काण्डम् 7 - प्रश्नः 3

Kanda 7, Prasna 3

20 अनुवाकाः | 42 पञ्चाशत्

प्रश्नः 3 - Complete Audio Recording

॥

अनुवाकः 1 (4 पञ्चाशत्)

TS 7.3.1.1 TS 7.3.1.1
प्र॒जवं॒ ॅवा ए॒तेन॑ यन्ति॒ यद्-द॑श॒ममहः॑ पापाव॒हीयं॒ ॅवा ए॒तेन॑ भवन्ति॒ यद्-द॑श॒ममह॒र्यो वै प्र॒जवं॑ ॅय॒तामप॑थेन प्रति॒पद्य॑ते॒ यः स्था॒णुꣳ हन्ति॒ यो भ्रेषं॒ न्येति॒ स ही॑यते॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ही॑यते॒ तस्मै॒ य उप॑हताय॒ व्याह॒ तमे॒वान्वा॒रभ्य॒ सम॑श्नु॒तेऽथ॒ यो व्याह॒ स - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जव॒मिति॑ प्र - जव᳚म् । वै । ए॒तेन॑ । य॒न्ति॒ । यत् । द॒श॒मम् । अहः॑ । पा॒पा॒व॒हीय॒मिति॑ पाप - अ॒व॒हीय᳚म् । वै । ए॒तेन॑ । भ॒व॒न्ति॒ । यत् । द॒श॒मम् । अहः॑ । यः । वै । प्र॒जव॒मिति॑ प्र - जव᳚म् । य॒ताम् । अप॑थेन । प्र॒ति॒पद्य॑त॒ इति॑ प्रति - पद्य॑ते । यः । स्था॒णुम् । हन्ति॑ । यः । भ्रेष᳚म् । न्येतीति॑ नि - एति॑ । सः । ही॒य॒ते॒ । सः । यः । वै । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उ॒प॒ह॒न्यत॒ इत्यु॑प-ह॒न्यते᳚ । सः । ही॒य॒ते॒ । तस्मै᳚ । यः । उप॑हता॒येत्युप॑-ह॒ता॒य॒ । व्याहेति॑ वि - आह॑ । तम् । ए॒व । अ॒न्वा॒रभ्येत्य॑नु - आ॒रभ्य॑ । समिति॑ । अ॒श्नु॒ते॒ । अथ॑ । यः । व्याहेति॑ वि - आह॑ । सः । 1 ( 50)
TS 7.3.1.2 TS 7.3.1.2
ही॑यते॒ तस्मा᳚द्-दश॒मे ऽह॑न्नविवा॒क्य उप॑हताय॒ न व्युच्य॒मथो॒ खल्वा॑हुर्य॒ज्ञ्स्य॒ वै समृ॑द्धेन दे॒वाः सु॑व॒र्गं ॅलो॒कमा॑यन् य॒ज्ञ्स्य॒ व्यृ॑द्धे॒नासु॑रा॒न् परा॑ऽभावय॒न्निति॒ यत् खलु॒ वै य॒ज्ञ्स्य॒ समृ॑द्धं॒ तद्-यज॑मानस्य॒ यद्व्यृ॑द्धं॒ तद्भ्रातृ॑व्यस्य॒ स यो वै द॑श॒मेऽह॑न्नविवा॒क्य उ॑पह॒न्यते॒ स ए॒वाति॑ रेचयति॒ ते ये बाह्या॑ दृशी॒कवः॒ - [ ]
