काण्डम् 6 - प्रश्नः 2

Kanda 6, Prasna 2

11 अनुवाकाः | 59 पञ्चाशत्

प्रश्नः 2 - Complete Audio Recording

॥

अनुवाकः 1 (7 पञ्चाशत्)

TS 6.2.1.1 TS 6.2.1.1
यदु॒भौ वि॒मुच्या॑ऽऽ*ति॒थ्यं गृ॑ह्णी॒याद्-य॒ज्ञ्ं ॅविच्छि॑न्द्या॒द्-यदु॒भाव-वि॑मुच्य॒ यथाऽना॑गतायाऽऽति॒थ्यं क्रि॒यते॑ ता॒दृगे॒व तद्-विमु॑क्तो॒-ऽन्यो॑ऽन॒ड्वान् भव॒त्य वि॑मुक्तो॒ऽन्यो-ऽथा॑ऽऽ*ति॒थ्यं गृ॑ह्णाति य॒ज्ञ्स्य॒ सन्त॑त्यै॒ पत्न्य॒न्वार॑भते॒ पत्नी॒ हि पारी॑णह्य॒स्येशे॒ पत्नि॑यै॒ वानु॑मतं॒ निर्व॑पति॒ यद्वै पत्नी॑ य॒ज्ञ्स्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वै- [ ]
▶ पदपाठः (Word-by-word)
यत् । उ॒भौ । वि॒मुच्येति॑ वि-मुच्य॑ । आ॒ति॒थ्यम् । गृ॒ह्णी॒यात् । य॒ज्ञ्म् । वीति॑ । छि॒न्द्या॒त् । यत् । उ॒भौ । अवि॑मु॒च्येत्यवि॑ - मु॒च्य॒ । यथा᳚ । अना॑गता॒येत्यना᳚-ग॒ता॒य॒ । आ॒ति॒थ्यम् । क्रि॒यते᳚ । ता॒दृक् । ए॒व । तत् । विमु॑क्त॒ इति॒ वि - मु॒क्तः॒ । अ॒न्यः । अ॒न॒ड्वान् । भव॑ति । अवि॑मुक्त॒ इत्यवि॑ - मु॒क्तः॒ । अ॒न्यः । अथ॑ । आ॒ति॒थ्यम् । गृ॒ह्णा॒ति॒ । य॒ज्ञ्स्य॑ । सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । पत्नी᳚ । अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते । पत्नी᳚ । हि । पारी॑णह्य॒स्येति॒ पारि॑ - न॒ह्य॒स्य॒ । ईशे᳚ । पत्नि॑या । ए॒व । अनु॑मत॒मित्यनु॑ - म॒त॒म् । निरिति॑ । व॒प॒ति॒ । यत् । वै । पत्नी᳚ । य॒ज्ञ्स्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् । अथो॒ इति॑ । पत्नि॑याः । ए॒व ।
पदसंख्या: 50
TS 6.2.1.2 TS 6.2.1.2
-ष य॒ज्ञ्स्या᳚न्वार॒भ्ॐ ऽन॑वच्छित्त्यै॒ याव॑द्-भि॒र्वै राजा॑ऽनुच॒रैरा॒गच्छ॑ति॒ सर्वे᳚भ्यो॒ वै तेभ्य॑ आति॒थ्यं क्रि॑यते॒ छन्दाꣳ॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञो॑ऽनुच॒राण्य॒ग्ने-रा॑ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ सोम॑स्याऽऽ*ति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह त्रि॒ष्टुभ॑ ए॒वैतेन॑ करो॒त्यति॑थेराति॒थ्यम॑सि॒ विष्ण॑वे॒ त्वेत्या॑ह॒ जग॑त्या- [ ]
▶ पदपाठः (Word-by-word)
ए॒षः । य॒ज्ञ्स्य॑ । अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । याव॑द्भि॒रिति॒ याव॑त् - भिः॒ । वै । राजा᳚ । अ॒नु॒च॒रैरित्य॑नु - च॒रैः । आ॒गच्छ॒तीत्या᳚ - गच्छ॑ति । सर्वे᳚भ्यः । वै । तेभ्यः॑ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । छन्दाꣳ॑सि । खलु॑ । वै । सोम॑स्य । राज्ञ्ः॑ । अ॒नु॒च॒राणीत्य॑नु - च॒राणि॑ । अ॒ग्नेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । सोम॑स्य । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । त्रि॒ष्टुभे᳚ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । अति॑थेः । आ॒ति॒थ्यम् । अ॒सि॒ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । जग॑त्यै ।
पदसंख्या: 50
TS 6.2.1.3 TS 6.2.1.3
ए॒वैतेन॑ करोत्य॒ग्नये᳚ त्वा रायस्पोष॒दाव्न्ने॒ विष्ण॑वे॒ त्वेत्या॑हानु॒ष्टुभ॑ ए॒वैतेन॑ करोति श्ये॒नाय॑ त्वा सोम॒भृते॒ विष्ण॑वे॒ त्वेत्या॑ह गायत्रि॒या ए॒वैतेन॑ करोति॒ पञ्च॒ कृत्वो॑ गृह्णाति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे ब्रह्मवा॒दिनो॑ वदन्ति॒ कस्मा᳚थ् स॒त्याद्-गा॑यत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियत॒ इति॒ यदे॒वादः सोम॒मा- [ ]
▶ पदपाठः (Word-by-word)
ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । अ॒ग्नये᳚ । त्वा॒ । रा॒य॒स्पो॒ष॒दाव्न्न॒ इति॑ रायस्पोष - दाव्न्ने᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभे᳚ । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । श्ये॒नाय॑ । त्वा॒ । सो॒म॒भृत॒ इति॑ सोम - भृते᳚ । विष्ण॑वे । त्वा॒ । इति॑ । आ॒ह॒ । गा॒य॒त्रि॒यै । ए॒व । ए॒तेन॑ । क॒रो॒ति॒ । पञ्च॑ । कृत्वः॑ । गृ॒ह्णा॒ति॒ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । कस्मा᳚त् । स॒त्यात् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । इति॑ । यत् । ए॒व । अ॒दः । सोम᳚म् । एति॑ ।
पदसंख्या: 50
TS 6.2.1.4 TS 6.2.1.4
ऽह॑र॒त् तस्मा᳚द्-गायत्रि॒या उ॑भ॒यत॑ आति॒थ्यस्य॑ क्रियते पु॒रस्ता᳚च्चो॒ परि॑ष्टाच्च॒ शिरो॒ वा ए॒तद् य॒ज्ञ्स्य॒ यदा॑ति॒थ्यं नव॑कपालः पुरो॒डाशो॑ भवति॒ तस्मा᳚न्नव॒धा शिरो॒ विष्यू॑तं॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता॒ स्तोमे॑न॒ संमि॑ता॒स्तेज॑स्त्रि॒वृत् तेज॑ ए॒व य॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति॒ नव॑कपालः पुरो॒डाशो॑ भवति॒ ते त्रय॑स्त्रिकपा॒लास्त्रि॒वृता᳚ प्रा॒णेन॒ संमि॑तास्त्रि॒वृद्वै- [ ]
▶ पदपाठः (Word-by-word)
अह॑रत् । तस्मा᳚त् । गा॒य॒त्रि॒यै । उ॒भ॒यतः॑ । आ॒ति॒थ्यस्य॑ । क्रि॒य॒ते॒ । पु॒रस्ता᳚त् । च॒ । उ॒परि॑ष्टात् । च॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । आ॒ति॒थ्यम् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । तस्मा᳚त् । न॒व॒धेति॑ नव - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि - वृता᳚ । स्तोमे॑न । संमि॑ता॒ इति॒ सं - मि॒ताः॒ । तेजः॑ । त्रि॒वृदिति॑ त्रि - वृत् । तेजः॑ । ए॒व । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । नव॑कपाल॒ इति॒ नव॑-क॒पा॒लः॒ । पु॒रो॒डाशः॑ । भ॒व॒ति॒ । ते । त्रयः॑ । त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । त्रि॒वृतेति॑ त्रि-वृता᳚ । प्रा॒णेनेति॑ प्र-अ॒नेन॑ । संमि॑ता॒ इति॒ सं-मि॒ताः॒ । त्रि॒वृदिति॑ त्रि - वृत् । वै ।
पदसंख्या: 50
TS 6.2.1.5 TS 6.2.1.5
प्रा॒ण-स्त्रि॒वृत॑मे॒व प्रा॒णम॑भिपू॒र्वं ॅय॒ज्ञ्स्य॑ शी॒र्॒.षन् द॑धाति प्र॒जाप॑ते॒र्वा ए॒तानि॒ पक्ष्मा॑णि॒ यद॑श्ववा॒ला ऐ᳚क्ष॒वी ति॒रश्ची॒ यदाश्व॑वालः प्रस्त॒रो भव॑त्यैक्ष॒वी ति॒रश्ची᳚ प्र॒जाप॑तेरे॒व तच्चक्षुः॒ संभ॑रति दे॒वा वै या आहु॑ती॒रजु॑हवु॒स्ता असु॑रा नि॒ष्काव॑माद॒न् ते दे॒वाः का᳚र्ष्म॒र्य॑मपश्यन् कर्म॒ण्यो॑ वै कर्मै॑नेन कुर्वी॒तेति॒ ते का᳚र्ष्मर्य॒मया᳚न् परि॒धीन॑- [ ]
▶ पदपाठः (Word-by-word)
प्रा॒ण इति॑ प्र -अ॒नः । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । ए॒व । प्रा॒णमिति॑ प्र -अ॒नम् । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । य॒ज्ञ्स्य॑ । शी॒र्॒.षन्न् । द॒धा॒ति॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । वै । ए॒तानि॑ । पक्ष्मा॑णि । यत् । अ॒श्व॒वा॒ला इत्य॑श्व - वा॒लाः । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । यत् । आश्व॑वाल॒ इत्याश्व॑ - वा॒लः॒ । प्र॒स्त॒र इति॑ प्र - स्त॒रः । भव॑ति । ऐ॒क्ष॒वी इति॑ । ति॒रश्ची॒ इति॑ । प्र॒जाप॑ते॒रिति॑ प्र॒जा -प॒तेः॒ । ए॒व । तत् । चक्षुः॑ । समिति॑ । भ॒र॒ति॒ । दे॒वाः । वै । याः । आहु॑ती॒रित्या - हु॒तीः॒ । अजु॑हवुः । ताः । असु॑राः । नि॒ष्काव᳚म् । आ॒द॒न्न् । ते । दे॒वाः । का॒र्ष्म॒र्य᳚म् । अ॒प॒श्य॒न्न् । क॒र्म॒ण्यः॑ । वै । कर्म॑ । ए॒ने॒न॒ । कु॒र्वी॒त॒ । इति॑ । ते । का॒र्ष्म॒र्य॒मया॒निति॑ कार्ष्मर्य - मयान्॑ । प॒रि॒धीनिति॑ परि - धीन् ।
पदसंख्या: 50
TS 6.2.1.6 TS 6.2.1.6
-कुर्वत॒ तैर्वै ते रक्षाꣳ॒॒स्यपा᳚घ्नत॒ यत् का᳚र्ष्मर्य॒मयाः᳚ परि॒धयो॒ भव॑न्ति॒ रक्ष॑सा॒मप॑हत्यै॒ सꣳ स्प॑र्.शयति॒ रक्ष॑सा॒मन॑न्व-वचाराय॒ न पु॒रस्ता॒त् परि॑ दधात्यादि॒त्यो ह्ये॑वोद्यन् पु॒रस्ता॒द्-रक्षाꣳ॑स्यप॒हन्त्यू॒र्द्ध्वे स॒मिधा॒वा द॑धात्यु॒परि॑ष्टादे॒व रक्षाꣳ॒॒स्यप॑ हन्ति॒ यजु॑षा॒ऽन्यां तू॒ष्णीम॒न्यां मि॑थुन॒त्वाय॒ द्वे आ द॑धाति द्वि॒पाद्-यज॑मानः॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो॑ वदन्त्य॒- [ ]
▶ पदपाठः (Word-by-word)
अ॒कु॒र्व॒त॒ । तैः । वै । ते । रक्षाꣳ॑सि । अपेति॑ । अ॒घ्न॒त॒ । यत् । का॒र्ष्म॒र्य॒मया॒ इति॑ कार्ष्मर्य - मयाः᳚ । प॒रि॒धय॒ इति॑ परि - धयः॑ । भव॑न्ति । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । समिति॑ । स्प॒र्॒.श॒य॒ति॒ । रक्ष॑साम् । अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । न । पु॒रस्ता᳚त् । परीति॑ । द॒धा॒ति॒ । आ॒दि॒त्यः । हि । ए॒व । उ॒द्यन्नित्यु॑त्- यन्न् । पु॒रस्ता᳚त् । रक्षाꣳ॑सि । अ॒प॒हन्तीत्य॑प - हन्ति॑ । ऊ॒द्‌र्ध्वे इति॑ । स॒मिधा॒विति॑ सं - इधौ᳚ । एति॑ । द॒धा॒ति॒ । उ॒परि॑ष्टात् । ए॒व । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । यजु॑षा । अ॒न्याम् । तू॒ष्णीम् । अ॒न्याम् । मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । द्वे इति॑ । एति॑ । द॒धा॒ति॒ । द्वि॒पादिति॑ द्वि - पात् । यज॑मानः । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ ।
पदसंख्या: 50
TS 6.2.1.7 TS 6.2.1.7
-ग्निश्च॒ वा ए॒तौ सोम॑श्च क॒था सोमा॑याऽऽ*ति॒थ्यं क्रि॒यते॒ नाग्नय॒ इति॒ यद॒ग्नाव॒ग्निं म॑थि॒त्वा प्र॒हर॑ति॒ तेनै॒वाग्नय॑ आति॒थ्यं क्रि॑य॒ते ऽथो॒ खल्वा॑हुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ यद्ध॒विरा॒साद्या॒ग्निं मन्थ॑ति ह॒व्यायै॒वाऽऽ*स॑न्नाय॒ सर्वा॑ दे॒वता॑ जनयति ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निः । च॒ । वै । ए॒तौ । सोमः॑ । च॒ । क॒था । सोमा॑य । आ॒ति॒थ्यम् । क्रि॒यते᳚ । न । अ॒ग्नये᳚ । इति॑ । यत् । अ॒ग्नौ । अ॒ग्निम् । म॒थि॒त्वा । प्र॒हर॒तीति॑ प्र - हर॑ति । तेन॑ । ए॒व । अ॒ग्नये᳚ । आ॒ति॒थ्यम् । क्रि॒य॒ते॒ । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । इति॑ । यत् । ह॒विः । आ॒साद्येत्या᳚ - साद्य॑ । अ॒ग्निम् । मन्थ॑ति । ह॒व्याय॑ । ए॒व । आस॑न्ना॒येत्या - स॒न्ना॒य॒ । सर्वाः᳚ । दे॒वताः᳚ । ज॒न॒य॒ति॒ ॥
पदसंख्या: 41

अनुवाकः 2 (7 पञ्चाशत्)

