॒याथो॑ स॒वमे॒वैनं॑ करोति॒ गर्भो॒ वा ए॒ष यदुख्यो॒ योनिः॑ शि॒क्यं॑ ॅयच्छि॒क्या॑दु॒खां नि॒रूहे॒द्-योने॒र्गर्भं॒ निर्.ह॑ण्या॒थ् षडु॑द्यामꣳ शि॒क्यं॑ भवति षोढा विहि॒तो वै - [ ]
▶ पदपाठः (Word-by-word)
सू॒यते᳚ । वै । ए॒षः । अ॒ग्नी॒नाम् । यः । उ॒खाया᳚म् । भ्रि॒यते᳚ । यत् । अ॒धः । सा॒दये᳚त् । गर्भाः᳚ । प्र॒पादु॑का॒ इति॑ प्र - पादु॑काः । स्युः॒ । अथो॒ इति॑ । यथा᳚ । स॒वात् । प्र॒त्य॒व॒रोह॒तीति॑ प्रति - अ॒व॒रोह॑ति । ता॒दृक् । ए॒व । तत् । आ॒स॒न्दी । सा॒द॒य॒ति॒ । गर्भा॑णाम् । धृत्यै᳚ । अप्र॑पादा॒येत्यप्र॑ - पा॒दा॒य॒ । अथो॒ इति॑ । स॒वम् । ए॒व । ए॒न॒म् । क॒रो॒ति॒ । गर्भः॑ । वै । ए॒षः । यत् । उख्यः॑ । योनिः॑ । शि॒क्य᳚म् । यत् । शि॒क्या᳚त् । उ॒खाम् । नि॒रूहे॒दिति॑ निः - ऊहे᳚त् । योनेः᳚ । गर्भ᳚म् । निरिति॑ । ह॒न्या॒त् । षडु॑द्याम॒मिति॒ षट्-उ॒द्या॒म॒म् । शि॒क्य᳚म् । भ॒व॒ति॒ । षो॒ढा॒वि॒हि॒त इति॑ षोढा - वि॒हि॒तः । वै ।
पदसंख्या: 50
TS 5.6.9.2 TS 5.6.9.2
पुरु॑ष आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा᳚न्या॒त्मन्ने॒वैनं॑ बिभर्ति प्र॒जाप॑ति॒र्वा ए॒ष यद॒ग्निस्तस्यो॒खा चो॒लूख॑लं च॒ स्तनौ॒ ताव॑स्य प्र॒जा उप॑ जीवन्ति॒ यदु॒खां चो॒लूख॑लं चोप॒दधा॑ति॒ ताभ्या॑मे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे संॅवथ्स॒रो वा ए॒ष यद॒ग्निस्तस्य॑ त्रेधाविहि॒ता इष्ट॑काः प्राजाप॒त्या वै᳚ष्ण॒वी - [ ]
▶ पदपाठः (Word-by-word)
पुरु॑षः । आ॒त्मा । च॒ । शिरः॑ । च॒ । च॒त्वारि॑ । अङ्गा॑नि । आ॒त्मन्न् । ए॒व । ए॒न॒म् । बि॒भ॒र्ति॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । उ॒खा । च॒ । उ॒लूख॑लम् । च॒ । स्तनौ᳚ । तौ । अ॒स्य॒ । प्र॒जा इति॑ प्र - जाः । उपेति॑ । जी॒व॒न्ति॒ । यत् । उ॒खाम् । च॒ । उ॒लूख॑लम् । च॒ । उ॒प॒दधा॒तीत्यु॑प - दधा॑ति । ताभ्या᳚म् । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । अ॒ग्निम् । दु॒हे॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । त्रे॒धा॒वि॒हि॒ता इति॑ त्रेधा - वि॒हि॒ताः । इष्ट॑काः । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः॒ । वै॒ष्ण॒वीः ।
पदसंख्या: 50
TS 5.6.9.3 TS 5.6.9.3
-र्वै᳚श्वकर्म॒णी-र॑होरा॒त्राण्ये॒वास्य॑ प्राजाप॒त्या यदुख्यं॑ बि॒भर्ति॑ प्राजाप॒त्या ए॒व तदुप॑ धत्ते॒ यथ् स॒मिध॑ आ॒दधा॑ति वैष्ण॒वा वै वन॒स्पत॑यो वैष्ण॒वीरे॒व तदुप॑ धत्ते॒ यदिष्ट॑काभिर॒ग्निं चि॒नोती॒यं ॅवै वि॒श्वक॑र्मा वैश्वकर्म॒णीरे॒व तदुप॑ धत्ते॒ तस्मा॑-दाहु-स्त्रि॒वृद॒ग्निरिति॒ तं ॅवा ए॒तं ॅयज॑मान ए॒व चि॑न्वीत॒ यद॑स्या॒न्य ( ) श्चि॑नु॒याद्यत् तं दक्षि॑णाभि॒र्न रा॒धये॑द॒ग्निम॑स्य वृञ्जीत॒ यो᳚ऽस्या॒ऽग्निं चि॑नु॒यात् तं दक्षि॑णाभी राधयेद॒ग्निमे॒व तथ् स्पृ॑णोति ॥
▶ पदपाठः (Word-by-word)
वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । अ॒हो॒रा॒त्राणीत्य॑हः - रा॒त्राणि॑ । ए॒व । अ॒स्य॒ । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । यत् । उख्य᳚म् । बि॒भर्ति॑ । प्रा॒जा॒प॒त्या इति॑ प्राजा-प॒त्याः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । यत् । स॒मिध॒ इति॑ सं - इधः॑ । आ॒दधा॒तीत्या᳚ - दधा॑ति । वै॒ष्ण॒वाः । वै । वन॒स्पत॑यः । वै॒ष्ण॒वीः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । यत् । इष्ट॑काभिः । अ॒ग्निम् । चि॒नोति॑ । इ॒यम् । वै । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । वै॒श्व॒क॒र्म॒णीरिति॑ वैश्व - क॒र्म॒णीः । ए॒व । तत् । उपेति॑ । ध॒त्ते॒ । तस्मा᳚त् । आ॒हुः॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्निः । इति॑ । तम् । वै । ए॒तम् । यज॑मानः । ए॒व । चि॒न्वी॒त॒ । यत् । अ॒स्य॒ । अ॒न्यः ( ) । चि॒नु॒यात् । यत् । तम् । दक्षि॑णाभिः । न । रा॒धये᳚त् । अ॒ग्निम् । अ॒स्य॒ । वृ॒ञ्जी॒त॒ । यः । अ॒स्य॒ । अ॒ग्निम् । चि॒नु॒यात् । तम् । दक्षि॑णाभिः । रा॒ध॒ये॒त् । अ॒ग्निम् । ए॒व । तत् । स्पृ॒णो॒ति॒ ॥
पदसंख्या: 70