▶ पदपाठः (Word-by-word)
ही॒य॒ते॒ । तस्मा᳚त् । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उप॑हता॒येत्युप॑ - ह॒ता॒य॒ । न । व्युच्य॒मिति॑ वि-उच्य᳚म् । अथो॒ इति॑ । खलु॑ । आ॒हुः॒ । य॒ज्ञ्स्य॑ । वै । समृ॑द्धे॒नेति॒ सं - ऋ॒द्धे॒न॒ । दे॒वाः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । य॒ज्ञ्स्य॑ । व्यृ॑द्धे॒नेति॒ वि - ऋ॒द्धे॒न॒ । असु॑रान् । परेति॑ । अ॒भा॒व॒य॒न्न् । इति॑ । यत् । खलु॑ । वै । य॒ज्ञ्स्य॑ । समृ॑द्ध॒मिति॒ सं - ऋ॒द्ध॒म् । तत् । यज॑मानस्य । यत् । व्यृ॑द्ध॒मिति॒ वि-ऋ॒द्ध॒म् । तत् । भ्रातृ॑व्यस्य । सः । यः । वै । द॒श॒मे । अहन्न्॑ । अ॒वि॒वा॒क्य इत्य॑वि - वा॒क्ये । उ॒प॒ह॒न्यत॒ इत्यु॑प - ह॒न्यते᳚ । सः । ए॒व । अतीति॑ । रे॒च॒य॒ति॒ । ते । ये । बाह्याः᳚ । दृ॒शी॒कवः॑ ।
पदसंख्या: 50
TS 7.3.1.3 TS 7.3.1.3
स्युस्ते वि ब्रू॑यु॒र्यदि॒ तत्र॒ न वि॒न्देयु॑रन्तस्सद॒साद्-व्युच्यं॒ ॅयदि॒ तत्र॒ न वि॒न्देयु॑र्गृ॒हप॑तिना॒ व्युच्यं॒ तद्व्युच्य॑मे॒वाथ॒ वा ए॒तथ् स॑र्परा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑वन्त॒यं ॅवै सर्प॑तो॒ राज्ञी॒ यद्वा अ॒स्यां किं चार्च॑न्ति॒ यदा॑नृ॒चुस्तेने॒यꣳ स॑र्परा॒ज्ञी ते यदे॒व किं च॑ वा॒चा ऽऽनृ॒चुर्यद॒तोऽद्ध्य॑र्चि॒तार॒ - [ ]
▶ पदपाठः (Word-by-word)
स्युः । ते । वीति॑ । ब्रू॒युः॒ । यदि॑ । तत्र॑ । न । वि॒न्देयुः॑ । अ॒न्त॒स्स॒द॒सादित्य॑न्तः - स॒द॒सात् । व्युच्य॒मिति॑ वि - उच्य᳚म् । यदि॑ । तत्र॑ । न । वि॒न्देयुः॑ । गृ॒हप॑ति॒नेति॑ गृ॒ह - प॒ति॒ना॒ । व्युच्य॒मिति॑ वि- उच्य᳚म् । तत् । व्युच्य॒मिति॑ वि - उच्य᳚म् । ए॒व । अथ॑ । वै । ए॒तत् । स॒र्प॒रा॒ज्ञिया॒ इति॑ सर्प - रा॒ज्ञियाः᳚ । ऋ॒ग्भिरित्यृ॑क् - भिः । स्तु॒व॒न्ति॒ । इ॒यम् । वै । सर्प॑तः । राज्ञी᳚ । यत् । वै । अ॒स्याम् । किम् । च॒ । अर्च॑न्ति । यत् । आ॒नृ॒चुः । तेन॑ । इ॒यम् । स॒र्प॒रा॒ज्ञीति॑ सर्प-रा॒ज्ञी । ते । यत् । ए॒व । किम् । च॒ । वा॒चा । आ॒नृ॒चुः । यत् । अ॒तोधि॑ । अ॒र्चि॒तारः॑ ।
पदसंख्या: 50
TS 7.3.1.4 TS 7.3.1.4
-स्तदु॒भय॑मा॒प्त्वा ऽव॒रुद्ध्योत् ति॑ष्ठा॒मेति॒ ताभि॒र्मन॑सा स्तुवते॒ न वा इ॒माम॑श्वर॒थो नाऽश्व॑तरीर॒थः स॒द्यः पर्या᳚प्तुमर्.हति॒ मनो॒ वा इ॒माꣳ स॒द्यः पर्या᳚प्तुमर्.हति॒ मनः॒ परि॑भवितु॒मथ॒ ब्रह्म॑ वदन्ति॒ परि॑मिता॒ वा ऋचः॒ परि॑मितानि॒ सामा॑नि॒ परि॑मितानि॒ यजूꣳ॒॒ष्यथै॒तस्यै॒वान्तो॒ नास्ति॒ यद्-ब्रह्म॒ तत् प्र॑तिगृण॒त आ च॑क्षीत॒ स ( ) प्र॑तिग॒रः ॥
▶ पदपाठः (Word-by-word)
तत् । उ॒भय᳚म् । आ॒प्त्वा । अ॒व॒रुद्ध्येत्य॑व - रुद्ध्य॑ । उदिति॑ । ति॒ष्ठा॒म॒ । इति॑ । ताभिः॑ । मन॑सा । स्तु॒व॒ते॒ । न । वै । इ॒माम् । अ॒श्व॒र॒थ इत्य॑श्व - र॒थः । न । अ॒श्व॒त॒री॒र॒थ इत्यश्व॑तरी - र॒थः । स॒द्यः । पर्या᳚प्तु॒मिति॒ परि॑-आ॒प्तु॒म् । अ॒र्.॒ह॒ति॒ । मनः॑ । वै । इ॒माम् । स॒द्यः । पर्या᳚प्तु॒मिति॒ परि॑ - आ॒प्तु॒म् । अ॒र्.॒ह॒ति॒ । मनः॑ । परि॑भवितु॒मिति॒ परि॑-भ॒वि॒तु॒म् । अथ॑ । ब्रह्म॑ । व॒द॒न्ति॒ । परि॑मिता॒ इति॒ परि॑-मि॒ताः॒ । वै । ऋचः॑ । परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ । सामा॑नि । परि॑मिता॒नीति॒ परि॑ - मि॒ता॒नि॒ । यजूꣳ॑षि । अथ॑ । ए॒तस्य॑ । ए॒व । अन्तः॑ । न । अ॒स्ति॒ । यत् । ब्रह्म॑ । तत् । प्र॒ति॒गृ॒ण॒त इति॑ प्रति - गृ॒ण॒ते । एति॑ । च॒क्षी॒त॒ । सः ( ) । प्र॒ति॒ग॒र इति॑ प्रति - ग॒रः ॥
पदसंख्या: 51