TS 6.2.2.1 TS 6.2.2.1
दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् ते दे॒वा मि॒थो विप्रि॑या आस॒न् ते᳚ऽ(1॒)न्यो᳚ऽन्यस्मै॒ ज्यैष्ठ्या॒याति॑ष्ठमानाः पञ्च॒धा व्य॑क्रामन्न॒ग्निर्वसु॑भिः॒ सोमो॑ रु॒द्रैरिन्द्रो॑ म॒रुद्भि॒-र्वरु॑ण आदि॒त्यै-र्बृह॒स्पति॒-र्विश्वै᳚र्दे॒वैस्ते॑ ऽमन्य॒न्तासु॑रेभ्यो॒ वा इ॒दं भ्रातृ॑व्येभ्यो रद्ध्यामो॒ यन्मि॒थो विप्रि॑याः॒ स्मो या न॑ इ॒माः प्रि॒यास्त॒नुव॒स्ताः स॒मव॑द्यामहै॒ ताभ्यः॒ स निर्.ऋ॑च्छा॒द्यो- [ ]
▶ पदपाठः (Word-by-word)
दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं-य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । मि॒थः । विप्रि॑या॒ इति॒ वि - प्रि॒याः॒ । आ॒स॒न्न् । ते । अ॒न्यः । अ॒न्यस्मै᳚ । ज्यैष्ठ्या॑य । अति॑ष्ठमानाः । प॒ञ्च॒धेति॑ पञ्च-धा । वीति॑ । अ॒क्रा॒म॒न्न् । अ॒ग्निः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । सोमः॑ । रु॒द्रैः । इन्द्रः॑ । म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । वरु॑णः । आ॒दि॒त्यैः । बृह॒स्पतिः॑ । विश्वैः᳚ । दे॒वैः । ते । अ॒म॒न्य॒न्त॒ । असु॑रेभ्यः । वै । इ॒दम् । भ्रातृ॑व्येभ्यः । र॒द्ध्या॒मः॒ । यत् । मि॒थः । विप्रि॑या॒ इति॒ वि - प्रि॒याः॒ । स्मः । याः । नः॒ । इ॒माः । प्रि॒याः । त॒नुवः॑ । ताः । स॒मव॑द्यामहा॒ इति॑ सं - अव॑द्यामहै । ताभ्यः॑ । सः । निरिति॑ । ऋ॒च्छा॒त् । यः ।
पदसंख्या: 50
TS 6.2.2.2 TS 6.2.2.2
नः॑ प्रथ॒मो᳚(1॒)ऽन्यो᳚ऽन्यस्मै॒ द्रुह्या॒दिति॒ तस्मा॒द्यः सता॑नूनप्त्रिणां प्रथ॒मो द्रुह्य॑ति॒ स आर्ति॒मार्च्छ॑ति॒ यत् ता॑नून॒प्त्रꣳ स॑मव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ पञ्च॒ कृत्वोऽव॑द्यति पञ्च॒धा हि ते तथ् स॑म॒वाद्य॒न्ताथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्ध॒ आप॑तये त्वा गृह्णा॒मीत्या॑ह प्रा॒णो वा- [ ]
▶ पदपाठः (Word-by-word)
नः॒ । प्र॒थ॒मः । अ॒न्यः । अ॒न्यस्मै᳚ । द्रुह्या᳚त् । इति॑ । तस्मा᳚त् । यः । सता॑नूनप्त्रिणा॒मिति॒ स - ता॒नू॒न॒प्त्रि॒णा॒म् । प्र॒थ॒मः । द्रुह्य॑ति । सः । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒ति॒ । यत् । ता॒नू॒न॒प्त्रमिति॑ तानू - न॒प्त्रम् । स॒म॒व॒द्यतीति॑ सं-अ॒व॒द्यति॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य-अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । पञ्च॑ । कृत्वः॑ । अवेति॑ । द्य॒ति॒ । प॒ञ्च॒धेति॑ पञ्च - धा । हि । ते । तत् । स॒म॒वाद्य॒न्तेति॑ सं - अ॒वाद्य॑न्त । अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । आप॑तय॒ इत्या - प॒त॒ये॒ । त्वा॒ । गृ॒ह्णा॒मि॒ । इति॑ । आ॒ह॒ । प्रा॒ण इति॑ प्र - अ॒नः । वै ।
पदसंख्या: 50
TS 6.2.2.3 TS 6.2.2.3
आप॑तिः प्रा॒णमे॒व प्री॑णाति॒ परि॑पतय॒ इत्या॑ह॒ मनो॒ वै परि॑पति॒र्मन॑ ए॒व प्री॑णाति॒ तनू॒नप्त्र॒ इत्या॑ह त॒नुवो॒ हि ते ताः स॑म॒वाद्य॑न्त शाक्व॒रायेत्या॑ह॒ शक्त्यै॒ हि ते ताः स॑म॒वाद्य॑न्त॒ शक्म॒-न्नोजि॑ष्ठा॒येत्या॒हौजि॑ष्ठꣳ॒॒ हि ते त दा॒त्मनः॑ सम॒वाद्य॒न्ता--ना॑धृष्टमस्यनाधृ॒ष्य-मित्या॒हाना॑धृष्टꣳ॒॒ ह्ये॑तद॑नाधृ॒ष्यं दे॒वाना॒मोज॒- [ ]
▶ पदपाठः (Word-by-word)
आप॑ति॒रित्या - प॒तिः॒ । प्रा॒णमिति॑ प्र - अ॒नम् । ए॒व । प्री॒णा॒ति॒ । परि॑पतय॒ इति॒ परि॑ - प॒त॒ये॒ । इति॑ । आ॒ह॒ । मनः॑ । वै । परि॑पति॒रिति॒ परि॑ - प॒तिः॒ । मनः॑ । ए॒व । प्री॒णा॒ति॒ । तनू॒नप्त्र॒ इति॒ तनू᳚ - नप्त्रे᳚ । इति॑ । आ॒ह॒ । त॒नुवः॑ । हि । ते । ताः । स॒म॒वाद्य॒न्तेति॑ सं- अ॒वाद्य॑न्त । शा॒क्व॒राय॑ । इति॑ । आ॒ह॒ । शक्त्यै᳚ । हि । ते । ताः । स॒म॒वाद्य॒न्तेति॑ सं-अ॒वाद्य॑न्त । शक्मन्न्॑ । ओजि॑ष्ठाय । इति॑ । आ॒ह॒ । ओजि॑ष्ठम् । हि । ते । तत् । आ॒त्मनः॑ । स॒म॒वाद्य॒न्तेति॑ सं-अ॒वाद्य॑न्त । अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । अ॒सि॒ । अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् । इति॑ । आ॒ह॒ । अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । हि । ए॒तत् । अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् । दे॒वाना᳚म् । ओजः॑ ।
पदसंख्या: 50
TS 6.2.2.4 TS 6.2.2.4
इत्या॑ह दे॒वानाꣳ॒॒ ह्ये॑तदोजो॑ऽभिशस्ति॒पा अ॑नभिशस्ते॒न्यमित्या॑हा-भिशस्ति॒पा ह्ये॑तद॑ -नभिशस्ते॒न्यमनु॑ मे दी॒क्षां दी॒क्षाप॑ति-र्मन्यता॒मित्या॑ह यथाय॒जुरे॒वैतद्-घृ॒तं ॅवै दे॒वा वज्रं॑ कृ॒त्वा सोम॑मघ्न-न्नन्ति॒कमि॑व॒ खलु॒ वा अ॑स्यै॒तच्च॑रन्ति॒ यत् ता॑नून॒प्त्रेण॑ प्र॒च॑रन्त्यꣳ॒॒ शुरꣳ॑ शुस्ते देव सो॒माऽऽ *प्या॑यता॒मित्या॑ह॒ य- [ ]
▶ पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । दे॒वाना᳚म् । हि । ए॒तत् । ओजः॑ । अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति-पाः । अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् । इति॑ । आ॒ह॒ । अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति - पाः । हि । ए॒तत् । अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् । अन्विति॑ । मे॒ । दी॒क्षाम् । दी॒क्षाप॑ति॒रिति॑ दी॒क्षा - प॒तिः॒ । म॒न्य॒ता॒म् । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । घृ॒तम् । वै । दे॒वाः । वज्र᳚म् । कृ॒त्वा । सोम᳚म् । अ॒घ्न॒न्न् । अ॒न्ति॒कम् । इ॒व॒ । खलु॑ । वै । अ॒स्य॒ । ए॒तत् । च॒र॒न्ति॒ । यत् । ता॒नू॒न॒प्त्रेणेति॑ तानू - न॒प्त्रेण॑ । प्र॒चर॒न्तीति॑ प्र - चर॑न्ति । अꣳ॒॒शुरꣳ॑शु॒रित्यꣳ॒॒शुः-अꣳ॒॒शुः॒ । ते॒ । दे॒व॒ । सो॒म॒ । एति॑ । प्या॒य॒ता॒म् । इति॑ । आ॒ह॒ । यत् ।
पदसंख्या: 50
TS 6.2.2.5 TS 6.2.2.5
-दे॒वास्या॑पुवा॒यते॒ यन्मीय॑ते॒-तदे॒वास्यै॒तेनाऽऽ *प्या॑यय॒त्या तुभ्य॒मिन्द्रः॑ प्यायता॒मा त्वमिन्द्रा॑य प्याय॒स्वेत्या॑-हो॒भावे॒वेन्द्रं॑ च॒ सोमं॒ चाऽऽ*प्या॑यय॒त्या प्या॑यय॒ सखी᳚न्थ् स॒न्या मे॒धयेत्या॑ह॒र्त्विजो॒ वा अ॑स्य॒ सखा॑य॒स्ताने॒वाऽऽ*प्या॑ययति स्व॒स्ति ते॑ देव सोम सु॒त्याम॑शी॒ये- [ ]
▶ पदपाठः (Word-by-word)
ए॒व । अ॒स्य॒ । अ॒पु॒वा॒यते᳚ । यत् । मीय॑ते । तत् । ए॒व । अ॒स्य॒ । ए॒तेन॑ । एति॑ । प्या॒य॒य॒ति॒ । एति॑ । तुभ्य᳚म् । इन्द्रः॑ । प्या॒य॒ता॒म् । एति॑ । त्वम् । इन्द्रा॑य । प्या॒य॒स्व॒ । इति॑ । आ॒ह॒ । उ॒भौ । ए॒व । इन्द्र᳚म् । च॒ । सोम᳚म् । च॒ । एति॑ । प्या॒य॒य॒ति॒ । एति॑ । प्या॒य॒य॒ । सखीन्॑ । स॒न्या । मे॒धया᳚ । इति॑ । आ॒ह॒ । ऋ॒त्विजः॑ । वै । अ॒स्य॒ । सखा॑यः । तान् । ए॒व । एति॑ । प्या॒य॒य॒ति॒ । स्व॒स्ति । ते॒ । दे॒व॒ । सो॒म॒ । सु॒त्याम् । अ॒शी॒य॒ ।
पदसंख्या: 50
TS 6.2.2.6 TS 6.2.2.6
-त्या॑हा॒ ऽऽ*शिष॑मे॒वैतामा शा᳚स्ते॒ प्र वा ए॒ते᳚ऽस्मा-ल्लो॒काच्च्य॑वन्ते॒ ये सोम॑मा-प्या॒यय॑न्त्य-न्तरिक्षदेव॒त्यो॑ हि सोम॒ आप्या॑यित॒ एष्टा॒ रायः॒ प्रेषे भगा॒येत्या॑ह॒ द्यावा॑पृथि॒वीभ्या॑मे॒व न॑म॒स्कृत्या॒स्मिन् ॅलो॒के प्रति॑ तिष्ठन्ति देवासु॒राः संॅय॑त्ता आस॒न् ते दे॒वा बिभ्य॑तो॒ऽग्निं प्रावि॑श॒न् तस्मा॑दाहुर॒ग्निः सर्वा॑ दे॒वता॒ इति॒ ते᳚- [ ]
▶ पदपाठः (Word-by-word)
इति॑ । आ॒ह॒ । आ॒शिष॒मित्या᳚-शिष᳚म् । ए॒व । ए॒ताम् । एति॑ । शा॒स्ते॒ । प्रेति॑ । वै । ए॒ते । अ॒स्मात् । लो॒कात् । च्य॒व॒न्ते॒ । ये । सोम᳚म् । आ॒प्या॒यय॒न्तीत्या᳚-प्या॒यय॑न्ति । अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष-दे॒व॒त्यः॑ । हि । सोमः॑ । आप्या॑यित॒ इत्या - प्या॒यि॒तः॒ । एष्टः॑ । रायः॑ । प्रेति॑ । इ॒षे । भगा॑य । इति॑ । आ॒ह॒ । द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । ए॒व । न॒म॒स्कृत्येति॑ नमः - कृत्य॑ । अ॒स्मिन्न् । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । दे॒वाः । बिभ्य॑तः । अ॒ग्निम् । प्रेति॑ । अ॒वि॒श॒न्न् । तस्मा᳚त् । आ॒हुः॒ । अ॒ग्निः । सर्वाः᳚ । दे॒वताः᳚ । इति॑ । ते ।
पदसंख्या: 50
TS 6.2.2.7 TS 6.2.2.7
ऽग्निमे॒व वरू॑थं कृ॒त्वा ऽसु॑रान॒भ्य॑भव-न्न॒ग्निमि॑व॒ खलु॒ वा ए॒ष प्रवि॑शति॒ यो॑ऽवान्तरदी॒क्षामु॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा᳚ऽस्य॒ भ्रातृ॑व्यो भवत्या॒त्मान॑मे॒व दी॒क्षया॑ पाति प्र॒जाम॑वान्तरदी॒क्षया॑ सन्त॒रां मेख॑लाꣳ स॒माय॑च्छते प्र॒जा ह्या᳚त्मनोऽन्त॑रतरा त॒प्तव्र॑तो भवति॒ मद॑न्तीभिर्मार्जयते॒ निर्ह्य॑ग्निः शी॒तेन॒ वाय॑ति॒ समि॑द्ध्यै॒ या ते॑ अग्ने॒ ( ) रुद्रि॑या त॒नूरित्या॑ह॒ स्वयै॒वैन॑द् दे॒वत॑या व्रतयति सयोनि॒त्वाय॒ शान्त्यै᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निम् । ए॒व । वरू॑थम् । कृ॒त्वा । असु॑रान् । अ॒भीति॑ । अ॒भ॒व॒न्न् । अ॒ग्निम् । इ॒व॒ । खलु॑ । वै । ए॒षः । प्रेति॑ । वि॒श॒ति॒ । यः । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । उ॒पैतीत्यु॑प - एति॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ । परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । आ॒त्मान᳚म् । ए॒व । दी॒क्षया᳚ । पा॒ति॒ । प्र॒जामिति॑ प्र - जाम् । अ॒वा॒न्त॒र॒दी॒क्षयेत्य॑वान्तर - दी॒क्षया᳚ । स॒न्त॒रामिति॑ सं - त॒राम् । मेख॑लाम् । स॒माय॑च्छत॒ इति॑ सं - आय॑च्छते । प्रजेति॑ प्र - जा । हि । आ॒त्मनः॑ । अन्त॑रत॒रेत्यन्त॑र - त॒रा॒ । त॒प्तव्र॑त॒ इति॑ त॒प्त - व्र॒तः॒ । भ॒व॒ति॒ । मद॑न्तीभिः । मा॒र्ज॒य॒ते॒ । निरिति॑ । हि । अ॒ग्निः । शी॒तेन॑ । वाय॑ति । समि॑द्ध्या॒ इति॒ सं-इ॒द्ध्यै॒ । या । ते॒ । अ॒ग्ने॒ ( ) । रुद्रि॑या । त॒नूः । इति॑ । आ॒ह॒ । स्वया᳚ । ए॒व । ए॒न॒त् । दे॒वत॑या । व्र॒त॒य॒ति॒ । स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । शान्त्यै᳚ ॥
पदसंख्या: 61

अनुवाकः 3 (5 पञ्चाशत्)