अनुवाकः 10 (3 पञ्चाशत्)

TS 5.6.10.1 TS 5.6.10.1
प्र॒जाप॑ति-र॒ग्नि-म॑चिनुत॒र्तुभिः॑ संॅवथ्स॒रं ॅव॑स॒न्तेनै॒वास्य॑ पूर्वा॒र्द्धम॑चिनुत ग्री॒ष्मेण॒ दक्षि॑णं प॒क्षं ॅव॒र्॒.षाभिः॒ पुच्छꣳ॑ श॒रदोत्त॑रं प॒क्षꣳ हे॑म॒न्तेन॒ मद्ध्यं॒ ब्रह्म॑णा॒ वा अ॑स्य॒ तत् पू᳚र्वा॒र्द्धम॑चिनुत क्ष॒त्रेण॒ दक्षि॑णं प॒क्षं प॒शुभिः॒ पुच्छं॑ ॅवि॒शोत्त॑रं प॒क्षमा॒शया॒ मद्ध्यं॒ ॅय ए॒वं ॅवि॒द्वान॒ग्निं चि॑नु॒त ऋ॒तुभि॑रे॒वैनं॑ चिनु॒तेऽथो॑ ए॒तदे॒व सर्व॒मव॑ - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒ग्निम् । अ॒चि॒नु॒त॒ । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । व॒स॒न्तेन॑ । ए॒व । अ॒स्य॒ । पू॒र्वा॒द्‌र्धमिति॑ पूर्व - अ॒द्‌र्धम् । अ॒चि॒नु॒त॒ । ग्री॒ष्मेण॑ । दक्षि॑णम् । प॒क्षम् । व॒र्॒.षाभिः॑ । पुच्छ᳚म् । श॒रदा᳚ । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । हे॒म॒न्तेन॑ । मद्ध्य᳚म् । ब्रह्म॑णा । वै । अ॒स्य॒ । तत् । पू॒र्वा॒द्‌र्धमिति॑ पूर्व - अ॒द्‌र्धम् । अ॒चि॒नु॒त॒ । क्ष॒त्रेण॑ । दक्षि॑णम् । प॒क्षम् । प॒शुभि॒रिति॑ प॒शु - भिः॒ । पुच्छ᳚म् । वि॒शा । उत्त॑र॒मित्युत् - त॒र॒म् । प॒क्षम् । आ॒शया᳚ । मद्ध्य᳚म् । यः । ए॒वम् । वि॒द्वान् । अ॒ग्निम् । चि॒नु॒ते । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । ए॒व । ए॒न॒म् । चि॒नु॒ते॒ । अथो॒ इति॑ । ए॒तत् । ए॒व । सर्व᳚म् । अवेति॑ ।
पदसंख्या: 50
TS 5.6.10.2 TS 5.6.10.2
रुन्धे शृ॒ण्वन्त्ये॑नम॒ग्निं चि॑क्या॒नमत्त्यन्नꣳ॒॒ रोच॑त इ॒यं ॅवाव प्र॑थ॒मा चिति॒रोष॑धयो॒ वन॒स्पत॑यः॒ पुरी॑षम॒न्तरि॑क्षं द्वि॒तीया॒ वयाꣳ॑सि॒ पुरी॑षम॒सौ तृ॒तीया॒ नक्ष॑त्राणि॒ पुरी॑षं ॅय॒ज्ञ्श्च॑तु॒र्थी दक्षि॑णा॒ पुरी॑षं॒ ॅयज॑मानः पञ्च॒मी प्र॒जा पुरी॑षं॒ ॅयत् त्रिचि॑तीकं चिन्वी॒त य॒ज्ञ्ं दक्षि॑णामा॒त्मानं॑ प्र॒जाम॒न्तरि॑या॒त् तस्मा॒त् पञ्च॑चितीकश्चेत॒व्य॑ ए॒तदे॒व सर्वꣳ॑ स्पृणोति॒ यत् ति॒स्रश्चित॑य - [ ]
▶ पदपाठः (Word-by-word)