अनुवाकः 2 (2 पञ्चाशत्)

TS 7.3.2.1 TS 7.3.2.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ किं द्वा॑दशा॒हस्य॑ प्रथ॒मेनाह्न॒र्त्विजां॒ ॅयज॑मानो वृङ्क्त॒ इति॒ तेज॑ इन्द्रि॒यमिति॒ किं द्वि॒तीये॒नेति॑ प्रा॒णान॒न्नाद्य॒मिति॒ किं तृ॒तीये॒नेति॒ त्रीनि॒मान् ॅलो॒कानिति॒ किं च॑तु॒र्त्थेनेति॒ चतु॑ष्पदः प॒शूनिति॒ किं प॑ञ्च॒मेनेति॒ पञ्चा᳚क्षरां प॒ङ्क्तिमिति॒ किꣳ ष॒ष्ठेनेति॒ षड् ऋ॒तूनिति॒ किꣳ स॑प्त॒मेनेति॑ स॒प्तप॑दाꣳ॒॒ शक्व॑री॒मिति॒ - [ ]
▶ पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । किम् । द्वा॒द॒शा॒हस्येति॑ द्वादश - अ॒हस्य॑ । प्र॒थ॒मेन॑ । अह्ना᳚ । ऋ॒त्विजा᳚म् । यज॑मानः । वृ॒ङ्क्ते॒ । इति॑ । तेजः॑ । इ॒न्द्रि॒यम् । इति॑ । किम् । द्वि॒तीये॑न । इति॑ । प्रा॒णानिति॑ प्र - अ॒नान् । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । इति॑ । किम् । तृ॒तीये॑न । इति॑ । त्रीन् । इ॒मान् । लो॒कान् । इति॑ । किम् । च॒तु॒र्त्थेन॑ । इति॑ । चतु॑ष्पद॒ इति॒ चतुः॑-प॒दः॒ । प॒शून् । इति॑ । किम् । प॒ञ्च॒मेन॑ । इति॑ । पञ्चा᳚क्षरा॒मिति॒ पञ्च॑ - अ॒क्ष॒रा॒म् । प॒ङ्क्तिम् । इति॑ । किम् । ष॒ष्ठेन॑ । इति॑ । षट् । ऋ॒तून् । इति॑ । किम् । स॒प्त॒मेन॑ । इति॑ । स॒प्तप॑दा॒मिति॑ स॒प्त - प॒दा॒म् । शक्व॑रीम् । इति॑ ।
पदसंख्या: 50
TS 7.3.2.2 TS 7.3.2.2
किम॑ष्ट॒मेनेत्य॒ष्टाक्ष॑रां गाय॒त्रीमिति॒ किं न॑व॒मेनेति॑ त्रि॒वृतꣳ॒॒ स्तोम॒मिति॒ किं द॑श॒मेनेति॒ दशा᳚क्षरां ॅवि॒राज॒मिति॒ किमे॑काद॒शेनेत्येका॑दशाक्षरां त्रि॒ष्टुभ॒मिति॒ किं द्वा॑द॒शेनेति॒ द्वाद॑शाक्षरां॒ जग॑ती॒मित्ये॒ताव॒द्वा अ॑स्ति॒ याव॑दे॒तद्-याव॑दे॒वास्ति॒ तदे॑षां ॅवृङ्क्ते ॥
▶ पदपाठः (Word-by-word)
किम् । अ॒ष्ट॒मेन॑ । इति॑ । अ॒ष्टाक्ष॑रा॒मित्य॒ष्टा - अ॒क्ष॒रा॒म् । गा॒य॒त्रीम् । इति॑ । किम् । न॒व॒मेन॑ । इति॑ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । स्तोम᳚म् । इति॑ । किम् । द॒श॒मेन॑ । इति॑ । दशा᳚क्षरा॒मिति॒ दश॑ - अ॒क्ष॒रा॒म् । वि॒राज॒मिति॑ वि - राज᳚म् । इति॑ । किम् । ए॒का॒द॒शेन॑ । इति॑ । एका॑दशाक्षरा॒मित्येका॑दश - अ॒क्ष॒रा॒म् । त्रि॒ष्टुभ᳚म् । इति॑ । किम् । द्वा॒द॒शेन॑ । इति॑ । द्वाद॑शाक्षरा॒मिति॒ द्वाद॑श - अ॒क्ष॒रा॒म् । जग॑तीम् । इति॑ । ए॒ताव॑त् । वै । अ॒स्ति॒ । याव॑त् । ए॒तत् । याव॑त् । ए॒व । अस्ति॑ । तत् । ए॒षा॒म् । वृ॒ङ्क्ते॒ ॥
पदसंख्या: 41

अनुवाकः 3 (2 पञ्चाशत्)