TS 6.2.3.1 TS 6.2.3.1
तेषा॒मसु॑राणां ति॒स्रः पुर॑ आस-न्नय॒स्म-य्य॑व॒माऽथ॑ रज॒ताऽथ॒ हरि॑णी॒ ता दे॒वा जेतुं॒ नाश॑क्नुव॒न् ता उ॑प॒सदै॒वाजि॑गीष॒न् तस्मा॑दाहु॒र्यश्चै॒वं ॅवेद॒ यश्च॒ नोप॒सदा॒ वै म॑हापु॒रं ज॑य॒न्तीति॒ त इषुꣳ॒॒ सम॑स्कुर्वता॒- ग्निमनी॑कꣳ॒॒ सोमꣳ॑ श॒ल्यं ॅविष्णुं॒ तेज॑नं॒ ते᳚ऽब्रुव॒न् क इ॒माम॑सिष्य॒तीति॑- [ ]
▶ पदपाठः (Word-by-word)
तेषा᳚म् । असु॑राणाम् । ति॒स्रः । पुरः॑ । आ॒स॒न्न् । अ॒य॒स्मयी᳚ । अ॒व॒मा । अथ॑ । र॒ज॒ता । अथ॑ । हरि॑णी । ताः । दे॒वाः । जेतु᳚म् । न । अ॒श॒क्नु॒व॒न्न् । ताः । उ॒प॒सदेत्यु॑प - सदा᳚ । ए॒व । अ॒जि॒गी॒ष॒न्न् । तस्मा᳚त् । आ॒हुः॒ । यः । च॒ । ए॒वम् । वेद॑ । यः । च॒ । न । उ॒प॒सदेत्यु॑प - सदा᳚ । वै । म॒हा॒पु॒रमिति॑ महा - पु॒रम् । ज॒य॒न्ति॒ । इति॑ । ते । इषु᳚म् । समिति॑ । अ॒कु॒र्व॒त॒ । अ॒ग्निम् । अनी॑कम् । सोम᳚म् । श॒ल्यम् । विष्णु᳚म् । तेज॑नम् । ते । अ॒ब्रु॒व॒न्न् । कः । इ॒माम् । अ॒सि॒ष्य॒ति॒ । इति॑ ।
पदसंख्या: 50
TS 6.2.3.2 TS 6.2.3.2
रु॒द्र इत्य॑ब्रुवन् रु॒द्रो वै क्रू॒रः सो᳚ऽस्य॒त्विति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणा अ॒हमे॒व प॑शू॒ना-मधि॑पतिरसा॒नीति॒ तस्मा᳚द् रु॒द्रः प॑शू॒ना-मधि॑पति॒स्ताꣳ रु॒द्रोऽवा॑सृज॒थ् स ति॒स्रः पुरो॑ भि॒त्त्वैभ्यो लो॒केभ्यो- ऽसु॑रा॒न् प्राणु॑दत॒ यदु॑प॒सद॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्यै॒ नान्यामाहु॑तिं पु॒रस्ता᳚-ज्जुहुया॒द्-यद॒न्यामाहु॑तिं पु॒रस्ता᳚ज्जुहु॒या- [ ]
▶ पदपाठः (Word-by-word)
रु॒द्रः । इति॑ । अ॒ब्रु॒व॒न्न् । रु॒द्रः । वै । क्रू॒रः । सः । अ॒स्य॒तु॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । अ॒हम् । ए॒व । प॒शू॒नाम् । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒सा॒नि॒ । इति॑ । तस्मा᳚त् । रु॒द्रः । प॒शू॒नाम् । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । ताम् । रु॒द्रः । अवेति॑ । अ॒सृ॒ज॒त् । सः । ति॒स्रः । पुरः॑ । भि॒त्वा । ए॒भ्यः । लो॒केभ्यः॑ । असु॑रान् । प्रेति॑ । अ॒नु॒द॒त॒ । यत् । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उ॒प॒स॒द्यन्त॒ इत्यु॑प-स॒द्यन्ते᳚ । भ्रातृ॑व्यपराणुत्या॒ इति॒ भ्रातृ॑व्य-प॒रा॒णु॒त्यै॒ । न । अ॒न्याम् । आहु॑ति॒मित्या - हु॒ति॒म् । पु॒रस्ता᳚त् । जु॒हु॒या॒त् । यत् । अ॒न्याम् । आहु॑ति॒मित्या - हु॒ति॒म् । पु॒रस्ता᳚त् । जु॒हु॒यात् ।
पदसंख्या: 50
TS 6.2.3.3 TS 6.2.3.3
द॒न्यन्मुखं॑ कुर्याथ् स्रु॒वेणा॑ऽघा॒रमा घा॑रयति य॒ज्ञ्स्य॒ प्रज्ञा᳚त्यै॒ परा॑ङति॒क्रम्य॑ जुहोति॒ परा॑च ए॒वैभ्यो लो॒केभ्यो॒ यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ पुन॑रत्या॒क्रम्यो॑प॒सदं॑ जुहोति प्र॒णुद्यै॒वैभ्यो लो॒केभ्यो॒ भ्रातृ॑व्याञ्जि॒त्वा भ्रा॑तृव्यलो॒क-म॒भ्यारो॑हति दे॒वा वै याः प्रा॒तरु॑प॒सद॑ उ॒पासी॑द॒-न्नह्न॒स्ताभि॒रसु॑रा॒न् प्राणु॑दन्त॒ याः सा॒यꣳ रात्रि॑यै॒ ताभि॒र्यथ् सा॒यं प्रा॑तरुप॒सद॑- [ ]
▶ पदपाठः (Word-by-word)
अ॒न्यत् । मुख᳚म् । कु॒र्या॒त् । स्रु॒वेण॑ । आ॒घा॒रमित्या᳚ - घा॒रम् । एति॑ । घा॒र॒य॒ति॒ । य॒ज्ञ्स्य॑ । प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । पराङ्॑ । अ॒ति॒क्रम्येत्य॑ति - क्रम्य॑ । जु॒हो॒ति॒ । परा॑चः । ए॒व । ए॒भ्यः । लो॒केभ्यः॑ । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । पुनः॑ । अ॒त्या॒क्रम्येत्य॑ति - आ॒क्रम्य॑ । उ॒प॒सद॒मित्यु॑प - सद᳚म् । जु॒हो॒ति॒ । प्र॒णुद्येति॑ प्र - नुद्य॑ । ए॒व । ए॒भ्यः । लो॒केभ्यः॑ । भ्रातृ॑व्यान् । जि॒त्वा । भ्रा॒तृ॒व्य॒लो॒कमिति॑ भ्रातृव्य - लो॒कम् । अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । दे॒वाः । वै । याः । प्रा॒तः । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उ॒पासी॑द॒न्नित्यु॑प - असी॑दन्न् । अह्नः॑ । ताभिः॑ । असु॑रान् । प्रेति॑ । अ॒नु॒द॒न्त॒ । याः । सा॒यम् । रात्रि॑यै । ताभिः॑ । यत् । सा॒यम्प्रा॑त॒रिति॑ सा॒यम् - प्रा॒तः॒ । उ॒प॒सद॒ इत्यु॑प - सदः॑ ।
पदसंख्या: 50
TS 6.2.3.4 TS 6.2.3.4
उपस॒द्यन्ते॑ ऽहोरा॒त्राभ्या॑मे॒व तद्-यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दते॒ याः प्रा॒तर्या॒ज्याः᳚ स्युस्ताः सा॒यं पु॑रोऽनुवा॒क्याः᳚ कुर्या॒दया॑तयामत्वाय ति॒स्र उ॑प॒सद॒ उपै॑ति॒ त्रय॑ इ॒मे लो॒का इ॒माने॒व लो॒कान् प्री॑णाति॒ षट्थ् सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तूने॒व प्री॑णाति॒ द्वाद॑शा॒हीने॒ सोम॒ उपै॑ति॒ द्वाद॑श॒ मासाः᳚ संॅवथ्स॒रः स॑वंथ्स॒रमे॒व प्री॑णाति॒ चतु॑र्विꣳशतिः॒ सं- [ ]
▶ पदपाठः (Word-by-word)
उ॒प॒स॒द्यन्त॒ इत्यु॑प - स॒द्यन्ते᳚ । अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । याः । प्रा॒तः । या॒ज्याः᳚ । स्युः । ताः । सा॒यम् । पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । कु॒र्या॒त् । अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । ति॒स्रः । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उपेति॑ । ए॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । इ॒मान् । ए॒व । लो॒कान् । प्री॒णा॒ति॒ । षट् । समिति॑ । प॒द्य॒न्ते॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तून् । ए॒व । प्री॒णा॒ति॒ । द्वाद॑श । अ॒हीने᳚ । सोमे᳚ । उपेति॑ । ए॒ति॒ । द्वाद॑श । मासाः᳚ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । प्री॒णा॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । समिति॑ ।
पदसंख्या: 50
TS 6.2.3.5 TS 6.2.3.5
प॑द्यन्ते॒ चतु॑र्विꣳशति-रर्द्धमा॒सा अ॑र्द्धमा॒साने॒व प्री॑णा॒त्यारा᳚ग्रा-मवान्तरदी॒क्षा-मुपे॑या॒द्यः का॒मये॑ता॒ऽस्मिन् मे॑ लो॒केऽर्द्धु॑कꣳ स्या॒दित्येक॒मग्रेऽथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ ए॒षा वा आरा᳚ग्रा ऽवान्तरदी॒क्षा ऽस्मिन्ने॒वास्मै॑ लो॒केऽर्द्धु॑कं भवति प॒रोव॑रीयसी-मवान्तरदी॒क्षा-मुपे॑या॒द्यः का॒मये॑ता॒मुष्मि॑न् मे लो॒केऽर्द्धु॑कꣳ स्या॒दिति॑ च॒तुरोऽग्रे ( ) ऽथ॒ त्रीनथ॒ द्वावथैक॑मे॒षा वै प॒रोव॑रीयस्य-वान्तरदी॒क्षा ऽमुष्मि॑न्ने॒वास्मै॑ लो॒केऽर्द्धु॑कं भवति ॥
▶ पदपाठः (Word-by-word)
प॒द्य॒न्ते॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । अ॒द्‌र्ध॒मा॒सानित्य॑र्ध - मा॒सान् । ए॒व । प्री॒णा॒ति॒ । आरा᳚ग्रा॒मित्यारा᳚ - अ॒ग्रा॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । उपेति॑ । इ॒या॒त् । यः । का॒मये॑त । अ॒स्मिन्न् । मे॒ । लो॒के । अद्‌र्धु॑कम् । स्या॒त् । इति॑ । एक᳚म् । अग्रे᳚ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒षा । वै । आरा॒ग्रेत्यारा᳚ - अ॒ग्रा॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । अ॒स्मिन्न् । ए॒व । अ॒स्मै॒ । लो॒के । अद्‌र्धु॑कम् । भ॒व॒ति॒ । प॒रोव॑रीयसी॒मिति॑ प॒रः - व॒री॒य॒सी॒म् । अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । उपेति॑ । इ॒या॒त् । यः । का॒मये॑त । अ॒मुष्मिन्न्॑ । मे॒ । लो॒के । अद्‌र्धु॑कम् । स्या॒त् । इति॑ । च॒तुरः॑ । अग्रे᳚ ( ) । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक᳚म् । ए॒षा । वै । प॒रोव॑रीय॒सीति॑ प॒रः - व॒री॒य॒सि॒ । अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । अ॒मुष्मिन्न्॑ । ए॒व । अ॒स्मै॒ । लो॒के । अद्‌र्धु॑कम् । भ॒व॒ति॒ ॥
पदसंख्या: 66

अनुवाकः 4 (5 पञ्चाशत्)

TS 6.2.4.1 TS 6.2.4.1
सु॒व॒र्गं ॅवा ए॒ते लो॒कं ॅय॑न्ति॒ य उ॑प॒सद॑ उप॒यन्ति॒ तेषां॒ ॅय उ॒न्नय॑ते॒ हीय॑त ए॒व स नोद॑ने॒षीति॒ सू᳚न्नीयमिव॒ यो वै स्वा॒र्थेतां᳚ ॅय॒ताꣳ श्रा॒न्तो हीय॑त उ॒त स नि॒ष्ट्याय॑ स॒ह व॑सति॒ तस्मा᳚थ् स॒कृदु॒न्नीय॒ नाप॑र॒मुन्न॑येत द॒द्ध्नोन्न॑येतै॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒व प॒शूनव॑ रुन्धे- [ ]
▶ पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । उ॒प॒सद॒ इत्यु॑प - सदः॑ । उ॒प॒यन्तीयु॑प - यन्ति॑ । तेषा᳚म् । यः । उ॒न्नय॑त॒ इत्यु॑त् - नय॑ते । हीय॑ते । ए॒व । सः । न । उदिति॑ । अ॒ने॒षि॒ । इति॑ । सू᳚न्नीय॒मिति॒ सु - उ॒न्नी॒य॒म् । इ॒व॒ । यः । वै । स्वा॒र्थेता॒मिति॑ स्वार्थ-इता᳚म् । य॒ताम् । श्रा॒न्तः । हीय॑ते । उ॒त । सः । नि॒ष्ट्याय॑ । स॒ह । व॒स॒ति॒ । तस्मा᳚त् । स॒कृत् । उ॒न्नीयेत्यु॑त्-नीय॑ । न । अप॑रम् । उदिति॑ । न॒ये॒त॒ । द॒द्ध्ना । उदिति॑ । न॒ये॒त॒ । ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् । रू॒पेण॑ । ए॒व । प॒शून् । अवेति॑ । रु॒न्धे॒ ।
पदसंख्या: 50
TS 6.2.4.2 TS 6.2.4.2
य॒ज्ञो दे॒वेभ्यो॒ निला॑यत॒ विष्णू॑ रू॒पं कृ॒त्वा स पृ॑थि॒वीं प्रावि॑श॒त् तं दे॒वा हस्ता᳚न्थ् सꣳ॒॒ रभ्यै᳚च्छ॒न् तमिन्द्र॑ उ॒पर्यु॑प॒र्यत्य॑क्राम॒थ् सो᳚ऽब्रवी॒त् को मा॒ऽयमु॒पर्यु॑प॒र्यत्य॑क्रमी॒-दित्य॒हं दु॒र्गे हन्तेत्यथ॒ कस्त्वमित्य॒हं दु॒र्गादाह॒र्तेति॒ सो᳚ऽब्रवीद् दु॒र्गे वै हन्ता॑ऽवोचथा वरा॒हो॑ऽयं ॅवा॑ममो॒षः- [ ]
▶ पदपाठः (Word-by-word)
य॒ज्ञ्ः । दे॒वेभ्यः॑ । निला॑यत । विष्णुः॑ । रू॒पम् । कृ॒त्वा । सः । पृ॒थि॒वीम् । प्रेति॑ । अ॒वि॒श॒त् । तम् । दे॒वाः । हस्तान्॑ । सꣳ॒॒रभ्येति॑ सं - रभ्य॑ । ऐ॒च्छ॒न्न् । तम् । इन्द्रः॑ । उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । अतीति॑ । अ॒क्रा॒म॒त् । सः । अ॒ब्र॒वी॒त् । कः । मा॒ । अ॒यम् । उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । अतीति॑ । अ॒क्र॒मी॒त् । इति॑ । अ॒हम् । दु॒र्ग इति॑ दुः - गे । हन्ता᳚ । इति॑ । अथ॑ । कः । त्वम् । इति॑ । अ॒हम् । दु॒र्गादिति॑ दुः - गात् । आह॒र्तेत्या - ह॒र्ता॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । दु॒र्ग इति॑ दुः - गे । वै । हन्ता᳚ । अ॒वो॒च॒थाः॒ । व॒रा॒हः । अ॒यम् । वा॒म॒मो॒ष इति॑ वाम - मो॒षः ।
पदसंख्या: 50
TS 6.2.4.3 TS 6.2.4.3
स॑प्ता॒नां गि॑री॒णां प॒रस्ता᳚द्वि॒त्तं ॅवेद्य॒मसु॑राणां बिभर्ति॒ तं ज॑हि॒ यदि॑ दु॒र्गे हन्ताऽसीति॒ स द॑र्भपुञ्जी॒लमु॒द्-वृह्य॑ स॒प्त गि॒रीन् भि॒त्त्वा तम॑ह॒न्थ् सो᳚ऽब्रवीद् दु॒र्गाद्वा आह॑र्तावोचथा ए॒तमा ह॒रेति॒ तमे᳚भ्यो य॒ज्ञ् ए॒व य॒ज्ञ्माऽह॑र॒द्यत् तद्वि॒त्तं ॅवेद्य॒मसु॑राणा॒-मवि॑न्दन्त॒ तदेकं॒ ॅवेद्यै॑ वेदि॒त्वमसु॑राणां॒- [ ]
▶ पदपाठः (Word-by-word)
स॒प्ता॒नाम् । गि॒री॒णाम् । प॒रस्ता᳚त् । वि॒त्तम् । वेद्य᳚म् । असु॑राणाम् । बि॒भ॒र्ति॒ । तम् । ज॒हि॒ । यदि॑ । दु॒र्ग इति॑ दुः - गे । हन्ता᳚ । असि॑ । इति॑ । सः । द॒र्भ॒पु॒ञ्जी॒लमिति॑ दर्भ - पु॒ञ्जी॒लम् । उ॒द्वृह्येत्यु॑त् - वृह्य॑ । स॒प्त । गि॒रीन् । भि॒त्वा । तम् । अ॒ह॒न्न् । सः । अ॒ब्र॒वी॒त् । दु॒र्गादिति॑ दुः - गात् । वै । आह॒र्तेत्या - ह॒र्ता॒ । अ॒वो॒च॒थाः॒ । ए॒तम् । एति॑ । ह॒र॒ । इति॑ । तम् । ए॒भ्यः॒ । य॒ज्ञ्ः । ए॒व । य॒ज्ञ्म् । एति॑ । अ॒ह॒र॒त् । यत् । तत् । वि॒त्तम् । वेद्य᳚म् । असु॑राणाम् । अवि॑न्दन्त । तत् । एक᳚म् । वेद्यै᳚ । वे॒दि॒त्वमिति॑ वेदि - त्वम् । असु॑राणाम् ।
पदसंख्या: 50
TS 6.2.4.4 TS 6.2.4.4
ॅवा इ॒यमग्र॑ आसी॒द् याव॒दासी॑नः परा॒पश्य॑ति॒ ताव॑द् दे॒वानां॒ ते दे॒वा अ॑ब्रुव॒न्नस्त्वे॒व नो॒ऽस्यामपीति॒ किय॑द्वो दास्याम॒ इति॒ याव॑दि॒यꣳ स॑लावृ॒की त्रिः प॑रि॒क्राम॑ति॒ ताव॑न्नो द॒त्तेति॒ स इन्द्रः॑ सलावृ॒की रू॒पं कृ॒त्वेमां त्रिः स॒र्वतः॒ पर्य॑क्राम॒त् तदि॒माम॑विन्दन्त॒ यदि॒मामवि॑न्दन्त॒ तद् वेद्यै॑ वेदि॒त्वꣳ- [ ]
▶ पदपाठः (Word-by-word)
वै । इ॒यम् । अग्रे᳚ । आ॒सी॒त् । याव॑त् । आसी॑नः । प॒रा॒पश्य॒तीति॑ परा - पश्य॑ति । ताव॑त् । दे॒वाना᳚म् । ते । दे॒वाः । अ॒ब्रु॒व॒न्न् । अस्तु॑ । ए॒व । नः॒ । अ॒स्याम् । अपीति॑ । इति॑ । किय॑त् । वः॒ । दा॒स्या॒मः॒ । इति॑ । याव॑त् । इ॒यम् । स॒ला॒वृ॒की । त्रिः । प॒रि॒क्राम॒तीति॑ परि-क्राम॑ति । ताव॑त् । नः॒ । द॒त्त॒ । इति॑ । सः । इन्द्रः॑ । स॒ला॒वृ॒की । रू॒पम् । कृ॒त्वा । इ॒माम् । त्रिः । स॒र्वतः॑ । परीति॑ । अ॒क्रा॒म॒त् । तत् । इ॒माम् । अ॒वि॒न्द॒न्त॒ । यत् । इ॒माम् । अवि॑न्दन्त । तत् । वेद्यै᳚ । वे॒दि॒त्वमिति॑ वेदि - त्वम् ।
पदसंख्या: 50
TS 6.2.4.5 TS 6.2.4.5
सा वा इ॒यꣳ सर्वै॒व वेदि॒रिय॑ति शक्ष्या॒मीति॒ त्वा अ॑व॒माय॑ यजन्ते त्रिꣳ॒॒शत् प॒दानि॑ प॒श्चात् ति॒रश्ची॑ भवति॒ षट्त्रिꣳ॑श॒त् प्राची॒ चतु॑र्विꣳशतिः पु॒रस्ता᳚त् ति॒रश्ची॒ दश॑दश॒ संप॑द्यन्ते॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्ध॒ उद्ध॑न्ति॒ यदे॒वास्या॑ अमे॒द्ध्यं तदप॑ ह॒न्त्युद्ध॑न्ति॒ तस्मा॒दोष॑धयः॒ परा॑ भवन्ति ( ) ब॒र्॒.हिः स्तृ॑णाति॒ तस्मा॒दोष॑धयः॒ पुन॒रा भ॑व॒न्त्युत्त॑रं ब॒र्॒.हिष॑ उत्तरब॒र्॒.हिः स्तृ॑णाति प्र॒जा वै ब॒र्॒.हिर्यज॑मान उत्तर ब॒र्॒.हि र्यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द्-यज॑मा॒नो ऽय॑जमाना॒दुत्त॑रः ॥
▶ पदपाठः (Word-by-word)
सा । वै । इ॒यम् । सर्वा᳚ । ए॒व । वेदिः॑ । इय॑ति । श॒क्ष्या॒मि॒ । इति॑ । तु । वै । अ॒व॒मायेत्य॑व - माय॑ । य॒ज॒न्ते॒ । त्रिꣳ॒॒शत् । प॒दानि॑ । प॒श्चात् । ति॒रश्ची᳚ । भ॒व॒ति॒ । षट्त्रिꣳ॑श॒दिति॒ षट् - त्रिꣳ॒॒श॒त् । प्राची᳚ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । पु॒रस्ता᳚त् । ति॒रश्ची᳚ । दश॑द॒शेति॒ दश॑-द॒श॒ । समिति॑ । प॒द्य॒न्ते॒ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्धे॒ । उदिति॑ । ह॒न्ति॒ । यत् । ए॒व । अ॒स्याः॒ । अ॒मे॒द्ध्यम् । तत् । अपेति॑ । ह॒न्ति॒ । उदिति॑ । ह॒न्ति॒ । तस्मा᳚त् । ओष॑धयः । परेति॑ । भ॒व॒न्ति॒ ( ) । ब॒र्॒.हिः । स्तृ॒णा॒ति॒ । तस्मा᳚त् । ओष॑धयः । पुनः॑ । एति॑ । भ॒व॒न्ति॒ । उत्त॑र॒मित्युत् - त॒र॒म् । ब॒र्॒.हिषः॑ । उ॒त्त॒र॒ब॒र्॒.हिरित्यु॑त्तर - ब॒र्॒.हिः । स्तृ॒णा॒ति॒ । प्र॒जा इति॑ प्र - जाः । वै । ब॒र्॒.हिः । यज॑मानः । उ॒त्त॒र॒ब॒र॒.हिरित्यु॑त्तर - ब॒र॒.हिः । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ ॥
पदसंख्या: 75