रु॒न्धे॒ । शृ॒ण्वन्ति॑ । ए॒न॒म् । अ॒ग्निम् । चि॒क्या॒नम् । अत्ति॑ । अन्न᳚म् । रोच॑ते । इ॒यम् । वाव । प्र॒थ॒मा । चितिः॑ । ओष॑धयः । वन॒स्पत॑यः । पुरी॑षम् । अ॒न्तरि॑क्षम् । द्वि॒तीया᳚ । वयाꣳ॑सि । पुरी॑षम् । अ॒सौ । तृ॒तीया᳚ । नक्ष॑त्राणि । पुरी॑षम् । य॒ज्ञ्ः । च॒तु॒र्थी । दक्षि॑णा । पुरी॑षम् । यज॑मानः । प॒ञ्च॒मी । प्र॒जेति॑ प्र - जा । पुरी॑षम् । यत् । त्रिचि॑तीक॒मिति॒ त्रि - चि॒ती॒क॒म् । चि॒न्वी॒त । य॒ज्ञ्म् । दक्षि॑णाम् । आ॒त्मान᳚म् । प्र॒जामिति॑ प्र - जाम् । अ॒न्तः । इ॒या॒त् । तस्मा᳚त् । पञ्च॑चितीक॒ इति॒ पञ्च॑ - चि॒ती॒कः॒ । चे॒त॒व्यः॑ । ए॒तत् । ए॒व । सर्व᳚म् । स्पृ॒णो॒ति॒ । यत् । ति॒स्रः । चित॑यः ।
पदसंख्या: 50
TS 5.6.10.3 TS 5.6.10.3
-स्त्रि॒वृद्ध्य॑ग्निर्यद् द्वे द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै॒ पञ्च॒ चित॑यो भवन्ति॒ पाङ्क्तः॒ पुरु॑ष आ॒त्मान॑मे॒व स्पृ॑णोति॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒ पुरी॑षैर॒भ्यू॑हति॒ दश॒ सं प॑द्यन्ते॒ दशा᳚क्षरो॒ वै पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तꣳ स्पृ॑णो॒त्यथो॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति संॅवथ्स॒रो वै ष॒ष्ठी चिति॑र्.ऋ॒तवः॒ पुरी॑षꣳ॒॒ ( ) षट् चित॑यो भवन्ति॒ षट् पुरी॑षाणि॒ द्वाद॑श॒ सं प॑द्यन्ते॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठति ॥
▶ पदपाठः (Word-by-word)
त्रि॒वृदिति॑ त्रि - वृत् । हि । अ॒ग्निः । यत् । द्वे इति॑ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । पञ्च॑ । चित॑यः । भ॒व॒न्ति॒ । पाङ्क्तः॑ । पुरु॑षः । आ॒त्मान᳚म् । ए॒व । स्पृ॒णो॒ति॒ । पञ्च॑ । चित॑यः । भ॒व॒न्ति॒ । प॒ञ्चभि॒रिति॑ प॒ञ्च - भिः॒ । पुरी॑षैः । अ॒भीति॑ । ऊ॒ह॒ति॒ । दश॑ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्षर॒ इति॒ दश॑ - अ॒क्ष॒रः॒ । वै । पुरु॑षः । यावान्॑ । ए॒व । पुरु॑षः । तम् । स्पृ॒णो॒ति॒ । अथो॒ इति॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजीति॑ वि - राजि॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । वै । ष॒ष्ठी । चितिः॑ । ऋ॒तवः॑ । पुरी॑षम् ( ) । षट् । चित॑यः । भ॒व॒न्ति॒ । षट् । पुरी॑षाणि । द्वाद॑श । समिति॑ । प॒द्य॒न्ते॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒ति॒ ॥
पदसंख्या: 65

अनुवाकः 11 (1 पञ्चाशत्)