TS 7.3.3.1 TS 7.3.3.1
ए॒ष वा आ॒प्तो द्वा॑दशा॒हो यत् त्र॑योदशरा॒त्रः स॑मा॒नꣳ ह्ये॑तदह॒र्यत् प्रा॑य॒णीय॑श्चोदय॒नीय॑श्च॒ त्र्य॑तिरात्रो भवति॒ त्रय॑ इ॒मे लो॒का ए॒षां ॅलो॒काना॒माप्त्यै᳚ प्रा॒णो वै प्र॑थ॒मो॑ऽतिरा॒त्रो व्या॒नो द्वि॒तीयो॑ ऽपा॒नस्तृ॒तीयः॑ प्राणापानो-दा॒नेष्वे॒वान्नाद्ये॒ प्रति॑ तिष्ठन्ति॒ सर्व॒मायु॑र्यन्ति॒ य ए॒वं ॅवि॒द्वाꣳस॑-स्त्रयोदशरा॒त्र-मास॑ते॒ तदा॑हु॒र्वाग्वा ए॒षा वित॑ता॒ - [ ]
▶ पदपाठः (Word-by-word)
ए॒षः । वै । आ॒प्तः । द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः । यत् । त्र॒यो॒द॒श॒रा॒त्र इति॑ त्रयोदश - रा॒त्रः । स॒मा॒नम् । हि । ए॒तत् । अहः॑ । यत् । प्रा॒य॒णीय॒ इति॑ प्र - अ॒य॒नीयः॑ । च॒ । उ॒द॒य॒नीय॒ इत्यु॑त् - अ॒य॒नीयः॑ । च॒ । त्र्य॑तिरात्र॒ इति॒ त्रि - अ॒ति॒रा॒त्रः॒ । भ॒व॒ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षाम् । लो॒काना᳚म् । आप्त्यै᳚ । प्रा॒ण इति॑ प्र - अ॒नः । वै । प्र॒थ॒मः । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । व्या॒न इति॑ वि - अ॒नः । द्वि॒तीयः॑ । अ॒पा॒न इत्य॑प-अ॒नः । तृ॒तीयः॑ । प्रा॒णा॒पा॒नो॒दा॒नेष्विति॑ प्राणापान - उ॒दा॒नेषु॑ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । सर्व᳚म् । आयुः॑ । य॒न्ति॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒यो॒द॒श॒रा॒त्रमिति॑ त्रयोदश - रा॒त्रम् । आस॑ते । तत् । आ॒हुः॒ । वाक् । वै । ए॒षा । वित॒तेति॒ वि - त॒ता॒ ।
पदसंख्या: 50
TS 7.3.3.2 TS 7.3.3.2
यद् द्वा॑दशा॒हस्तां ॅविच्छि॑न्द्यु॒र्यन्मद्ध्ये॑ ऽतिरा॒त्रं कु॒र्युरु॑प॒दासु॑का गृ॒हप॑ते॒र्वाख् स्या॑-दु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॑र्वन्ति॒ संत॑तामे॒व वाच॒मव॑ रुन्ध॒तेऽनु॑पदासुका गृ॒हप॑ते॒र्वाग्-भ॑वति प॒शवो॒ वै छ॑न्दो॒मा अन्नं॑ महाव्र॒तं ॅयदु॒परि॑ष्टाच्छन्दो॒मानां᳚ महाव्र॒तं कु॒र्वन्ति॑ प॒शुषु॑ चै॒वान्नाद्ये॑ च॒ प्रति॑ तिष्ठन्ति ॥
▶ पदपाठः (Word-by-word)
यत् । द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः । ताम् । वीति॑ । छि॒न्द्युः॒ । यत् । मद्ध्ये᳚ । अ॒ति॒रा॒त्रमित्य॑ति-रा॒त्रम् । कु॒र्युः । उ॒प॒दासु॒केत्यु॑प-दासु॑का । गृ॒हप॑ते॒रिति॑ गृ॒ह - प॒तेः॒ । वाक् । स्या॒त् । उ॒परि॑ष्टात् । छ॒न्दो॒माना॒मिति॑ छन्दः - माना᳚म् । म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् । कु॒र्व॒न्ति॒ । संत॑ता॒मिति॒ सं-त॒ता॒म् । ए॒व । वाच᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । अनु॑पदासु॒केत्यनु॑प - दा॒सु॒का॒ । गृ॒हप॑ते॒रिति॑ गृ॒ह - प॒तेः॒ । वाक् । भ॒व॒ति॒ । प॒शवः॑ । वै । छ॒न्दो॒मा इति॑ छन्दः - माः । अन्न᳚म् । म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् । यत् । उ॒परि॑ष्टात् । छ॒न्दो॒माना॒मिति॑ छन्दः - माना᳚म् । म॒हा॒व्र॒तमिति॑ महा - व्र॒तम् । कु॒र्वन्ति॑ । प॒शुषु॑ । च॒ । ए॒व । अ॒न्नाद्य॒ इत्य॑न्न - अद्ये᳚ । च॒ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ ॥
पदसंख्या: 43

अनुवाकः 4 (2 पञ्चाशत्)