अनुवाकः 5 (5 पञ्चाशत्)

TS 6.2.5.1 TS 6.2.5.1
यद्वा अनी॑शानो भा॒रमा॑द॒त्ते वि वै स लि॑शते॒ यद् द्वाद॑श सा॒ह्नस्यो॑प॒सदः॒ स्युस्ति॒स्त्रो॑ऽहीन॑स्य य॒ज्ञ्स्य॒ विलो॑म क्रियेत ति॒स्र ए॒व सा॒ह्नस्यो॑प॒सदो॒ द्वाद॑शा॒हीन॑स्य य॒ज्ञ्स्य॑ सवीर्य॒त्वायाथो॒ सलो॑म क्रियते व॒थ्सस्यैकः॒ स्तनो॑ भा॒गी हि सोऽथैकꣳ॒॒ स्तनं॑ ॅव्र॒तमुपै॒त्यथ॒ द्वावथ॒ त्रीनथ॑ च॒तुर॑ एतद्वै- [ ]
▶ पदपाठः (Word-by-word)
यत् । वै । अनी॑शानः । भा॒रम् । आ॒द॒त्त इत्या᳚ - द॒त्ते । वीति॑ । वै । सः । लि॒श॒ते॒ । यत् । द्वाद॑श । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । स्युः । ति॒स्त्रः । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒ये॒त॒ । ति॒स्रः । ए॒व । सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । उ॒प॒सद॒ इत्यु॑प - सदः॑ । द्वाद॑श । अ॒हीन॑स्य । य॒ज्ञ्स्य॑ । स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । अथो॒ इति॑ । सलो॒मेति॒ स-लो॒म॒ । क्रि॒य॒ते॒ । व॒थ्सस्य॑ । एकः॑ । स्तनः॑ । भा॒गी । हि । सः । अथ॑ । एक᳚म् । स्तन᳚म् । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । द्वौ । अथ॑ । त्रीन् । अथ॑ । च॒तुरः॑ । ए॒तत् । वै ।
पदसंख्या: 50
TS 6.2.5.2 TS 6.2.5.2
क्षु॒रप॑वि॒ नाम॑ व्र॒तं ॅयेन॒ प्र जा॒तान् भ्रातृ॑व्यान् नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णा॒नथो॒ कनी॑यसै॒व भूय॒ उपै॑ति च॒तुरोऽग्रे॒ स्तना᳚न् व्र॒तमुपै॒त्यथ॒ त्रीनथ॒ द्वावथैक॑मे॒तद्वै सु॑जघ॒नं नाम॑ व्र॒तं त॑प॒स्यꣳ॑ सुव॒र्ग्य॑मथो॒ प्रैव जा॑यते प्र॒जया॑ प॒शुभि॑र्यवा॒गू रा॑ज॒न्य॑स्य व्र॒तं क्रू॒रेव॒ वै य॑वा॒गूः क्रू॒र इ॑व- [ ]
▶ पदपाठः (Word-by-word)
क्षु॒रप॒वीति॑ क्षु॒र - प॒वि॒ । नाम॑ । व्र॒तम् । येन॑ । प्रेति॑ । जा॒तान् । भ्रातृ॑व्यान् । नु॒दते᳚ । प्रतीति॑ । ज॒नि॒ष्यमा॑णान् । अथो॒ इति॑ । कनी॑यसा । ए॒व । भूयः॑ । उपेति॑ । ए॒ति॒ । च॒तुरः॑ । अग्रे᳚ । स्तनान्॑ । व्र॒तम् । उपेति॑ । ए॒ति॒ । अथ॑ । त्रीन् । अथ॑ । द्वौ । अथ॑ । एक᳚म् । ए॒तत् । वै । सु॒ज॒घ॒नमिति॑ सु - ज॒घ॒नम् । नाम॑ । व्र॒तम् । त॒प॒स्य᳚म् । सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । अथो॒ इति॑ । प्रेति॑ । ए॒व । जा॒य॒ते॒ । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । य॒वा॒गूः । रा॒ज॒न्य॑स्य । व्र॒तम् । क्रू॒रा । इ॒व॒ । वै । य॒वा॒गूः । क्रू॒रः । इ॒व॒ ।
पदसंख्या: 50
TS 6.2.5.3 TS 6.2.5.3
राज॒न्यो॑ वज्र॑स्य रू॒पꣳ समृ॑द्ध्या आ॒मिक्षा॒ वैश्य॑स्य पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै॒ पयो᳚ ब्राह्म॒णस्य॒ तेजो॒ वै ब्रा᳚ह्म॒णस्तेजः॒ पय॒स्तेज॑सै॒व तेजः॒ पय॑ आ॒त्मन् ध॒त्ते ऽथो॒ पय॑सा॒ वै गर्भा॑ वर्द्धन्ते॒ गर्भ॑ इव॒ खलु॒ वा ए॒ष यद् दी᳚क्षि॒तो यद॑स्य॒ पयो᳚ व्र॒तं भव॑त्या॒त्मान॑मे॒व तद् व॑र्द्धयति॒ त्रिव्र॑तो॒ वै मनु॑रासी॒द् द्विव्र॑ता॒ असु॑रा॒ एक॑व्रता- [ ]
▶ पदपाठः (Word-by-word)
रा॒ज॒न्यः॑ । वज्र॑स्य । रू॒पम् । समृ॑द्ध्या॒ इति॒ सं-ऋ॒द्ध्यै॒ । आ॒मिक्षा᳚ । वैश्य॑स्य । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । पयः॑ । ब्रा॒ह्म॒णस्य॑ । तेजः॑ । वै । ब्रा॒ह्म॒णः । तेजः॑ । पयः॑ । तेज॑सा । ए॒व । तेजः॑ । पयः॑ । आ॒त्मन्न् । ध॒त्ते॒ । अथो॒ इति॑ । पय॑सा । वै । गर्भाः᳚ । व॒द्‌र्ध॒न्ते॒ । गर्भः॑ । इ॒व॒ । खलु॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । यत् । अ॒स्य॒ । पयः॑ । व्र॒तम् । भव॑ति । आ॒त्मान᳚म् । ए॒व । तत् । व॒द्‌र्ध॒य॒ति॒ । त्रिव्र॑त॒ इति॒ त्रि - व्र॒तः॒ । वै । मनुः॑ । आ॒सी॒त् । द्विव्र॑ता॒ इति॒ द्वि - व्र॒ताः॒ । असु॑राः । एक॑व्रता॒ इत्येक॑ - व्र॒ताः॒ ।
पदसंख्या: 50
TS 6.2.5.4 TS 6.2.5.4
दे॒वाः प्रा॒तर्म॒द्ध्यंदि॑ने सा॒यं तन् मनो᳚र्व्र॒तमा॑सीत् पाकय॒ज्ञ्स्य॑ रू॒पं पुष्ट्यै᳚ प्रा॒तश्च॑ सा॒यं चासु॑राणां निर्म॒द्ध्यं क्षु॒धो रू॒पं तत॒स्ते परा॑ऽभवन् म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे दे॒वानां॒ तत॒स्ते॑ऽभवन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. यद॑स्य म॒द्ध्यंदि॑ने मद्ध्यरा॒त्रे व्र॒तं भव॑ति मद्ध्य॒तो वा अन्ने॑न भुञ्जते मद्ध्य॒त ए॒व तदूर्जं॑ धत्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒- [ ]
▶ पदपाठः (Word-by-word)
दे॒वाः । प्रा॒तः । म॒द्ध्यन्दि॑ने । सा॒यम् । तत् । मनोः᳚ । व्र॒तम् । आ॒सी॒त् । पा॒क॒य॒ज्ञ्स्येति॑ पाक - य॒ज्ञ्स्य॑ । रू॒पम् । पुष्ट्यै᳚ । प्रा॒तः । च॒ । सा॒यम् । च॒ । असु॑राणाम् । नि॒र्म॒द्ध्यमिति॑ निः-म॒द्ध्यम् । क्षु॒धः । रू॒पम् । ततः॑ । ते । परेति॑ । अ॒भ॒व॒न्न् । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य - रा॒त्रे । दे॒वाना᳚म् । ततः॑ । ते । अ॒भ॒व॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । यत् । अ॒स्य॒ । म॒द्ध्यन्दि॑ने । म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य-रा॒त्रे । व्र॒तम् । भव॑ति । म॒द्ध्य॒तः । वै । अन्ने॑न । भु॒ञ्ज॒ते॒ । म॒द्ध्य॒तः । ए॒व । तत् । ऊर्ज᳚म् । ध॒त्ते॒ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । भव॑ति । आ॒त्मना᳚ ।
पदसंख्या: 50
TS 6.2.5.5 TS 6.2.5.5
परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति॒ गर्भो॒ वा ए॒ष यद् दी᳚क्षि॒तो योनि॑ र्दीक्षितविमि॒तं ॅयद् दी᳚क्षि॒तो दी᳚क्षितविमि॒तात् प्र॒वसे॒द् यथा॒ योने॒र्गर्भः॒ स्कन्द॑ति ता॒दृगे॒व तन्न प्र॑वस्त॒व्य॑मा॒त्मनो॑ गोपी॒थायै॒ष वै व्या॒घ्रः कु॑लगो॒पो यद॒ग्निस्तस्मा॒द् यद् दी᳚क्षि॒तः प्र॒वसे॒थ् स ए॑नमीश्व॒रो॑ऽनू॒त्थाय॒ हन्तो॒र्न प्र॑वस्त॒व्य॑मा॒त्मनो॒ गुप्त्यै॑ दक्षिण॒तः श॑य ए॒तद्वै यज॑मानस्या॒ ( ) ऽऽ*यत॑नꣳ॒॒स्व ए॒वाऽऽ*यत॑ने शये॒ ऽग्निम॑भ्या॒वृत्य॑ शये दे॒वता॑ ए॒व य॒ज्ञ्म॑भ्या॒वृत्य॑ शये ॥
▶ पदपाठः (Word-by-word)
परेति॑ । अ॒स्य॒ । भ्रातृ॑व्यः । भ॒व॒ति॒ । गर्भः॑ । वै । ए॒षः । यत् । दी॒क्षि॒तः । योनिः॑ । दी॒क्षि॒त॒वि॒मि॒तमिति॑ दीक्षित - वि॒मि॒तम् । यत् । दी॒क्षि॒तः । दी॒क्षि॒त॒वि॒मि॒तादिति॑ दीक्षित - वि॒मि॒तात् । प्र॒वसे॒दिति॑ प्र - वसे᳚त् । यथा᳚ । योनेः᳚ । गर्भः॑ । स्कन्द॑ति । ता॒दृक् । ए॒व । तत् । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । आ॒त्मनः॑ । गो॒पी॒थाय॑ । ए॒षः । वै । व्या॒घ्रः । कु॒ल॒गो॒प इति॑ कुल - गो॒पः । यत् । अ॒ग्निः । तस्मा᳚त् । यत् । दी॒क्षि॒तः । प्र॒वसे॒दिति॑ प्र - वसे᳚त् । सः । ए॒न॒म् । ई॒श्व॒रः । अ॒नू॒त्थायेत्य॑नु - उ॒त्थाय॑ । हन्तोः᳚ । न । प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । आ॒त्मनः॑ । गुप्त्यै᳚ । द॒क्षि॒ण॒तः । श॒ये॒ । ए॒तत् । वै । यज॑मानस्य ( ) । आ॒यत॑न॒मित्या᳚ - यत॑नम् । स्वे । ए॒व । आ॒यत॑न॒ इत्या᳚-यत॑ने । श॒ये॒ । अ॒ग्निम् । अ॒भ्या॒वृत्येत्य॑भि-आ॒वृत्य॑ । श॒ये॒ । दे॒वताः᳚ । ए॒व । य॒ज्ञ्म् । अ॒भ्या॒वृत्येत्य॑भि -आ॒वृत्य॑ । श॒ये॒ ॥
पदसंख्या: 63

अनुवाकः 6 (4 पञ्चाशत्)