TS 5.6.11.1 TS 5.6.11.1
रोहि॑तो धू॒म्ररो॑हितः क॒र्कन्धु॑रोहित॒स्ते प्रा॑जाप॒त्या ब॒भ्रुर॑रु॒णब॑भ्रुः॒ शुक॑बभ्रु॒स्ते रौ॒द्राः श्येतः॑ श्येता॒क्षः श्येत॑ग्रीव॒स्ते पि॑तृदेव॒त्या᳚स्ति॒स्रः कृ॒ष्णा व॒शा वा॑रु॒ण्य॑स्ति॒स्रः श्वे॒ता व॒शाः सौ॒र्यो॑ मैत्राबार्.हस्प॒त्या धू॒म्रल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
रोहि॑तः । धू॒म्ररो॑हित॒ इति॑ धू॒म्र - रो॒हि॒तः॒ । क॒र्कन्धु॑रोहित॒ इति॑ क॒र्कन्धु॑ - रो॒हि॒तः॒ । ते । प्रा॒जा॒प॒त्या इति॑ प्राजा - प॒त्याः । ब॒भ्रुः । अ॒रु॒णब॑भ्रु॒रित्य॑रु॒ण - ब॒भ्रुः॒ । शुक॑बभ्रु॒रिति॒ शुक॑ - ब॒भ्रुः॒ । ते । रौ॒द्राः । श्येतः॑ । श्ये॒ता॒क्ष इति॑ श्येत - अ॒क्षः । श्येत॑ग्रीव॒ इति॒ श्येत॑ - ग्री॒वः॒ । ते । पि॒तृ॒दे॒व॒त्या॑ इति॑ पितृ - दे॒व॒त्याः᳚ । ति॒स्रः । कृ॒ष्णाः । व॒शाः । वा॒रु॒ण्यः॑ । ति॒स्रः । श्वे॒ताः । व॒शाः । सौ॒र्यः॑ । मै॒त्रा॒बा॒र्.॒ह॒स्प॒त्या इति॑ मैत्रा - बा॒र्.॒ह॒स्प॒त्याः । धू॒म्रल॑लामा॒ इति॑ धू॒म्र - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 26

अनुवाकः 12 (1 पञ्चाशत्)

TS 5.6.12.1 TS 5.6.12.1
पृश्नि॑-स्तिर॒श्चीन॑-पृश्निरू॒र्द्ध्व-पृ॑श्नि॒स्ते मा॑रु॒ताः फ॒ल्गूर्लो॑हितो॒र्णी ब॑ल॒क्षी ताः सा॑रस्व॒त्यः॑ पृष॑ती स्थू॒लपृ॑षती क्षु॒द्रपृ॑षती॒ ता वै᳚श्वदे॒व्य॑स्ति॒स्रः श्या॒मा व॒शाः पौ॒ष्णिय॑स्ति॒स्रो रोहि॑णीर्व॒शा मै॒त्रिय॑ ऐन्द्राबार्.हस्प॒त्या अ॑रु॒णल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
पृश्निः॑ । ति॒र॒श्चीन॑पृश्नि॒रिति॑ तिर॒श्चीन॑ - पृ॒श्निः॒ । ऊ॒द्‌र्ध्वपृ॑श्नि॒रित्यू॒द्‌र्ध्व - पृ॒श्निः॒ । ते । मा॒रु॒ताः । फ॒ल्गूः । लो॒हि॒तो॒र्णीति॑ लोहित - ऊ॒र्णीः । ब॒ल॒क्षी । ताः । सा॒र॒स्व॒त्यः॑ । पृष॑ती । स्थू॒लपृ॑ष॒तीति॑ स्थू॒ल - पृ॒ष॒ती॒ । क्षु॒द्रपृ॑ष॒तीति॑ क्षु॒द्र-पृ॒ष॒ती॒ । ताः । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । ति॒स्रः । श्या॒माः । व॒शाः । पौ॒ष्णियः॑ । ति॒स्रः । रोहि॑णीः । व॒शाः । मै॒त्रियः॑ । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्.॒ह॒स्प॒त्याः । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 26

अनुवाकः 13 (1 पञ्चाशत्)