TS 6.2.6.1 TS 6.2.6.1
पु॒रोह॑विषि देव॒यज॑ने याजये॒द्यं का॒मये॒तोपै॑न॒मुत्त॑रो य॒ज्ञो न॑मेद॒भि सु॑व॒र्गं ॅलो॒कं ज॑ये॒दित्ये॒तद्वै पु॒रोह॑विर्देव॒यज॑नं॒ ॅयस्य॒ होता᳚ प्रातरनुवा॒क -म॑नुब्रु॒व-न्न॒ग्निम॒प आ॑दि॒त्यम॒भि वि॒पश्य॒त्युपै॑न॒मुत्त॑रो य॒ज्ञो न॑मत्य॒भि सु॑व॒र्गं ॅलो॒कं ज॑यत्या॒प्ते दे॑व॒यज॑ने याजये॒द् -भ्रातृ॑व्यवन्तं॒ पन्थां᳚ ॅवाऽधिस्प॒र्॒.शये᳚त् क॒र्तं ॅवा॒ याव॒न्नान॑से॒ यात॒वै- [ ]
▶ पदपाठः (Word-by-word)
पु॒रोह॑वि॒षीति॑ पु॒रः-ह॒वि॒षि॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । यम् । का॒मये॑त । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत् - त॒रः॒ । य॒ज्ञ्ः । न॒मे॒त् । अ॒भीति॑ । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । ज॒ये॒त् । इति॑ । ए॒तत् । वै । पु॒रोह॑वि॒रिति॑ पु॒रः-ह॒विः॒ । दे॒व॒यज॑न॒मिति॑ देव-यज॑नम् । यस्य॑ । होता᳚ । प्रा॒त॒र॒नु॒वा॒कमिति॑ प्रातः-अ॒नु॒वा॒कम् । अ॒नु॒ब्रु॒वन्नित्य॑नु - ब्रु॒वन्न् । अ॒ग्निम् । अ॒पः । आ॒दि॒त्यम् । अ॒भीति॑ । वि॒पश्य॒तीति॑ वि-पश्य॑ति । उपेति॑ । ए॒न॒म् । उत्त॑र॒ इत्युत् - त॒रः॒ । य॒ज्ञ्ः । न॒म॒ति॒ । अ॒भीति॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ज॒य॒ति॒ । आ॒प्ते । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । भ्रातृ॑व्यवन्त॒मिति॒ भ्रातृ॑व्य - व॒न्त॒म् । पन्था᳚म् । वा॒ । अ॒धि॒स्प॒र्॒.॒शये॒दित्य॑धि-स्प॒र्॒.शये᳚त् । क॒र्तम् । वा॒ । याव॑त् । न । अन॑से । यात॒वै ।
पदसंख्या: 50
TS 6.2.6.2 TS 6.2.6.2
न रथा॑यै॒तद्वा आ॒प्तं दे॑व॒यज॑नमा॒प्नोत्ये॒व भ्रातृ॑व्यं॒ नैनं॒ भ्रातृ॑व्य आप्नो॒त्येको᳚न्नते देव॒य॑जने याजयेत् प॒शुका॑म॒-मेको᳚न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः प॒शून॑सृजन्तान्त॒रा स॑दोहविर्द्धा॒ने उ॑न्न॒तꣳ स्या॑दे॒तद्वा एको᳚न्नतं देव॒यज॑नं पशु॒माने॒व भ॑वति॒ त्र्यु॑न्नते देव॒यज॑ने याजयेथ् सुव॒र्गका॑मं॒ त्र्यु॑न्नता॒द्वै दे॑व॒यज॑ना॒दङ्गि॑रसः सुव॒र्गं ॅलो॒कमा॑य-न्नन्त॒रा ऽऽह॑व॒नीयं च हवि॒र्द्धानं॑ चो- [ ]
▶ पदपाठः (Word-by-word)
न । रथा॑य । ए॒तत् । वै । आ॒प्तम् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । आ॒प्नोति॑ । ए॒व । भ्रातृ॑व्यम् । न । ए॒न॒म् । भ्रातृ॑व्यः । आ॒प्नो॒ति॒ । एको᳚न्नत॒ इत्येक॑-उ॒न्न॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । या॒ज॒ये॒त् । प॒शुका॑म॒मिति॑ प॒शु - का॒म॒म् । एको᳚न्नता॒दित्येक॑ - उ॒न्न॒ता॒त् । वै । दे॒व॒यज॑ना॒दिति॑ देव - यज॑नात् । अङ्गि॑रसः । प॒शून् । अ॒सृ॒ज॒न्त॒ । अ॒न्त॒रा । स॒दो॒ह॒वि॒द्‌र्धा॒ने इति॑ सदः-ह॒वि॒द्‌र्धा॒ने । उ॒न्न॒तमित्यु॑त् - न॒तम् । स्या॒त् । ए॒तत् । वै । एको᳚न्नत॒मित्येक॑ - उ॒न्न॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । त्र्यु॑न्नत॒ इति॒ त्रि - उ॒न्न॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । या॒ज॒ये॒त् । सु॒व॒र्गका॑म॒मिति॑ सुव॒र्ग - का॒म॒म् । त्र्यु॑न्नता॒दिति॒ त्रि - उ॒न्न॒ता॒त् । वै । दे॒व॒यज॑ना॒दिति॑ देव - यज॑नात् । अङ्गि॑रसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । अ॒न्त॒रा । आ॒ह॒व॒नीय॒मित्या᳚-ह॒व॒नीय᳚म् । च॒ । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ ।
पदसंख्या: 50
TS 6.2.6.3 TS 6.2.6.3
-न्न॒तꣳ स्या॑दन्त॒रा ह॑वि॒र्द्धानं॑ च॒ सद॑श्चान्त॒रा सद॑श्च॒ गार्.ह॑पत्यं चै॒तद्वै त्र्यु॑न्नतं देव॒यज॑नꣳ सुव॒र्गमे॒व लो॒कमे॑ति॒ प्रति॑ष्ठिते देव॒यज॑ने याजयेत् प्रति॒ष्ठाका॑ममे॒तद्वै प्रति॑ष्ठितं देव॒यज॑नं॒ ॅयथ् स॒र्वतः॑ स॒मं प्रत्ये॒व ति॑ष्ठति॒ यत्रा॒न्या अ॑न्या॒ ओष॑धयो॒ व्यति॑षक्ताः॒ स्युस्तद्-या॑जयेत् प॒शुका॑ममे॒तद्वै प॑शू॒नाꣳ रू॒पꣳ रू॒पेणै॒वास्मै॑ प॒शू- [ ]
▶ पदपाठः (Word-by-word)
उ॒न्न॒तमित्यु॑त् - न॒तम् । स्या॒त् । अ॒न्त॒रा । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । च॒ । सदः॑ । च॒ । अ॒न्त॒रा । सदः॑ । च॒ । गार्.ह॑पत्य॒मिति॒ गार्.ह॑ - प॒त्य॒म् । च॒ । ए॒तत् । वै । त्र्यु॑न्नत॒मिति॒ त्रि - उ॒न्न॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । ए॒ति॒ । प्रति॑ष्ठित॒ इति॒ प्रति॑ - स्थि॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । या॒ज॒ये॒त् । प्र॒ति॒ष्ठाका॑म॒मिति॑ प्रति॒ष्ठा - का॒म॒म् । ए॒तत् । वै । प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒तम्॒ । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । यत् । स॒र्वतः॑ । स॒मम् । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यत्र॑ । अ॒न्या‌अ॑न्या॒ इत्य॒न्याः - अ॒न्याः॒ । ओष॑धयः । व्यति॑षक्ता॒ इति॑ वि - अति॑षक्ताः । स्युः । तत् । या॒ज॒ये॒त् । प॒शुका॑म॒मिति॑ प॒शु - का॒म॒म् । ए॒तत् । वै । प॒शू॒नाम् । रू॒पम् । रू॒पेण॑ । ए॒व । अ॒स्मै॒ । प॒शून् ।
पदसंख्या: 50
TS 6.2.6.4 TS 6.2.6.4
नव॑ रुन्धे पशु॒माने॒व भ॑वति॒ निर्.ऋ॑तिगृहीते देव॒यज॑ने याजये॒द्यं का॒मये॑त॒ निर्.ऋ॑त्यास्य य॒ज्ञ्ं ग्रा॑हयेय॒मित्ये॒तद्वै निर्.ऋ॑तिगृहीतं देव॒यज॑नं॒ ॅयथ् स॒दृश्यै॑ स॒त्या॑ ऋ॒क्षं निर्.ऋ॑त्यै॒वास्य॑ य॒ज्ञ्ं ग्रा॑हयति॒ व्यावृ॑त्ते देव॒यज॑ने याजयेद् व्या॒वृत्का॑मं॒ ॅयं पात्रे॑ वा॒ तल्पे॑ वा॒ मीमाꣳ॑सेरन् प्रा॒चीन॑माहव॒नीया᳚त् प्रव॒णꣳ स्या᳚त् प्रती॒चीनं॒ गार्.ह॑पत्यादे॒तद्वै व्यावृ॑त्तं देव॒यज॑नं॒ ॅवि पा॒प्मना॒ ( ) भ्रातृ॑व्ये॒णा- ऽऽ*व॑र्तते॒ नैनं॒ पात्रे॒ न तल्पे॑ मीमाꣳ सन्ते का॒र्ये॑ देव॒यज॑ने याजये॒द्-भूति॑कामं का॒या॑ वै पुरु॑षो॒ भव॑त्ये॒व ॥
▶ पदपाठः (Word-by-word)
अवेति॑ । रु॒न्धे॒ । प॒शु॒मानिति॑ पशु - मान् । ए॒व । भ॒व॒ति॒ । निर्.ऋ॑तिगृहीत॒ इति॒ निर्.ऋ॑ति - गृ॒ही॒ते॒ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । यम् । का॒मये॑त । निर्.ऋ॒त्येति॒ निः - ऋ॒त्या॒ । अ॒स्य॒ । य॒ज्ञ्म् । ग्रा॒ह॒ये॒य॒म् । इति॑ । ए॒तत् । वै । निर्.ऋ॑तिगृहीत॒मिति॒ निर्.ऋ॑ति - गृ॒ही॒त॒म् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । यत् । स॒दृश्यै᳚ । स॒त्याः᳚ । ऋ॒क्षम् । निर्.ऋ॒त्येति॒ निः - ऋ॒त्या॒ । ए॒व । अ॒स्य॒ । य॒ज्ञ्म् । ग्रा॒ह॒य॒ति॒ । व्यावृ॑त्त॒ इति॑ वि-आवृ॑त्ते । दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । या॒ज॒ये॒त् । व्या॒वृत्का॑म॒मिति॑ व्या॒वृत्-का॒म॒म् । यम् । पात्रे᳚ । वा॒ । तल्पे᳚ । वा॒ । मीमाꣳ॑सेरन्न् । प्रा॒चीन᳚म् । आ॒ह॒व॒नीया॒दित्या᳚ -ह॒व॒नीया᳚त् । प्र॒व॒णमिति॑ प्र - व॒नम् । स्या॒त् । प्र॒ती॒चीन᳚म् । गार्.ह॑पत्या॒दिति॒ गार्.ह॑ - प॒त्या॒त् । ए॒तत् । वै । व्यावृ॑त्त॒मिति॑ वि - आवृ॑त्तम् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । वीति॑ । पा॒प्मना᳚ ( ) । भ्रातृ॑व्येण । एति॑ । व॒र्त॒ते॒ । न । ए॒न॒म् । पात्रे᳚ । न । तल्पे᳚ । मी॒माꣳ॒॒स॒न्ते॒ । का॒र्ये᳚ । दे॒व॒यज॑न॒ इति॑ देव-यज॑ने । या॒ज॒ये॒त् । भूति॑काम॒मिति॒ भूति॑ - का॒म॒म् । का॒र्यः॑ । वै । पुरु॑षः । भव॑ति । ए॒व ॥
पदसंख्या: 68

अनुवाकः 7 (5 पञ्चाशत्)

TS 6.2.7.1 TS 6.2.7.1
तेभ्य॑ उत्तरवे॒दिः सिꣳ॒॒॒ही रू॒पं कृ॒त्वोभया॑-नन्त॒राऽप॒क्रम्या॑तिष्ठ॒त् ते दे॒वा अ॑मन्यन्त यत॒रान्. वा इ॒यमु॑पाव॒र्थ्स्यति॒ त इ॒दं भ॑विष्य॒न्तीति॒ तामुपा॑मन्त्रयन्त॒ साऽब्र॑वी॒द् वरं॑ ॅवृणै॒ सर्वा॒न् मया॒ कामा॒न् व्य॑श्नवथ॒ पूर्वां॒ तु मा॒ऽग्नेराहु॑तिरश्नवता॒ इति॒ तस्मा॑दुत्तरवे॒दिं पूर्वा॑म॒ग्ने- र्व्याघा॑रयन्ति॒ वारे॑वृतꣳ॒॒ ह्य॑स्यै॒ शम्य॑या॒ परि॑ मिमीते॒- [ ]
▶ पदपाठः (Word-by-word)
तेभ्यः॑ । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । सिꣳ॒॒हीः । रू॒पम् । कृ॒त्वा । उ॒भयान्॑ । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ते । दे॒वाः । अ॒म॒न्य॒न्त॒ । य॒त॒रान् । वै । इ॒यम् । उ॒पा॒व॒र्थ्स्यतीत्यु॑प-आ॒व॒र्थ्स्यति॑ । ते । इ॒दम् । भ॒वि॒ष्य॒न्ति॒ । इति॑ । ताम् । उपेति॑ । अ॒म॒न्त्र॒य॒न्त॒ । सा । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । सर्वान्॑ । मया᳚ । कामान्॑ । वीति॑ । अ॒श्न॒व॒थ॒ । पूर्वा᳚म् । तु । मा॒ । अ॒ग्नेः । आहु॑ति॒रित्या - हु॒तिः॒ । अ॒श्न॒व॒तै॒ । इति॑ । तस्मा᳚त् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । पूर्वा᳚म् । अ॒ग्नेः । व्याघा॑रय॒न्तीति॑ वि-आघा॑रयन्ति । वारे॑वृत॒मिति॒ वारे᳚-वृ॒त॒म् । हि । अ॒स्यै॒ । शम्य॑या । परीति॑ । मि॒मी॒ते॒ ।
पदसंख्या: 50
TS 6.2.7.2 TS 6.2.7.2
मात्रै॒वास्यै॒ साथो॑ यु॒क्तेनै॒व यु॒क्तमव॑ रुन्धे वि॒त्ताय॑नी मे॒ऽसीत्या॑ह वि॒त्ता ह्ये॑ना॒नाव॑त् ति॒क्ताय॑नी मे॒ऽसीत्या॑ह ति॒क्तान्. ह्ये॑ना॒नाव॒दव॑तान्मा नाथि॒तमित्या॑ह नाथि॒तान्. ह्ये॑ना॒नाव॒दव॑तान्मा व्यथि॒तमित्या॑ह व्यथि॒तान्. ह्ये॑ना॒नाव॑द्-वि॒देर॒ग्निर्नभो॒ नामा- [ ]
▶ पदपाठः (Word-by-word)
मात्रा᳚ । ए॒व । अ॒स्यै॒ । सा । अथो॒ इति॑ । यु॒क्तेन॑ । ए॒व । यु॒क्तम् । अवेति॑ । रु॒न्धे॒ । वि॒त्ताय॒नीति॑ वित्त - अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । वि॒त्ता । हि । ए॒ना॒न् । आव॑त् । ति॒क्ताय॒नीति॑ तिक्त - अय॑नी । मे॒ । अ॒सि॒ । इति॑ । आ॒ह॒ । ति॒क्तान् । हि । ए॒ना॒न् । आव॑त् । अव॑तात् । मा॒ । ना॒थि॒तम् । इति॑ । आ॒ह॒ । ना॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् । अव॑तात् । मा॒ । व्य॒थि॒तम् । इति॑ । आ॒ह॒ । व्य॒थि॒तान् । हि । ए॒ना॒न् । आव॑त् । वि॒देः । अ॒ग्निः । नभः॑ । नाम॑ ।
पदसंख्या: 50
TS 6.2.7.3 TS 6.2.7.3
ग्ने॑ अङ्गिर॒ इति॒ त्रिर्.ह॑रति॒ य ए॒वैषु लो॒केष्व॒ग्नय॒-स्ताने॒वाव॑ रुन्धे तू॒ष्णीं च॑तु॒र्त्थꣳ ह॑र॒त्यनि॑-रुक्तमे॒वाव॑ रुन्धे सिꣳ॒॒हीर॑सि महि॒षीर॒सीत्या॑ह सिꣳ॒॒हीर्ह्ये॑षा रू॒पं कृ॒त्वोभया॑-नन्त॒रा ऽप॒क्रम्याति॑ष्ठदु॒रु प्र॑थस्वो॒रु ते॑ य॒ज्ञ्प॑तिः प्रथता॒मित्या॑ह॒ यज॑मानमे॒व प्र॒जया॑ प॒शुभिः॑ प्रथयति ध्रु॒वा- [ ]
▶ पदपाठः (Word-by-word)
अग्ने᳚ । अ॒ङ्गि॒रः॒ । इति॑ । त्रिः । ह॒र॒ति॒ । ये । ए॒व । ए॒षु । लो॒केषु॑ । अ॒ग्नयः॑ । तान् । ए॒व । अवेति॑ । रु॒न्धे॒ । तू॒ष्णीम् । च॒तु॒र्थम् । ह॒र॒ति॒ । अनि॑रुक्त॒मित्यनिः॑ - उ॒क्त॒म् । ए॒व । अवेति॑ । रु॒न्धे॒ । सिꣳ॒॒हीः । अ॒सि॒ । म॒हि॒षीः । अ॒सि॒ । इति॑ । आ॒ह॒ । सिꣳ॒॒हीः । हि । ए॒षा । रू॒पम् । कृ॒त्वा । उ॒भयान्॑ । अ॒न्त॒रा । अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । अति॑ष्ठत् । उ॒रु । प्र॒थ॒स्व॒ । उ॒रु । ते॒ । य॒ज्ञ्प॑ति॒रिति॑ य॒ज्ञ् - प॒तिः॒ । प्र॒थ॒ता॒म् । इति॑ । आ॒ह॒ । यज॑मानम् । ए॒व । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । प्र॒थ॒य॒ति॒ । ध्रु॒वा ।
पदसंख्या: 50
TS 6.2.7.4 TS 6.2.7.4
ऽसीति॒ सꣳ ह॑न्ति॒ धृत्यै॑ दे॒वेभ्यः॑ शुन्धस्व दे॒वेभ्यः॑ शुंभ॒स्वेत्यव॑ चो॒क्षति॒ प्र च॑ किरति॒ शुद्ध्या॑ इन्द्रघो॒षस्त्वा॒ वसु॑भिः पु॒रस्ता᳚त् पा॒त्वित्या॑ह दि॒ग्भ्य ए॒वैनां॒ प्रोक्ष॑ति दे॒वाꣳश्चेदु॑-त्तरवे॒दिरु॒पाव॑वर्ती॒हैव वि ज॑यामहा॒ इत्यसु॑रा॒ वज्र॑मु॒द्यत्य॑ दे॒वान॒भ्या॑यन्त॒ तानि॑न्द्रघो॒षो वसु॑भिः पु॒रस्ता॒दपा॑- [ ]
▶ पदपाठः (Word-by-word)
अ॒सि॒ । इति॑ । समिति॑ । ह॒न्ति॒ । धृत्यै᳚ । दे॒वेभ्यः॑ । शु॒न्ध॒स्व॒ । दे॒वेभ्यः॑ । शु॒म्भ॒स्व॒ । इति॑ । अवेति॑ । च॒ । उ॒क्षति॑ । प्रेति॑ । च॒ । कि॒र॒ति॒ । शुद्ध्यै᳚ । इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । त्वा॒ । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । पु॒रस्ता᳚त् । पा॒तु॒ । इति॑ । आ॒ह॒ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । ए॒ना॒म् । प्रेति॑ । उ॒क्ष॒ति॒ । दे॒वान् । च॒ । इत् । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । उ॒पाव॑व॒र्तीत्यु॑प - आव॑वर्ति । इ॒ह । ए॒व । वीति॑ । ज॒या॒म॒है॒ । इति॑ । असु॑राः । वज्र᳚म् । उ॒द्यत्येत्यु॑त् - यत्य॑ । दे॒वान् । अ॒भीति॑ । आ॒य॒न्त॒ । तान् । इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । वसु॑भि॒रिति॒ वसु॑ - भिः॒ । पु॒रस्ता᳚त् । अपेति॑ ।
पदसंख्या: 50
TS 6.2.7.5 TS 6.2.7.5
-नुदत॒ मनो॑जवाः पि॒तृभि॑ र्दक्षिण॒तः प्रचे॑ता रु॒द्रैः प॒श्चाद्-वि॒श्वक॑र्माऽऽदि॒त्यैरु॑त्तर॒तो यदे॒वमु॑त्तरवे॒दिं प्रो॒क्षति॑ दि॒ग्भ्य ए॒व तद्-यज॑मानो॒ भ्रातृ॑व्या॒न् प्र णु॑दत॒ इन्द्रो॒ यती᳚न्थ् सालावृ॒केभ्यः॒ प्राय॑च्छ॒त् तान् द॑क्षिण॒त उ॑त्तरवे॒द्या आ॑द॒न्॒ यत् प्रोक्ष॑णीना-मु॒च्छिष्ये॑त॒ तद् द॑क्षिण॒त उ॑त्तरवे॒द्यै नि न॑ये॒द्-यदे॒व तत्र॑ क्रू॒रं तत् तेन॑ शमयति॒ यं द्वि॒ष्यात् तं ध्या॑येच्छु॒चै ( ) वैन॑मर्पयति ॥(मि॒मी॒ते॒ - नाम॑ - ध्रु॒वा - ऽप॑ - शु॒चा - त्रीणि॑ च) ( आ7)
▶ पदपाठः (Word-by-word)
अ॒नु॒द॒त॒ । मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । द॒क्षि॒ण॒तः । प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । रु॒द्रैः । प॒श्चात् । वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । आ॒दि॒त्यैः । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । यत् । ए॒वम् । उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । दि॒ग्भ्य इति॑ दिक् - भ्यः । ए॒व । तत् । यज॑मानः । भ्रातृ॑व्यान् । प्रेति॑ । नु॒द॒ते॒ । इन्द्रः॑ । यतीन्॑ । सा॒ला॒वृ॒केभ्यः॑ । प्रेति॑ । अ॒य॒च्छ॒त् । तान् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्याः । आ॒द॒न्न् । यत् । प्रोक्ष॑णीना॒मिति॑ प्र - उक्ष॑णीनाम् । उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । तत् । द॒क्षि॒ण॒तः । उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्यै । नीति॑ । न॒ये॒त् । यत् । ए॒व । तत्र॑ । क्रू॒रम् । तत् । तेन॑ । श॒म॒य॒ति॒ । यम् । द्वि॒ष्यात् । तम् । ध्या॒ये॒त् । शु॒चा ( ) । ए॒व । ए॒न॒म् । अ॒र्प॒य॒ति॒ ॥(मि॒मी॒ते॒ - नाम॑ - ध्रु॒वा - ऽप॑ - शु॒चा - त्रीणि॑ च) ( आ7)
पदसंख्या: 53

अनुवाकः 8 (6 पञ्चाशत्)

TS 6.2.8.1 TS 6.2.8.1
सोत्त॑रवे॒दिर॑ब्रवी॒थ् सर्वा॒न् मया॒ कामा॒न् व्य॑श्नव॒थेति॒ ते दे॒वा अ॑कामय॒न्तासु॑रा॒न् भ्रातृ॑व्यान॒भि भ॑वे॒मेति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॑सि सपत्नसा॒ही स्वाहेति॒ तेऽसु॑रा॒न् भ्रातृ॑व्या-न॒भ्य॑भव॒न् तेऽसु॑रा॒न् भ्रातृ॑व्या-नभि॒भूया॑कामयन्त प्र॒जां ॅवि॑न्देम॒हीति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॑सि सुप्रजा॒वनिः॒ स्वाहेति॒ ते प्र॒जाम॑विन्दन्त॒ ते प्र॒जां ॅवि॒त्त्वा- [ ]
▶ पदपाठः (Word-by-word)
सा । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर-वे॒दिः । अ॒ब्र॒वी॒त् । सर्वान्॑ । मया᳚ । कामान्॑ । वीति॑ । अ॒श्न॒व॒थ॒ । इति॑ । ते । दे॒वाः । अ॒का॒म॒य॒न्त॒ । असु॑रान् । भ्रातृ॑व्यान् । अ॒भीति॑ । भ॒वे॒म॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । स॒प॒त्न॒सा॒हीति॑ सपत्न - सा॒ही । स्वाहा᳚ । इति॑ । ते । असु॑रान् । भ्रातृ॑व्यान् । अ॒भीति॑ । अ॒भ॒व॒न्न् । ते । असु॑रान् । भ्रातृ॑व्यान् । अ॒भि॒भूयेत्य॑भि - भूय॑ । अ॒का॒म॒य॒न्त॒ । प्र॒जामिति॑ प्र-जाम् । वि॒न्दे॒म॒हि॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा - वनिः॑ । स्वाहा᳚ । इति॑ । ते । प्र॒जामिति॑ प्र-जाम् । अ॒वि॒न्द॒न्त॒ । ते । प्र॒जामिति॑ प्र - जाम् । वि॒त्त्वा ।
पदसंख्या: 50
TS 6.2.8.2 TS 6.2.8.2
ऽका॑मयन्त प॒शून्. वि॑न्देम॒हीति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॑सि रायस्पोष॒वनिः॒ स्वाहेति॒ ते प॒शून॑विन्दन्त॒ ते प॒शून्. वि॒त्त्वाऽका॑मयन्त प्रति॒ष्ठां ॅवि॑न्देम॒हीति॒ ते॑ऽजुहवुः सिꣳ॒॒ही-र॑स्यादित्य॒वनिः॒ स्वाहेति॒ त इ॒मां प्र॑ति॒ष्ठाम॑विन्दन्त॒ त इ॒मां प्र॑ति॒ष्ठां ॅवि॒त्त्वाऽका॑मयन्त दे॒वता॑ आ॒शिष॒ उपे॑या॒मेति॒ ते॑ऽजुहवुः सिꣳ॒॒हीर॒स्या व॑ह दे॒वान् दे॑वय॒ते- [ ]
▶ पदपाठः (Word-by-word)
अ॒का॒म॒य॒न्त॒ । प॒शून् । वि॒न्दे॒म॒हि॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष - वनिः॑ । स्वाहा᳚ । इति॑ । ते । प॒शून् । अ॒वि॒न्द॒न्त॒ । ते । प॒शून् । वि॒त्त्वा । अ॒का॒म॒य॒न्त॒ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वि॒न्दे॒म॒हि॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । आ॒दि॒त्य॒वनि॒रित्या॑दित्य - वनिः॑ । स्वाहा᳚ । इति॑ । ते । इ॒माम् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । अ॒वि॒न्द॒न्त॒ । ते । इ॒माम् । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वि॒त्त्वा । अ॒का॒म॒य॒न्त॒ । दे॒वताः᳚ । आ॒शिष॒ इत्या᳚ - शिषः॑ । उपेति॑ । इ॒या॒म॒ । इति॑ । ते । अ॒जु॒ह॒वुः॒ । सिꣳ॒॒हीः । अ॒सि॒ । एति॑ । व॒ह॒ । दे॒वान् । दे॒व॒य॒त इति॑ देव - य॒ते ।
पदसंख्या: 50
TS 6.2.8.3 TS 6.2.8.3
यज॑मानाय॒ स्वाहेति॒ ते दे॒वता॑ आ॒शिष॒ उपा॑य॒न् पञ्च॒ कृत्वो॒ व्याघा॑रयति॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धे ऽक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्रह॑रन्ति॒ प्रति॑ष्ठित्यै भू॒तेभ्य॒स्त्वेति॒ स्रुच॒मुद्गृ॑ह्णाति॒ य ए॒व दे॒वा भू॒तास्तेषां॒ तद्-भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ पौतु॑द्रवान् परि॒धीन् परि॑ दधात्ये॒षां- [ ]
▶ पदपाठः (Word-by-word)
यज॑मानाय । स्वाहा᳚ । इति॑ । ते । दे॒वताः᳚ । आ॒शिष॒ इत्या᳚ - शिषः॑ । उपेति॑ । आ॒य॒न्न् । पञ्च॑ । कृत्वः॑ । व्याघा॑रय॒तीति॑ वि - आघा॑रयति । पञ्चा᳚क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्धे॒ । अ॒क्ष्ण॒या । व्याघा॑रय॒तीति॑ वि-आघा॑रयति । तस्मा᳚त् । अ॒क्ष्ण॒या । प॒शवः॑ । अङ्गा॑नि । प्रेति॑ । ह॒र॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । भू॒तेभ्यः॑ । त्वा॒ । इति॑ । स्रुच᳚म् । उदिति॑ । गृ॒ह्णा॒ति॒ । ये । ए॒व । दे॒वाः । भू॒ताः । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग-धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । पौतु॑द्रवान् । प॒रि॒धीनिति॑ परि - धीन् । परीति॑ । द॒धा॒ति॒ । ए॒षाम् ।
पदसंख्या: 50
TS 6.2.8.4 TS 6.2.8.4
ॅलो॒कानां॒ ॅविधृ॑त्या अ॒ग्नेस्त्रयो॒ ज्यायाꣳ॑सो॒ भ्रात॑र आस॒न् ते दे॒वेभ्यो॑ ह॒व्यं ॅवह॑न्तः॒ प्रामी॑यन्त॒ सो᳚ऽग्निर॑बिभेदि॒त्थं ॅवाव स्य आर्ति॒माऽरि॑ष्य॒तीति॒ स निला॑यत॒ स यां ॅवन॒स्पति॒ष्वव॑स॒त्तां पूतु॑द्रौ॒ यामोष॑धीषु॒ ताꣳ सु॑गन्धि॒तेज॑ने॒ यां प॒शुषु॒ तां पेत्व॑स्यान्त॒रा शृङ्गे॒ तं दे॒वताः॒ प्रैष॑मैच्छ॒न् तमन्व॑विन्द॒न् तम॑ब्रुव॒- [ ]
▶ पदपाठः (Word-by-word)
लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि-धृ॒त्यै॒ । अ॒ग्नेः । त्रयः॑ । ज्यायाꣳ॑सः । भ्रात॑रः । आ॒स॒न्न् । ते । दे॒वेभ्यः॑ । ह॒व्यम् । वह॑न्तः । प्रेति॑ । अ॒मी॒य॒न्त॒ । सः । अ॒ग्निः । अ॒बि॒भे॒त् । इ॒त्थम् । वाव । स्यः । आर्ति᳚म् । एति॑ । अ॒रि॒ष्य॒ति॒ । इति॑ । सः । निला॑यत । सः । याम् । वन॒स्पति॑षु । अव॑सत् । ताम् । पूतु॑द्रौ । याम् । ओष॑धीषु । ताम् । सु॒ग॒न्धि॒तेज॑न॒ इति॑ सुगन्धि - तेज॑ने । याम् । प॒शुषु॑ । ताम् । पेत्व॑स्य । अ॒न्त॒रा । शृङ्गे॒ इति॑ । तम् । दे॒वताः᳚ । प्रैष॒मिति॑ प्र -एष᳚म् । ऐ॒च्छ॒न्न् । तम् । अन्विति॑ । अ॒वि॒न्द॒न्न् । तम् । अ॒ब्रु॒व॒न्न् ।
पदसंख्या: 50
TS 6.2.8.5 TS 6.2.8.5
-न्नुप॑ न॒ आ व॑र्तस्व ह॒व्यं नो॑ व॒हेति॒ सो᳚ऽब्रवी॒द् वरं॑ ॅवृणै॒ यदे॒व गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्दा॒त् तन्मे॒ भ्रातृ॑णां भाग॒धेय॑मस॒दिति॒ तस्मा॒द्-यद्-गृ॑ही॒तस्याहु॑तस्य बहिःपरि॒धि स्कन्द॑ति॒ तेषां॒ तद् भा॑ग॒धेयं॒ ताने॒व तेन॑ प्रीणाति॒ सो॑ऽमन्यतास्थ॒न्वन्तो॑ मे॒ पूर्वे॒ भ्रात॑रः॒ प्रामे॑षता॒स्थानि॑ शातया॒ इति॒ स यान्य॒- [ ]
▶ पदपाठः (Word-by-word)
उपेति॑ । नः॒ । एति॑ । व॒र्त॒स्व॒ । ह॒व्यम् । नः॒ । व॒ह॒ । इति॑ । सः । अ॒ब्र॒वी॒त् । वर᳚म् । वृ॒णै॒ । यत् । ए॒व । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्दा᳚त् । तत् । मे॒ । भ्रातृ॑णाम् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । अ॒स॒त् । इति॑ । तस्मा᳚त् । यत् । गृ॒ही॒तस्य॑ । अहु॑तस्य । ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । स्कन्द॑ति । तेषा᳚म् । तत् । भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । तान् । ए॒व । तेन॑ । प्री॒णा॒ति॒ । सः । अ॒म॒न्य॒त॒ । अ॒स्थ॒न्वन्त॒ इत्य॑स्थन्न् - वन्तः॑ । मे॒ । पूर्वे᳚ । भ्रात॑रः । प्रेति॑ । अ॒मे॒ष॒त॒ । अ॒स्थानि॑ । शा॒त॒यै॒ । इति॑ । सः । यानि॑ ।
पदसंख्या: 50
TS 6.2.8.6 TS 6.2.8.6
-स्थान्यशा॑तयत॒ तत् पूतु॑द्र्व-भव॒द्-यन्माꣳ॒॒ समुप॑मृतं॒ तद्-गुल्गु॑लु॒ यदे॒तान्थ् स॑भां॒रान्थ् सं॒ भर॑त्य॒ग्निमे॒व तथ् संभ॑रत्य॒ग्नेः पुरी॑ष-म॒सीत्या॑हा॒ग्नेर्ह्ये॑तत् पुरी॑षं॒ ॅयथ् स॑भां॒रा अथो॒ खल्वा॑हुरे॒ते वावैनं॒ ते भ्रात॑रः॒ परि॑ शेरे॒ यत् पौतु॑द्रवाः परि॒धय॒ इति॑ ॥
▶ पदपाठः (Word-by-word)
अ॒स्थानि॑ । अशा॑तयत । तत् । पूतु॑द्रु । अ॒भ॒व॒त् । यत् । माꣳ॒॒सम् । उप॑मृत॒मित्युप॑ - मृ॒त॒म् । तत् । गुल्गु॑लु । यत् । ए॒तान् । स॒भां॒रानिति॑ सं - भा॒रान् । स॒म्भर॒तीति॑ सं-भर॑ति । अ॒ग्निम् । ए॒व । तत् । समिति॑ । भ॒र॒ति॒ । अ॒ग्नेः । पुरी॑षम् । अ॒सि॒ । इति॑ । आ॒ह॒ । अ॒ग्नेः । हि । ए॒तत् । पुरी॑षम् । यत् । स॒भां॒रा इति॑ सं - भा॒राः । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । ए॒ते । वाव । ए॒न॒म् । ते । भ्रात॑रः । परीति॑ । शे॒रे॒ । यत् । पौतु॑द्रवाः । प॒रि॒धय॒ इति॑ परि-धयः॑ । इति॑ ॥
पदसंख्या: 44

अनुवाकः 9 (4 पञ्चाशत्)