TS 5.6.13.1 TS 5.6.13.1
शि॒ति॒बा॒हु-र॒न्यत॑श्शितिबाहुः सम॒न्त शि॑तिबाहु॒स्त ऐ᳚न्द्रवाय॒वाः शि॑ति॒रन्ध्रो॒ ऽन्यत॑श्शितिरन्ध्रः सम॒न्तशि॑तिरन्ध्र॒स्ते मै᳚त्रावरु॒णाः शु॒द्धवा॑लः स॒र्वशु॑द्धवालो म॒णिवा॑ल॒स्त आ᳚श्वि॒नास्ति॒स्रः शि॒ल्पा व॒शा वै᳚श्वदे॒व्य॑स्ति॒स्रः श्येनीः᳚ परमे॒ष्ठिने॑ सोमापौ॒ष्णाः श्या॒मल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
शि॒ति॒बा॒हुरिति॑ शिति - बा॒हुः । अ॒न्यत॑श्शितिबाहु॒रित्य॒न्यतः॑ -शि॒ति॒बा॒हुः॒ । स॒म॒न्तशि॑तिबाहु॒रिति॑ सम॒न्त - शि॒ति॒बा॒हुः॒ । ते । ऐ॒न्द्र॒वा॒य॒वा इत्यै᳚न्द्र - वा॒य॒वाः । शि॒ति॒रन्ध्र॒ इति॑ शिति - रन्ध्रः॑ । अ॒न्यत॑श्शितिरन्ध्र॒ इत्य॒न्यतः॑ - शि॒ति॒र॒न्ध्रः॒ । स॒म॒न्तशि॑तिरन्ध्र॒ इति॑ सम॒न्त - शि॒ति॒र॒न्ध्रः॒ । ते । मै॒त्रा॒व॒रु॒णा इति॑ मैत्रा - व॒रु॒णाः । शु॒द्धवा॑ल॒ इति॑ शु॒द्ध-वा॒लः॒ । स॒र्वशु॑द्धवाल॒ इति॑ स॒र्व-शु॒द्ध॒वा॒लः॒ । म॒णिवा॑ल॒ इति॑ म॒णि - वा॒लः॒ । ते । आ॒श्वि॒नाः । ति॒स्रः । शि॒ल्पाः । व॒शाः । वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । ति॒स्रः । श्येनीः᳚ । प॒र॒मे॒ष्ठिने᳚ । सो॒मा॒पौ॒ष्णा इति॑ सोमा - पौ॒ष्णाः । श्या॒मल॑लामा॒ इति॑ श्या॒म - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 25

अनुवाकः 14 (1 पञ्चाशत्)

TS 5.6.14.1 TS 5.6.14.1
उ॒न्न॒त ऋ॑ष॒भो वा॑म॒नस्त ऐ᳚न्द्रावरु॒णाः शिति॑ककुच्छितिपृ॒ष्ठः शिति॑भस॒त् त ऐ᳚न्द्राबार्.हस्प॒त्याः शि॑ति॒पाच्छि॒त्योष्ठः॑ शिति॒भ्रुस्त ऐ᳚न्द्रावैष्ण॒वास्ति॒स्रः सि॒द्ध्मा व॒शा वै᳚श्वकर्म॒ण्य॑स्ति॒स्रो धा॒त्रे पृ॑षोद॒रा ऐ᳚न्द्रापौ॒ष्णाः श्येत॑ललामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
उ॒न्न॒त इत्यु॑त् - न॒तः । ऋ॒ष॒भः । वा॒म॒नः । ते । ऐ॒न्द्रा॒व॒रु॒णा इत्यै᳚न्द्रा - व॒रु॒णाः । शिति॑ककु॒दिति॒ शिति॑ - क॒कु॒त् । शि॒ति॒पृ॒ष्ठ इति॑ शिति - पृ॒ष्ठः । शिति॑भस॒दिति॒ शिति॑ - भ॒स॒त् । ते । ऐ॒न्द्रा॒बा॒र्.॒ह॒स्प॒त्या इत्यै᳚न्द्रा - बा॒र्.॒ह॒स्प॒त्याः । शि॒ति॒पादिति॑ शिति - पात् । शि॒त्योष्ठ॒ इति॑ शिति - ओष्ठः॑ । शि॒ति॒भ्रुरिति॑ शिति - भ्रुः । ते । ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । ति॒स्रः । सि॒द्ध्माः । व॒शाः । वै॒श्व॒क॒र्म॒ण्य॑ इति॑ वैश्व-क॒र्म॒ण्यः॑ । ति॒स्रः । धा॒त्रे । पृ॒षो॒द॒रा इति॑ पृष - उ॒द॒राः । ऐ॒न्द्रा॒पौ॒ष्णा इत्यै᳚न्द्रा - पौ॒ष्णाः । श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 25

अनुवाकः 15 (1 पञ्चाशत्)

TS 5.6.15.1 TS 5.6.15.1
क॒र्णास्त्रयो॑ या॒माः सौ॒म्यास्त्रयः॑ श्विति॒ङ्गा अ॒ग्नये॒ यवि॑ष्ठाय॒ त्रयो॑ नकु॒लास्ति॒स्रो रोहि॑णी॒स्त्र्यव्य॒स्ता वसू॑नां ति॒स्रो॑ऽरु॒णा दि॑त्यौ॒ह्य॑स्ता रु॒द्राणाꣳ॑ सोमै॒न्द्रा ब॒भ्रुल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
क॒र्णाः । त्रयः॑ । या॒माः । सौ॒म्याः । त्रयः॑ । श्वि॒ति॒ङ्गाः । अ॒ग्नये᳚ । यवि॑ष्ठाय । त्रयः॑ । न॒कु॒लाः । ति॒स्रः । रोहि॑णीः । त्र्यव्य॒ इति॑ त्रि - अव्यः॑ । ताः । वसू॑नाम् । ति॒स्रः । अ॒रु॒णाः । दि॒त्यौ॒ह्यः॑ । ताः । रु॒द्राणा᳚म् । सो॒मै॒न्द्रा इति॑ सोम - ऐ॒न्द्राः । ब॒भ्रुल॑लामा॒ इति॑ ब॒भ्रु - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 23

अनुवाकः 16 (1 पञ्चाशत्)

TS 5.6.16.1 TS 5.6.16.1
शु॒ण्ठास्त्रयो॑ वैष्ण॒वा अ॑धीलोध॒कर्णा॒स्त्रयो॒ विष्ण॑व उरुक्र॒माय॑ लफ्सु॒दिन॒स्त्रयो॒ विष्ण॑व उरुगा॒याय॒ पञ्चा॑वीस्ति॒स्र आ॑दि॒त्यानां᳚ त्रिव॒थ्सा-स्ति॒स्रो-ऽङ्गि॑रसामैन्द्रावैष्ण॒वा गौ॒रल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
शु॒ण्ठाः । त्रयः॑ । वै॒ष्ण॒वाः । अ॒धी॒लो॒ध॒कर्णा॒ इत्य॑धीलोध - कर्णाः᳚ । त्रयः॑ । विष्ण॑वे । उ॒रु॒क्र॒मायेत्यु॑रु - क्र॒माय॑ । ल॒फ्सु॒दिनः॑ । त्रयः॑ । विष्ण॑वे । उ॒रु॒गा॒यायेत्यु॑रु - गा॒याय॑ । पञ्चा॑वी॒रिति॒ पञ्च॑ - अ॒वीः॒ । ति॒स्रः । आ॒दि॒त्याना᳚म् । त्रि॒व॒थ्सा इति॑ त्रि - व॒थ्साः । ति॒स्रः । अङ्गि॑रसाम् । ऐ॒न्द्रा॒वै॒ष्ण॒वा इत्यै᳚न्द्रा - वै॒ष्ण॒वाः । गौ॒रल॑लामा॒ इति॑ गौ॒र - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 20

अनुवाकः 17 (1 पञ्चाशत्)

TS 5.6.17.1 TS 5.6.17.1
इन्द्रा॑य॒ राज्ञे॒ त्रयः॑ शितिपृ॒ष्ठा इन्द्रा॑या-धिरा॒जाय॒ त्रयः॒ शिति॑ककुद॒ इन्द्रा॑य स्व॒राज्ञे॒ त्रयः॒ शिति॑भस-दस्ति॒स्रस्तु॑र्यौ॒ह्यः॑ सा॒द्ध्यानां᳚ ति॒स्रः प॑ष्ठौ॒ह्यो॑ विश्वे॑षां दे॒वाना॑माग्ने॒न्द्राः कृ॒ष्णल॑लामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
इन्द्रा॑य । राज्ञे᳚ । त्रयः॑ । शि॒ति॒पृ॒ष्ठा इति॑ शिति - पृ॒ष्ठाः । इन्द्रा॑य । अ॒धि॒रा॒जायेत्य॑धि - रा॒जाय॑ । त्रयः॑ । शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दः॒ । इन्द्रा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । त्रयः॑ । शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दः॒ । ति॒स्रः । तु॒र्यौ॒ह्यः॑ । सा॒द्ध्याना᳚म् । ति॒स्रः । प॒ष्ठौ॒ह्यः॑ । विश्वे॑षाम् । दे॒वाना᳚म् । आ॒ग्ने॒न्द्राः । कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः । तू॒प॒राः ॥
पदसंख्या: 22

अनुवाकः 18 (1 पञ्चाशत्)

TS 5.6.18.1 TS 5.6.18.1
अदि॑त्यै॒ त्रयो॑ रोहितै॒ता इ॑न्द्रा॒ण्यै त्रयः॑ कृष्णै॒ताः कु॒ह्वै᳚ त्रयो॑ऽरुणै॒तास्ति॒स्रो धे॒नवो॑ रा॒कायै॒ त्रयो॑ऽन॒ड्वाहः॑ सिनीवा॒ल्या आ᳚ग्नावैष्ण॒वा रोहि॑तललामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
अदि॑त्यै । त्रयः॑ । रो॒हि॒तै॒ता इति॑ रोहित - ए॒ताः । इ॒न्द्रा॒ण्यै । त्रयः॑ । कृ॒ष्णै॒ता इति॑ कृष्ण - ए॒ताः । कु॒ह्वै᳚ । त्रयः॑ । अ॒रु॒णै॒ता इत्य॑रुण - ए॒ताः । ति॒स्रः । धे॒नवः॑ । रा॒कायै᳚ । त्रयः॑ । अ॒न॒ड्वाहः॑ । सि॒नी॒वा॒ल्यै । आ॒ग्ना॒वै॒ष्ण॒वा इत्या᳚ग्ना - वै॒ष्ण॒वाः । रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 18

अनुवाकः 19 (1 पञ्चाशत्)