TS 6.2.9.1 TS 6.2.9.1
ब॒द्धमव॑ स्यति वरुणपा॒शादे॒वैने॑ मुञ्चति॒ प्रणे॑नेक्ति॒ मेद्ध्ये॑ ए॒वैने॑ करोति सावित्रि॒यर्चा हु॒त्वा ह॑वि॒र्द्धाने॒ प्र व॑र्तयति सवि॒तृप्र॑सूत ए॒वैने॒ प्र व॑र्तयति॒ वरु॑णो॒ वा ए॒ष दु॒र्वागु॑भ॒यतो॑ ब॒द्धो यदक्षः॒ स यदु॒थ् सर्जे॒द्-यज॑मानस्य गृ॒हा-न॒भ्युथ्स॑र्जेथ् सु॒वाग्दे॑व॒ दुर्याꣳ॒॒ आ व॒देत्या॑ह गृ॒हा वै दुर्याः॒ शान्त्यै॒ पत्न्यु- [ ]
▶ पदपाठः (Word-by-word)
ब॒द्धम् । अवेति॑ । स्य॒ति॒ । व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । ए॒व । ए॒ने॒ इति॑ । मु॒ञ्च॒ति॒ । प्रेति॑ । ने॒ने॒क्ति॒ । मेद्ध्ये॒ इति॑ । ए॒व । ए॒ने॒ इति॑ । क॒रो॒ति॒ । सा॒वि॒त्रि॒या । ऋ॒चा । हु॒त्वा । ह॒वि॒द्‌र्धाने॒ इति॑ हविः-धाने᳚ । प्रेति॑ । व॒र्त॒य॒ति॒ । स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । ए॒व । ए॒ने॒ इति॑ । प्रेति॑ । व॒र्त॒य॒ति॒ । वरु॑णः । वै । ए॒षः । दु॒र्वागिति॑ दुः - वाक् । उ॒भ॒यतः॑ । ब॒द्धः । यत् । अक्षः॑ । सः । यत् । उ॒थ्सर्जे॒दित्यु॑त् - सर्जे᳚त् । यज॑मानस्य । गृ॒हान् । अ॒भ्युथ्स॑र्जे॒दित्य॑भि - उथ्स॑र्जेत् । सु॒वागिति॑ सु - वाक् । दे॒व॒ । दुर्यान्॑ । एति॑ । व॒द॒ । इति॑ । आ॒ह॒ । गृ॒हाः । वै । दुर्याः᳚ । शान्त्यै᳚ । पत्नी᳚ ।
पदसंख्या: 50
TS 6.2.9.2 TS 6.2.9.2
पा॑नक्ति॒ पत्नी॒ हि सर्व॑स्य मि॒त्रं मि॑त्र॒त्वाय॒ यद्वै पत्नी॑ य॒ज्ञ्स्य॑ क॒रोति॑ मिथु॒नं तदथो॒ पत्नि॑या ए॒वैष य॒ज्ञ्स्या᳚-न्वार॒भ्ॐऽन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वा अ॒न्वित्य॑ य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति वैष्ण॒वीभ्या॑मृ॒ग्भ्यां ॅवर्त्म॑नो र्जुहोति य॒ज्ञो वै विष्णु॑र्य॒ज्ञादे॒व रक्षाꣳ॒॒स्यप॑ हन्ति॒ यद॑द्ध्व॒र्यु-र॑न॒ग्ना-वाहु॑तिं जुहु॒या-द॒न्धो᳚ऽद्ध्व॒र्युः स्या॒द्-रक्षाꣳ॑सि य॒ज्ञ्ꣳ ह॑न्यु॒र्- [ ]
▶ पदपाठः (Word-by-word)
उपेति॑ । अ॒न॒क्ति॒ । पत्नी᳚ । हि । सर्व॑स्य । मि॒त्रम् । मि॒त्र॒त्वायेति॑ मित्र - त्वाय॑ । यत् । वै । पत्नी᳚ । य॒ज्ञ्स्य॑ । क॒रोति॑ । मि॒थु॒नम् । तत् । अथो॒ इति॑ । पत्नि॑याः । ए॒व । ए॒षः । य॒ज्ञ्स्य॑ । अ॒न्वा॒र॒भं इत्य॑नु - आ॒र॒भंः । अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । वर्त्म॑ना । वै । अ॒न्वित्येत्य॑नु - इत्य॑ । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । वै॒ष्ण॒वीभ्या᳚म् । ऋ॒ग्भ्यामित्यृ॑क्-भ्याम् । वर्त्म॑नोः । जु॒हो॒ति॒ । य॒ज्ञ्ः । वै । विष्णुः॑ । य॒ज्ञात् । ए॒व । रक्षाꣳ॑सि । अपेति॑ । ह॒न्ति॒ । यत् । अ॒द्ध्व॒र्युः । अ॒न॒ग्नौ । आहु॑ति॒मित्या - हु॒ति॒म् । जु॒हु॒यात् । अ॒न्धः । अ॒द्ध्व॒र्युः । स्या॒त् । रक्षाꣳ॑सि । य॒ज्ञ्म् । ह॒न्युः॒ ।
पदसंख्या: 50
TS 6.2.9.3 TS 6.2.9.3
-हिर॑ण्यमु॒पास्य॑ जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो᳚ऽद्ध्व॒र्युर्भव॑ति॒ न य॒ज्ञ्ꣳ रक्षाꣳ॑सि घ्नन्ति॒ प्राची॒ प्रेत॑मद्ध्व॒रं क॒ल्प॑यन्ती॒ इत्या॑ह सुव॒र्गमे॒वैने॑ लो॒कं ग॑मय॒त्यत्र॑ रमेथां॒ ॅवर्ष्म॑न् पृथि॒व्या इत्या॑ह॒ वर्ष्म॒ ह्ये॑तत् पृ॑थि॒व्या यद् दे॑व॒यज॑नꣳ॒॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑ दि॒वो वा॑ विष्णवु॒त वा॑ पृथि॒व्या- [ ]
▶ पदपाठः (Word-by-word)
हिर॑ण्यम् । उ॒पास्येत्यु॑प - अस्य॑ । जु॒हो॒ति॒ । अ॒ग्नि॒वतीत्य॑ग्नि-वति॑ । ए॒व । जु॒हो॒ति॒ । न । अ॒न्धः । अ॒द्ध्व॒र्युः । भव॑ति । न । य॒ज्ञ्म् । रक्षाꣳ॑सि । घ्न॒न्ति॒ । प्राची॒ इति॑ । प्रेति॑ । इ॒त॒म् । अ॒द्ध्व॒रम् । क॒ल्प॑यन्ती॒ इति॑ । इति॑ । आ॒ह॒ । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । ए॒ने॒ इति॑ । लो॒कम् । ग॒म॒य॒ति॒ । अत्र॑ । र॒मे॒था॒म् । वर्ष्मन्न्॑ । पृ॒थि॒व्याः । इति॑ । आ॒ह॒ । वर्ष्म॑ । हि । ए॒तत् । पृ॒थि॒व्याः । यत् । दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । दि॒वः । वा॒ । वि॒ष्णो॒ । उ॒त । वा॒ । पृ॒थि॒व्याः ।
पदसंख्या: 50
TS 6.2.9.4 TS 6.2.9.4
इत्या॒शीर्प॑दय॒र्चा दक्षि॑णस्य हवि॒र्द्धान॑स्य मे॒थीं नि ह॑न्ति शीर्.ष॒त ए॒व य॒ज्ञ्स्य॒ यज॑मान आ॒शिषोऽव॑ रुन्धे द॒ण्डो वा औ॑प॒रस्तृ॒तीय॑स्य हवि॒र्द्धान॑स्य वषट्का॒रे-णाक्ष॑-मच्छिन॒द्-यत्-तृ॒तीयं॑ छ॒दिर्. ह॑वि॒र्द्धान॑यो-रुदाह्रि॒यते॑ तृ॒तीय॑स्य हवि॒र्द्धान॒स्याव॑रुद्ध्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॒ ॅविष्णो॑ र॒राट॑मसि॒ विष्णोः᳚ पृ॒ष्ठम॒सीत्या॑ह॒ तस्मा॑देताव॒द्धा शिरो॒ विष्यू॑तं॒ ॅविष्णोः॒ ( ) स्यूर॑सि॒ विष्णो᳚र्द्ध्रु॒वम॒सीत्या॑ह वैष्ण॒वꣳ हि दे॒वत॑या हवि॒र्द्धानं॒ ॅयं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
▶ पदपाठः (Word-by-word)
इति॑ । आ॒शीर्प॑द॒येत्या॒शीः - प॒द॒या॒ । ऋ॒चा । दक्षि॑णस्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । मे॒थीम् । नीति॑ । ह॒न्ति॒ । शी॒र्॒.ष॒तः । ए॒व । य॒ज्ञ्स्य॑ । यज॑मानः । आ॒शिष॒ इत्या᳚ - शिषः॑ । अवेति॑ । रु॒न्धे॒ । द॒ण्डः । वै । औ॒प॒रः । तृ॒तीय॑स्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । अक्ष᳚म् । अ॒च्छि॒न॒त् । यत् । तृ॒तीय᳚म् । छ॒दिः । ह॒वि॒द्‌र्धान॒योरिति॑ हविः-धान॑योः । उ॒दा॒ह्रि॒यत॒ इत्यु॑त् - आ॒ह्रि॒यते᳚ । तृ॒तीय॑स्य । ह॒वि॒द्‌र्धान॒स्येति॑ हविः - धान॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । विष्णोः᳚ । र॒राट᳚म् । अ॒सि॒ । विष्णोः᳚ । पृ॒ष्ठम् । अ॒सि॒ । इति॑ । आ॒ह॒ । तस्मा᳚त् । ए॒ता॒व॒द्धेत्ये॑तावत् - धा । शिरः॑ । विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । विष्णोः᳚ ( ) । स्यूः । अ॒सि॒ । विष्णोः᳚ । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । वै॒ष्ण॒वम् । हि । दे॒वत॑या । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि-स्रस्यः॑ ॥
पदसंख्या: 76

अनुवाकः 10 (7 पञ्चाशत्)

TS 6.2.10.1 TS 6.2.10.1
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्यभ्रि॒मा द॑त्ते॒ प्रसू᳚त्या अ॒श्विनो᳚ र्बा॒हुभ्या॒मित्या॑हा॒श्विनौ॒ हि दे॒वाना॑मद्ध्व॒र्यू आस्तां᳚ पू॒ष्णो हस्ता᳚भ्या॒मित्या॑ह॒ यत्यै॒ वज्र॑ इव॒ वा ए॒षा यदभ्रि॒रभ्रि॑रसि॒ नारि॑र॒सीत्या॑ह॒ शान्त्यै॒ काण्डे॑ काण्डे॒ वै क्रि॒यमा॑णे य॒ज्ञ्ꣳ रक्षाꣳ॑सि जिघाꣳसन्ति॒ परि॑लिखितꣳ॒॒ रक्षः॒ परि॑लिखिता॒ अरा॑तय॒ इत्या॑ह॒ रक्ष॑सा॒मप॑हत्या- [ ]
▶ पदपाठः (Word-by-word)
दे॒वस्य॑ । त्वा॒ । स॒वि॒तुः । प्र॒स॒व इति॑ प्र -स॒वे । इति॑ । अभ्रि᳚म् । एति॑ । द॒त्ते॒ । प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । अ॒श्विनोः᳚ । बा॒हुभ्या॒मिति॑ बा॒हु-भ्या॒म् । इति॑ । आ॒ह॒ । अ॒श्विनौ᳚ । हि । दे॒वाना᳚म् । अ॒द्ध्व॒र्यू इति॑ । आस्ता᳚म् । पू॒ष्णः । हस्ता᳚भ्याम् । इति॑ । आ॒ह॒ । यत्यै᳚ । वज्रः॑ । इ॒व॒ । वै । ए॒षा । यत् । अभ्रिः॑ । अभ्रिः॑ । अ॒सि॒ । नारिः॑ । अ॒सि॒ । इति॑ । आ॒ह॒ । शान्त्यै᳚ । काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । वै । क्रि॒यमा॑णे । य॒ज्ञ्म् । रक्षाꣳ॑सि । जि॒घाꣳ॒॒स॒न्ति॒ । परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । रक्षः॑ । परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । अरा॑तयः । इति॑ । आ॒ह॒ । रक्ष॑साम् । अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ ।
पदसंख्या: 50
TS 6.2.10.2 TS 6.2.10.2
इ॒दम॒हꣳ रक्ष॑सो ग्री॒वा अपि॑ कृन्तामि॒ यो᳚ऽस्मान् द्वेष्टि॒ यं च॑ व॒यं द्वि॒ष्म इत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यं चै॒व द्वेष्टि॒ यश्चै॑नं॒ द्वेष्टि॒ तयो॑रे॒वान॑न्तरायं ग्री॒वाः कृ॑न्तति दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑है॒भ्य ए॒वैनां᳚ ॅलो॒केभ्यः॒ प्रोक्ष॑ति प॒रस्ता॑द॒र्वाचीं॒ प्रोक्ष॑ति॒ तस्मा᳚त्- [ ]
▶ पदपाठः (Word-by-word)
इ॒दम् । अ॒हम् । रक्ष॑सः । ग्री॒वाः । अपीति॑ । कृ॒न्ता॒मि॒ । यः । अ॒स्मान् । द्वेष्टि॑ । यम् । च॒ । व॒यम् । द्वि॒ष्मः । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यम् । च॒ । ए॒व । द्वेष्टि॑ । यः । च॒ । ए॒न॒म् । द्वेष्टि॑ । तयोः᳚ । ए॒व । अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । ग्री॒वाः । कृ॒न्त॒ति॒ । दि॒वे । त्वा॒ । अ॒न्तरि॑क्षाय । त्वा॒ । पृ॒थि॒व्यै । त्वा॒ । इति॑ । आ॒ह॒ । ए॒भ्यः । ए॒व । ए॒ना॒म् । लो॒केभ्यः॑ । प्रेति॑ । उ॒क्ष॒ति॒ । प॒रस्ता᳚त् । अ॒र्वाची᳚म् । प्रेति॑ । उ॒क्ष॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
TS 6.2.10.3 TS 6.2.10.3
प॒रस्ता॑द॒र्वाचीं᳚ मनु॒ष्या॑ ऊर्ज॒मुप॑ जीवन्ति क्रू॒रमि॑व॒ वा ए॒तत् क॑रोति॒ यत् खन॑त्य॒पोऽव॑ नयति॒ शान्त्यै॒ यव॑मती॒रव॑ नय॒त्यूर्ग्वै॑ यव॒ ऊर्गु॑दु॒बंर॑ ऊ॒र्जैवोर्जꣳ॒॒ सम॑र्द्धयति॒ यज॑मानेन॒ सम्मि॒तौदु॑बंरी भवति॒ यावा॑ने॒व यज॑मान॒स्ताव॑ती-मे॒वास्मि॒-न्नूर्जं॑ दधाति पितृ॒णाꣳ सद॑नम॒सीति॑ ब॒र्॒.हिरव॑ स्तृणाति पितृदेव॒त्या᳚(1॒)ꣳ॒- [ ]
▶ पदपाठः (Word-by-word)
प॒रस्ता᳚त् । अ॒र्वाची᳚म् । म॒नु॒ष्याः᳚ । ऊर्ज᳚म् । उपेति॑ । जी॒व॒न्ति॒ । क्रू॒रम् । इ॒व॒ । वै । ए॒तत् । क॒रो॒ति॒ । यत् । खन॑ति । अ॒पः । अवेति॑ । न॒य॒ति॒ । शान्त्यै᳚ । यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । अवेति॑ । न॒य॒ति॒ । ऊर्क् । वै । यवः॑ । ऊर्क् । उ॒दु॒म्बरः॑ । ऊ॒र्जा । ए॒व । ऊर्ज᳚म् । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । यज॑मानेन । सम्मि॒तेति॒ सं - मि॒ता॒ । औदु॑बंरी । भ॒व॒ति॒ । यावान्॑ । ए॒व । यज॑मानः । ताव॑तीम् । ए॒व । अ॒स्मि॒न्न् । ऊर्ज᳚म् । द॒धा॒ति॒ । पि॒तृ॒णाम् । सद॑नम् । अ॒सि॒ । इति॑ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् ।
पदसंख्या: 50
TS 6.2.10.4 TS 6.2.10.4
ह्ये॑तद्-यन्निखा॑तं॒ ॅयद्-ब॒र्॒.हिरन॑वस्तीर्य मिनु॒यात् पि॑तृदेव॒त्या॑ निखा॑ता स्याद्-ब॒र्॒.हिर॑व॒स्तीर्य॑ मिनोत्य॒स्यामे॒वैनां᳚ मिनो॒त्यथो᳚ स्वा॒रुह॑मे॒वैनां᳚ करो॒त्युद्-दिवꣳ॑ स्तभा॒नाऽऽन्तरि॑क्षं पृ॒णेत्या॑है॒षां ॅलो॒कानां॒ ॅविधृ॑त्यै द्युता॒नस्त्वा॑ मारु॒तो मि॑नो॒त्वित्या॑ह द्युता॒नो ह॑ स्म॒ वै मा॑रु॒तो दे॒वाना॒मौदु॑बंरीं मिनोति॒ तेनै॒वै- [ ]
▶ पदपाठः (Word-by-word)
हि । ए॒तत् । यत् । निखा॑त॒मिति॒ नि - खा॒त॒म् । यत् । ब॒र्॒.हिः । अन॑वस्ती॒र्येत्यन॑व-स्ती॒र्य॒ । मि॒नु॒यात् । पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ । निखा॒तेति॒ नि - खा॒ता॒ । स्या॒त् । ब॒र॒.हिः । अ॒व॒स्तीर्येत्य॑व- स्तीर्य॑ । मि॒नो॒ति॒ । अ॒स्याम् । ए॒व । ए॒ना॒म् । मि॒नो॒ति॒ । अथो॒ इति॑ । स्वा॒रुह॒मिति॑ स्व-रुह᳚म् । ए॒व । ए॒ना॒म् । क॒रो॒ति॒ । उदिति॑ । दिव᳚म् । स्त॒भा॒न॒ । एति॑ । अ॒न्तरि॑क्षम् । पृ॒ण॒ । इति॑ । आ॒ह॒ । ए॒षाम् । लो॒काना᳚म् । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । द्यु॒ता॒नः । त्वा॒ । मा॒रु॒तः । मि॒नो॒तु॒ । इति॑ । आ॒ह॒ । द्यु॒ता॒नः । ह॒ । स्म॒ । वै । मा॒रु॒तः । दे॒वाना᳚म् । औदु॑बंरीम् । मि॒नो॒ति॒ । तेन॑ । ए॒व ।
पदसंख्या: 50
TS 6.2.10.5 TS 6.2.10.5
-नां᳚ मिनोति ब्रह्म॒वनिं॑ त्वा क्षत्र॒वनि॒मित्या॑ह यथाय॒जुरे॒वैतद् घृ॒तेन॑ द्यावापृथिवी॒ आ पृ॑णेथा॒मित्यौदु॑बंर्यां जुहोति॒ द्यावा॑पृथि॒वी ए॒व रसे॑नानक्त्या॒-न्तम॒न्व-व॑स्रावयत्या॒न्तमे॒व यज॑मानं॒ तेज॑सा-नक्त्यै॒न्द्रम॒सीति॑ छ॒दिरधि॒ नि द॑धात्यै॒न्द्रꣳ हि दे॒वत॑या॒ सदो॑ विश्वज॒नस्य॑ छा॒येत्या॑ह विश्वज॒नस्य॒ ह्ये॑षा छा॒या यथ् सदो॒ नव॑छदि॒- [ ]
▶ पदपाठः (Word-by-word)
ए॒ना॒म् । मि॒नो॒ति॒ । ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । त्वा॒ । क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । इति॑ । आ॒ह॒ । य॒था॒य॒जु॒रिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । घृ॒तेन॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा-पृ॒थि॒वी॒ । एति॑ । पृ॒णे॒था॒म् । इति॑ । औदु॑बंर्याम् । जु॒हो॒ति॒ । द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । ए॒व । रसे॑न । अ॒न॒क्ति॒ । आ॒न्तमित्या᳚ - अ॒न्तम् । अ॒न्वव॑स्रावय॒तीय॑नु -अव॑स्रावयति । आ॒न्तमित्या᳚-अ॒न्तम् । ए॒व । यज॑मानम् । तेज॑सा । अ॒न॒क्ति॒ । ऐ॒न्द्रम् । अ॒सि॒ । इति॑ । छ॒दिः । अधि॑ । नीति॑ । द॒धा॒ति॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । छा॒या । इति॑ । आ॒ह॒ । वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । हि । ए॒षा । छा॒या । यत् । सदः॑ । नव॑छ॒दीति॒ नव॑ - छ॒दि॒ ।
पदसंख्या: 50
TS 6.2.10.6 TS 6.2.10.6
तेज॑स्कामस्य मिनुयात् त्रि॒वृता॒ स्तोमे॑न॒ सम्मि॑तं॒ तेज॑स्त्रि॒वृत् ते॑ज॒स्व्ये॑व भ॑व॒-त्येका॑दश-छदीन्द्रि॒यका॑म॒-स्यैका॑दशाक्षरा त्रि॒ष्टुगि॑न्द्रि॒यं त्रि॒ष्टुगि॑न्द्रिया॒व्ये॑व भ॑वति॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः पञ्चद॒शो वज्रो॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि प्र॒जाका॑मस्य सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॒ एक॑विꣳशतिछदि प्रति॒ष्ठाका॑म-स्यैकविꣳ॒॒शः स्तोमा॑नां प्रति॒ष्ठा प्रति॑ष्ठित्या उ॒दरं॒ ॅवै सद॒ ऊर्गु॑दु॒बंरो॑ मद्ध्य॒त औदु॑बंरीं मिनोति मद्ध्य॒त ए॒व प्र॒जाना॒मूर्जं॑ दधाति॒ तस्मा᳚न्- [ ]
▶ पदपाठः (Word-by-word)
तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । मि॒नु॒या॒त् । त्रि॒वृतेति॑ त्रि-वृता᳚ । स्तोमे॑न । सम्मि॑त॒मिति॒ सं - मि॒त॒म् । तेजः॑ । त्रि॒वृदिति॑ त्रि -वृत् । ते॒ज॒स्वी । ए॒व । भ॒व॒ति॒ । एका॑दशछ॒दीत्येका॑दश - छ॒दि॒ । इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । एका॑दशाक्ष॒रेत्येका॑दश-अ॒क्ष॒रा॒ । त्रि॒ष्टुक् । इ॒न्द्रि॒यम् । त्रि॒ष्टुक् । इ॒न्द्रि॒या॒वी । ए॒व । भ॒व॒ति॒ । पञ्च॑दशछ॒दीति॒ पञ्च॑दश-छ॒दि॒ । भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । वज्रः॑ । भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । स॒प्तद॑शछ॒दीति॑ स॒प्तद॑श - छ॒दि॒ । प्र॒जाका॑म॒स्येति॑ प्र॒जा - का॒म॒स्य॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । एक॑विꣳशतिछ॒दीत्येक॑विꣳशति - छ॒दि॒ । प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । ए॒क॒विꣳ॒॒श इत्ये॑क-विꣳ॒॒शः । स्तोमा॑नां । प्र॒ति॒ष्ठेति॑ प्रति - स्था । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒दर᳚म् । वै । सदः॑ । ऊर्क् । उ॒दु॒बंरः॑ । म॒द्ध्य॒तः । औदु॑बंरीम् । मि॒नो॒ति॒ । म॒द्ध्य॒तः । ए॒व । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । ऊर्ज᳚म् । द॒धा॒ति॒ । तस्मा᳚त् ।
पदसंख्या: 50
TS 6.2.10.7 TS 6.2.10.7
मद्ध्य॒त ऊ॒र्जा भु॑ञ्जते यजमानलो॒के वै दक्षि॑णानि छ॒दीꣳषि॑ भ्रातृव्यलो॒क उत्त॑राणि॒ दक्षि॑णा॒न्युत्त॑राणि करोति॒ यज॑मान-मे॒वा-य॑जमाना॒दुत्त॑रं करोति॒ तस्मा॒द् यज॑मा॒नोऽय॑जमाना॒दुत्त॑रो ऽन्तर्व॒र्तान् क॑रोति॒ व्यावृ॑त्त्यै॒ तस्मा॒दर॑ण्यं प्र॒जा उप॑ जीवन्ति॒ परि॑ त्वा गिर्वणो॒ गिर॒ इत्या॑ह यथाय॒जुरे॒वैतदिन्द्र॑स्य॒ स्यूर॒सीन्द्र॑स्य ध्रु॒वम॒सीत्या॑है॒न्द्रꣳ हि दे॒वत॑या॒ सदो॒ ( ) यं प्र॑थ॒मं ग्र॒न्थिं ग्र॑थ्नी॒याद्यत् तं न वि॑स्रꣳ॒॒ सये॒दमे॑हेनाद्ध्व॒र्युः प्रमी॑येत॒ तस्मा॒थ् स वि॒स्रस्यः॑ ॥
▶ पदपाठः (Word-by-word)
म॒द्ध्य॒तः । ऊ॒र्जा । भु॒ञ्ज॒ते॒ । य॒ज॒मा॒न॒लो॒क इति॑ यजमान - लो॒के । वै । दक्षि॑णानि । छ॒दीꣳषि॑ । भ्रा॒तृ॒व्य॒लो॒क इति॑ भ्रातृव्य - लो॒के । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । दक्षि॑णानि । उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । क॒रो॒ति॒ । यज॑मानम् । ए॒व । अय॑जमानात् । उत्त॑र॒मित्युत् - त॒र॒म् । क॒रो॒ति॒ । तस्मा᳚त् । यज॑मानः । अय॑जमानात् । उत्त॑र॒ इत्युत् - त॒रः॒ । अ॒न्त॒र्व॒र्तानित्य॑न्तः - व॒र्तान् । क॒रो॒ति॒ । व्यावृ॑त्त्या॒ इति॑ वि-आवृ॑त्त्यै । तस्मा᳚त् । अर॑ण्यम् । प्र॒जा इति॑ प्र - जाः । उपेति॑ । जी॒व॒न्ति॒ । परीति॑ । त्वा॒ । गि॒र्व॒णः॒ । गिरः॑ । इति॑ । आ॒ह॒ । य॒था॒य॒जुरिति॑ यथा - य॒जुः । ए॒व । ए॒तत् । इन्द्र॑स्य । स्यूः । अ॒सि॒ । इन्द्र॑स्य । ध्रु॒वम् । अ॒सि॒ । इति॑ । आ॒ह॒ । ऐ॒न्द्रम् । हि । दे॒वत॑या । सदः॑ ( ) । यम् । प्र॒थ॒मम् । ग्र॒न्थिम् । ग्र॒थ्नी॒यात् । यत् । तम् । न । वि॒स्रꣳ॒॒सये॒दिति॑ वि - स्रꣳ॒॒सये᳚त् । अमे॑हेन् । अ॒द्ध्व॒र्युः । प्रेति॑ । मी॒ये॒त॒ । तस्मा᳚त् । सः । वि॒स्रस्य॒ इति॑ वि - स्रस्यः॑ ॥
पदसंख्या: 65

अनुवाकः 11 (4 पञ्चाशत्)

TS 6.2.11.1 TS 6.2.11.1
शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑ प्रा॒णा उ॑पर॒वा ह॑वि॒र्द्धाने॑ खायन्ते॒ तस्मा᳚च्छी॒र्॒.षन् प्रा॒णा अ॒धस्ता᳚त् खायन्ते॒ तस्मा॑द॒धस्ता᳚च्छीर्ष्णः प्रा॒णा र॑क्षो॒हणो॑ वलग॒हनो॑ वैष्ण॒वान् ख॑ना॒मीत्या॑ह वैष्ण॒वा हि दे॒वत॑योपर॒वा असु॑रा॒ वै नि॒र्यन्तो॑ दे॒वानां᳚ प्रा॒णेषु॑ वल॒गान् न्य॑खन॒न् तान् बा॑हुमा॒त्रेऽन्व॑विन्द॒न् तस्मा᳚द् बाहुमा॒त्राः खा॑यन्त इ॒दम॒हं तं ॅव॑ल॒गमुद्व॑पामि॒- [ ]
▶ पदपाठः (Word-by-word)
शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः-धान᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । ह॒वि॒द्‌र्धान॒ इति॑ हविः-धाने᳚ । खा॒य॒न्ते॒ । तस्मा᳚त् । शी॒र्॒.षन्न् । प्रा॒णा इति॑ प्र-अ॒नाः । अ॒धस्ता᳚त् । खा॒य॒न्ते॒ । तस्मा᳚त् । अ॒धस्ता᳚त् । शी॒र्ष्णः । प्रा॒णा इति॑ प्र-अ॒नाः । र॒क्षो॒हण॒ इति॑ रक्षः-हनः॑ । व॒ल॒ग॒हन॒ इति॑ वलग-हनः॑ । वै॒ष्ण॒वान् । ख॒ना॒मि॒ । इति॑ । आ॒ह॒ । वै॒ष्ण॒वाः । हि । दे॒वत॑या । उ॒प॒र॒वा इत्यु॑प - र॒वाः । असु॑राः । वै । नि॒र्यन्त॒ इति॑ निः - यन्तः॑ । दे॒वाना᳚म् । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । व॒ल॒गानिति॑ वल-गान् । नीति॑ । अ॒ख॒न॒न्न् । तान् । बा॒हु॒मा॒त्र इति॑ बाहु-मा॒त्रे । अन्विति॑ । अ॒वि॒न्द॒न्न् । तस्मा᳚त् । बा॒हु॒मा॒त्रा इति॑ बाहु - मा॒त्राः । खा॒य॒न्ते॒ । इ॒दम् । अ॒हम् । तम् । व॒ल॒गमिति॑ वल - गम् । उदिति॑ । व॒पा॒मि॒ ।
पदसंख्या: 50
TS 6.2.11.2 TS 6.2.11.2
यं नः॑ समा॒नो यमस॑मानो निच॒खानेत्या॑ह॒ द्वौ वाव पुरु॑षौ॒ यश्चै॒व स॑मा॒नो यश्चास॑मानो॒ यमे॒वास्मै॒ तौ व॑ल॒गं नि॒खन॑त॒स्तमे॒वोद्व॑पति॒ संतृ॑णत्ति॒ तस्मा॒थ् संतृ॑ण्णा अन्तर॒तः प्रा॒णा न सं भि॑नत्ति॒ तस्मा॒दस॑भिंन्नाः प्रा॒णा अ॒पोऽव॑ नयति॒ तस्मा॑दा॒र्द्रा अ॑न्तर॒तः प्रा॒णा यव॑मती॒रव॑ नय॒- [ ]
▶ पदपाठः (Word-by-word)
यम् । नः॒ । स॒मा॒नः । यम् । अस॑मानः । नि॒च॒खानिति॑ नि-च॒खान॑ । इति॑ । आ॒ह॒ । द्वौ । वाव । पुरु॑षौ । यः । च॒ । ए॒व । स॒मा॒नः । यः । च॒ । अस॑मानः । यम् । ए॒व । अ॒स्मै॒ । तौ । व॒ल॒गमिति॑ वल - गम् । नि॒खन॑त॒ इति॑ नि - खन॑तः । तम् । ए॒व । उदिति॑ । व॒प॒ति॒ । समिति॑ । तृ॒ण॒त्ति॒ । तस्मा᳚त् । संतृ॑ण्णा॒ इति॒ सं - तृ॒ण्णाः॒ । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र - अ॒नाः । न । समिति॑ । भि॒न॒त्ति॒ । तस्मा᳚त् । अस॑भिंन्ना॒ इत्यसं᳚ - भि॒न्नाः॒ । प्रा॒णा इति॑ प्र - अ॒नाः । अ॒पः । अवेति॑ । न॒य॒ति॒ । तस्मा᳚त् । आ॒र्द्राः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र - अ॒नाः । यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । अवेति॑ । न॒य॒ति॒ ।
पदसंख्या: 50
TS 6.2.11.3 TS 6.2.11.3
-त्यूर्ग्वै यवः॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒वोर्जं॑ दधाति ब॒र्॒.हिरव॑ स्तृणाति॒ तस्मा᳚ल्लोम॒शा अ॑न्तर॒तः प्रा॒णा आज्ये॑न॒ व्याघा॑रयति॒ तेजो॒ वा आज्यं॑ प्रा॒णा उ॑पर॒वाः प्रा॒णेष्वे॒व तेजो॑ दधाति॒ हनू॒ वा ए॒ते य॒ज्ञ्स्य॒ यद॑धि॒षव॑णे॒ न सं तृ॑ण॒त्त्य स॑तृंण्णे॒ हि हनू॒ अथो॒ खलु॑ दीर्घसो॒मे स॒तृंद्ये॒ धृत्यै॒ शिरो॒ वा ए॒तद्-य॒ज्ञ्स्य॒ यद्ध॑वि॒र्द्धानं॑- [ ]
▶ पदपाठः (Word-by-word)
ऊर्क् । वै । यवः॑ । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प-र॒वाः । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । ए॒व । ऊर्ज᳚म् । द॒धा॒ति॒ । ब॒र्॒.हिः । अवेति॑ । स्तृ॒णा॒ति॒ । तस्मा᳚त् । लो॒म॒शाः । अ॒न्त॒र॒तः । प्रा॒णा इति॑ प्र - अ॒नाः । आज्ये॑न । व्याघा॑रय॒तीति॑ वि - आघा॑रयति । तेजः॑ । वै । आज्य᳚म् । प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । ए॒व । तेजः॑ । द॒धा॒ति॒ । हनू॒ इति॑ । वै । ए॒ते इति॑ । य॒ज्ञ्स्य॑ । यत् । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । न । समिति॑ । तृ॒ण॒त्ति॒ । अस॑तृंण्णे॒ इत्यसं᳚ - तृ॒ण्णे॒ । हि । हनू॒ इति॑ । अथो॒ इति॑ । खलु॑ । दी॒र्घ॒सो॒म इति॑ दीर्घ - सो॒मे । स॒तृंद्ये॒ इति॑ सं-तृद्ये᳚ । धृत्यै᳚ । शिरः॑ । वै । ए॒तत् । य॒ज्ञ्स्य॑ । यत् । ह॒वि॒द्‌र्धान॒मिति॑ हविः - धान᳚म् ।
पदसंख्या: 50
TS 6.2.11.4 TS 6.2.11.4
प्रा॒णा उ॑पर॒वा हनू॑ अधि॒षव॑णे जि॒ह्वा चर्म॒ ग्रावा॑णो॒ दन्ता॒ मुख॑माहव॒नीयो॒ नासि॑को-त्तरवे॒दि-रु॒दरꣳ॒॒ सदो॑ य॒दा खलु॒ वै जि॒ह्वया॑ द॒थ्स्वधि॒ खाद॒त्यथ॒ मुखं॑ गच्छति य॒दा मुखं॒ गच्छ॒त्यथो॒दरं॑ गच्छति॒ तस्मा᳚द्धवि॒र्द्धाने॒ चर्म॒न्नधि॒ ग्राव॑भिरभि॒षुत्या॑ऽऽ*हव॒नीये॑ हु॒त्वा प्र॒त्यञ्चः॑ प॒रेत्य॒ सद॑सि भक्षयन्ति॒ यो वै वि॒राजो॑ यज्ञ्मु॒खे दोहं॒ ॅवेद॑ दु॒ह ए॒वै ( ) ना॑मि॒यं ॅवै वि॒राट् तस्यै॒ त्वक् चर्मोधो॑ऽधि॒षव॑णे॒ स्तना॑ उपर॒वा ग्रावा॑णो व॒थ्सा ऋ॒त्विजो॑ दुहन्ति॒ सोमः॒ पयो॒ य ए॒वं ॅवेद॑ दु॒ह ए॒वैनां᳚ ॥
▶ पदपाठः (Word-by-word)
प्रा॒णा इति॑ प्र - अ॒नाः । उ॒प॒र॒वा इत्यु॑प - र॒वाः । हनू॒ इति॑ । अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । जि॒ह्वा । चर्म॑ । ग्रावा॑णः । दन्ताः᳚ । मुख᳚म् । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । नासि॑का । उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । उ॒दर᳚म् । सदः॑ । य॒दा । खलु॑ । वै । जि॒ह्वया᳚ । द॒थ्स्विति॑ दत् -सु । अधीति॑ । खाद॑ति । अथ॑ । मुख᳚म् । ग॒च्छ॒ति॒ । य॒दा । मुख᳚म् । गच्छ॑ति । अथ॑ । उ॒दर᳚म् । ग॒च्छ॒ति॒ । तस्मा᳚त् । ह॒वि॒द्‌र्धान॒ इति॑ हविः - धाने᳚ । चर्मन्न्॑ । अधीति॑ । ग्राव॑भि॒रिति॒ ग्राव॑ - भिः॒ । अ॒भि॒षुत्येत्य॑भि - सुत्य॑ । आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । हु॒त्वा । प्र॒त्यञ्चः॑ । प॒रेत्येति॑ परा - इत्य॑ । सद॑सि । भ॒क्ष॒य॒न्ति॒ । यः । वै । वि॒राज॒ इति॑ वि - राजः॑ । य॒ज्ञ्॒मु॒ख इति॑ यज्ञ् - मु॒खे । दोह᳚म् । वेद॑ । दु॒हे । ए॒व ( ) । ए॒ना॒म् । इ॒यम् । वै । वि॒राडिति॑ वि - राट् । तस्यै᳚ । त्वक् । चर्म॑ । ऊधः॑ । अ॒धि॒षव॑णे॒ इत्य॑धि-सव॑ने । स्तनाः᳚ । उ॒प॒र॒वा इत्यु॑प - र॒वाः । ग्रावा॑णः । व॒थ्साः । ऋ॒त्विजः॑ । दु॒ह॒न्ति॒ । सोमः॑ । पयः॑ । यः । ए॒वम् । वेद॑ । दु॒हे । ए॒व । ए॒ना॒म् ॥
पदसंख्या: 73