TS 5.6.19.1 TS 5.6.19.1
सौ॒म्यास्त्रयः॑ पि॒शंगाः॒ सोमा॑य॒ राज्ञे॒ त्रयः॑ सा॒रङ्गाः᳚ पार्ज॒न्या नभो॑रूपास्ति॒स्रो॑ऽजा म॒ल॒.हा इ॑न्द्रा॒ण्यै ति॒स्रो मे॒ष्य॑ आदि॒त्या द्या॑वापृथि॒व्या॑ मा॒लंगा᳚स्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
सौ॒म्याः । त्रयः॑ । पि॒शङ्गाः᳚ । सोमा॑य । राज्ञे᳚ । त्रयः॑ । सा॒रङ्गाः᳚ । पा॒र्ज॒न्याः । नभो॑रूपा॒ इति॒ नभः॑-रू॒पाः॒ । ति॒स्रः । अ॒जाः । म॒ल॒.हाः । इ॒न्द्रा॒ण्यै । ति॒स्रः । मे॒ष्यः॑ । आ॒दि॒त्याः । द्या॒वा॒पृ॒थि॒व्या॑ इति॑ द्यावा - पृ॒थि॒व्याः᳚ । मा॒लङ्गाः᳚ । तू॒प॒राः ॥
पदसंख्या: 19

अनुवाकः 20 (1 पञ्चाशत्)

TS 5.6.20.1 TS 5.6.20.1
वा॒रु॒णास्त्रयः॑ कृ॒ष्णल॑लामा॒ वरु॑णाय॒ राज्ञे॒ त्रयो॒ रोहि॑तललामा॒ वरु॑णाय रि॒शाद॑से॒ त्रयो॑ऽरु॒णल॑लामाः शि॒ल्पास्त्रयो॑ वैश्वदे॒वास्त्रयः॒ पृश्न॑यः सर्वदेव॒त्या॑ ऐन्द्रासू॒राः श्येत॑ललामास्तूप॒राः ॥
▶ पदपाठः (Word-by-word)
वा॒रु॒णाः । त्रयः॑ । कृ॒ष्णल॑लामा॒ इति॑ कृ॒ष्ण - ल॒ला॒माः॒ । वरु॑णाय । राज्ञे᳚ । त्रयः॑ । रोहि॑तललामा॒ इति॒ रोहि॑त - ल॒ला॒माः॒ । वरु॑णाय । रि॒शाद॑स॒ इति॑ रिश - अद॑से । त्रयः॑ । अ॒रु॒णल॑लामा॒ इत्य॑रु॒ण - ल॒ला॒माः॒ । शि॒ल्पाः । त्रयः॑ । वै॒श्व॒दे॒वा इति॑ वैश्व - दे॒वाः । त्रयः॑ । पृश्न॑यः । स॒र्व॒दे॒व॒त्या॑ इति॑ सर्व - दे॒व॒त्याः᳚ । ऐ॒न्द्रा॒सू॒रा इत्यै᳚न्द्रा - सू॒राः । श्येत॑ललामा॒ इति॒ श्येत॑ - ल॒ला॒माः॒ । तू॒प॒राः ॥
पदसंख्या: 20

अनुवाकः 21 (1 पञ्चाशत्)

TS 5.6.21.1 TS 5.6.21.1
सोमा॑य स्व॒राज्ञे॑-ऽनोवा॒हाव॑न॒ड्वाहा॑-विन्द्रा॒ग्निभ्या॑-मोजो॒दाभ्या॒मुष्टा॑रा-विन्द्रा॒ग्निभ्यां᳚ बल॒दाभ्याꣳ॑ सीरवा॒हाववी॒ द्वे धे॒नू भौ॒मी दि॒ग्भ्यो वड॑बे॒ द्वे धे॒नू भौ॒मी वै॑रा॒जी पु॑रु॒षी द्वे धे॒नू भौ॒मी व॒यव॑ आरोहणवा॒हाव॑न॒ड्वाहौ॑ वारु॒णी कृ॒ष्णे व॒शे अ॑रा॒ड्यौ॑ दि॒व्यावृ॑ष॒भौ प॑रिम॒रौ ॥
▶ पदपाठः (Word-by-word)
सोमा॑य । स्व॒राज्ञ्॒ इति॑ स्व - राज्ञे᳚ । अ॒नो॒वा॒हावित्य॑नः - वा॒हौ । अ॒न॒ड्वाहौ᳚ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि - भ्या॒म् । ओ॒जो॒दाभ्या॒मित्यो॑जः-दाभ्या᳚म् । उष्टा॑रौ । इ॒न्द्रा॒ग्निभ्या॒मिती᳚न्द्रा॒ग्नि-भ्या॒म् । ब॒ल॒दाभ्या॒मिति॑ बल - दाभ्या᳚म् । सी॒र॒वा॒हाविति॑ सीर - वा॒हौ । अवी॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । वड॑बे॒ इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वै॒रा॒जी इति॑ । पु॒रु॒षी इति॑ । द्वे इति॑ । धे॒नू इति॑ । भौ॒मी इति॑ । वा॒यवे᳚ । आ॒रो॒ह॒ण॒वा॒हावित्या॑रोहण - वा॒हौ । अ॒न॒ड्वाहौ᳚ । वा॒रु॒णी इति॑ । कृ॒ष्णे इति॑ । व॒शे इति॑ । अ॒रा॒ड्यौ᳚ । दि॒व्यौ । ऋ॒ष॒भौ । प॒रि॒म॒राविति॑ परि - म॒रौ ॥
पदसंख्या: 34

अनुवाकः 22 (1 पञ्चाशत्)

TS 5.6.22.1 TS 5.6.22.1
एका॑दश प्रा॒तर्ग॒व्याः प॒शव॒ आ ल॑भ्यन्ते छग॒लः क॒ल्माषः॑ किकिदी॒विर्वि॑दी॒गय॒स्ते त्वा॒ष्ट्राः सौ॒रीर्नव॑ श्वे॒ता व॒शा अ॑नूब॒न्ध्या॑ भवन्त्याग्ने॒य ऐ᳚न्द्रा॒ग्न आ᳚श्वि॒नस्ते वि॑शालयू॒प आ ल॑भ्यन्ते ॥
▶ पदपाठः (Word-by-word)
एका॑दश । प्रा॒तः । ग॒व्याः । प॒शवः॑ । एति॑ । ल॒भ्य॒न्ते॒ । छ॒ग॒लः । क॒ल्माषः॑ । कि॒कि॒दी॒विः । वि॒दी॒गयः॑ । ते । त्वा॒ष्ट्राः । सौ॒रीः । नव॑ । श्वे॒ताः । व॒शाः । अ॒नू॒ब॒न्ध्या॑ इत्य॑नु - ब॒न्ध्याः᳚ । भ॒व॒न्ति॒ । आ॒ग्ने॒यः । ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः । आ॒श्वि॒नः । ते । वि॒शा॒ल॒यू॒प इति॑ विशाल - यू॒पे । एति॑ । ल॒भ्य॒न्ते॒ ॥
पदसंख्या: 25

अनुवाकः 23 (1 पञ्चाशत्)

TS 5.6.23.1 TS 5.6.23.1
पि॒शङ्गा॒स्त्रयो॑ वास॒न्ताः सा॒रङ्गा॒स्त्रयो॒ ग्रैष्माः॒ पृष॑न्त॒स्त्रयो॒ वार्.षि॑काः॒ पृश्न॑य॒स्त्रयः शार॒दाः पृ॑श्निस॒क्थास्त्रयो॒ हैम॑न्तिका अवलि॒प्तास्त्रयः॑ शैशि॒राः सं॑ॅवथ्स॒राय॒ निव॑क्षसः ॥स्पॆचिअल् कोर्वै fऒर् अनुवाकम् 12 तॊरोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ - पृश्निः॑ श्या॒मा अ॑रु॒णल॑लामाः -शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा - उन्न॒तः सि॒द्ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः - क॒र्णा ब॒भ्रुल॑लामाः - शु॒ण्ठा गौ॒रल॑लामा॒ - इन्द्रा॑य कृ॒ष्णाल॑लामा॒ - अदि॑त्यै॒ रोहि॑त ललामः -सौ॒म्या मा॒लङ्गा॑ - वारु॒णाः सू॒राः श्येत॑ललामा॒ - दश॑ ।
▶ पदपाठः (Word-by-word)
पि॒शङ्गाः᳚ । त्रयः॑ । वा॒स॒न्ताः । सा॒रङ्गाः᳚ । त्रयः॑ । ग्रैष्माः᳚ । पृष॑न्तः । त्रयः॑ । वार्.षि॑काः । पृश्न॑यः । त्रयः॑ । शा॒र॒दाः । पृ॒श्नि॒स॒क्था इति॑ पृश्नि - स॒क्थाः । त्रयः॑ । हैम॑न्तिकाः । अ॒व॒लि॒प्ता इत्य॑व-लि॒प्ताः । त्रयः॑ । शै॒शि॒राः । सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । निव॑क्षस॒ इति॒ नि - व॒क्ष॒सः॒ ॥रोहि॑तः कृ॒ष्णा धू॒म्रल॑लामाः॒ - पृश्निः॑ श्या॒मा अ॑रु॒णल॑लामाः -शितिबा॒हुः शि॒ल्पाः श्येनीः᳚ श्या॒मल॑लामा - उन्न॒तः सि॒द्ध्मा धा॒त्रे पौ॒ष्णाः श्येत॑ललामाः - क॒र्णा ब॒भ्रुल॑लामाः - शु॒ण्ठा गौ॒रल॑लामा॒ - इन्द्रा॑य कृ॒ष्णाल॑लामा॒ - अदि॑त्यै॒ रोहि॑त ललामः -सौ॒म्या मा॒लङ्गा॑ - वारु॒णाः सू॒राः श्येत॑ललामा॒ - दश॑ ।
पदसंख्या: 20