TS 7.3.4.1 TS 7.3.4.1
आ॒दि॒त्या अ॑कामयन्तो॒-भयो᳚र्लो॒कयोर्॑ ऋद्ध्नुया॒मेति॒ त ए॒तं च॑तुर्दशरा॒त्र- म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै त उ॒भयो᳚-र्लो॒कयो॑-रार्द्ध्नुवन्न॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑. ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒-मुष्मिꣳ॑श्च चतुर्दशरा॒त्रो भ॑वति स॒प्त ग्रा॒म्या ओष॑धयः स॒प्ताऽऽ*र॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्यै॒ यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ - [ ]
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्नु॒या॒म॒ । इति॑ । ते । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । उ॒भयोः᳚ । लो॒कयोः᳚ । आ॒द्‌र्ध्नु॒व॒न्न् । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । आस॑ते । उ॒भयोः᳚ । ए॒व । लो॒कयोः᳚ । ऋ॒द्ध्नु॒व॒न्ति॒ । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । च॒तु॒र्द॒श॒रा॒त्र इति॑ चतुर्दश - रा॒त्रः । भ॒व॒ति॒ । स॒प्त । ग्रा॒म्याः । ओष॑धयः । स॒प्त । आ॒र॒ण्याः । उ॒भयी॑षाम् । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । यत् । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ ।
पदसंख्या: 50
TS 7.3.4.2 TS 7.3.4.2
भव॑न्त्य॒मुमे॒व तैर्लो॒कम॒भि ज॑यन्ति॒ यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कम॒भि ज॑यन्ति त्रयस्त्रिꣳ॒॒शौ म॑द्ध्य॒तः स्तोमौ॑ भवतः॒ साम्रा᳚ज्यमे॒व ग॑च्छन्त्यधिरा॒जौ भ॑वतोऽधिरा॒जा ए॒व स॑मा॒नानां᳚ भवन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
भव॑न्ति । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒न्ति॒ । यत् । प्र॒ती॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । इ॒मम् । ए॒व । तैः । लो॒कम् । अ॒भीति॑ । ज॒य॒न्ति॒ । त्र॒य॒स्त्रिꣳ॒॒शाविति॑ त्रयः - त्रिꣳ॒॒शौ । म॒द्ध्य॒तः । स्तोमौ᳚ । भ॒व॒तः॒ । साम्रा᳚ज्य॒मिति॒ सां - रा॒ज्य॒म् । ए॒व । ग॒च्छ॒न्ति॒ । अ॒धि॒रा॒जावित्य॑धि - रा॒जौ । भ॒व॒तः॒ । अ॒धि॒रा॒जा इत्य॑धि - रा॒जाः । ए॒व । स॒मा॒नाना᳚म् । भ॒व॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 34

अनुवाकः 5 (3 पञ्चाशत्)

TS 7.3.5.1 TS 7.3.5.1
प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं दे॒वा अन्वा॑य॒न् ताना॑दि॒त्याश्च॑ प॒शव॒श्चान्वा॑य॒न् ते दे॒वा अ॑ब्रुव॒न॒. यान् प॒शूनु॒पाजी॑विष्म॒ त इ॒मे᳚ ऽन्वाग्म॒न्निति॒ तेभ्य॑ ए॒तं च॑तुर्दशरा॒त्रं प्रत्यौ॑ह॒न् त आ॑दि॒त्याः पृ॒ष्ठैः सु॑व॒र्गं ॅलो॒कमाऽरो॑हन् त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के प॒शून् प्रत्यौ॑हन् पृ॒ष्ठैरा॑दि॒त्या अ॒मुष्मि॑न् ॅलो॒क आर्द्ध्नु॑वन् त्र्य॒हाभ्या॑म॒स्मिन् - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒त् । तम् । दे॒वाः । अन्विति॑ । आ॒य॒न्न् । तान् । आ॒दि॒त्याः । च॒ । प॒शवः॑ । च॒ । अन्विति॑ । आ॒य॒न्न् । ते । दे॒वाः । अ॒ब्रु॒व॒न्. । यान् । प॒शून् । उ॒पाजी॑वि॒ष्मेत्यु॑प - अजी॑विष्म । ते । इ॒मे । अ॒न्वाग्म॒न्नित्य॑नु-आग्मन्न्॑ । इति॑ । तेभ्यः॑ । ए॒तम् । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश-रा॒त्रम् । प्रतीति॑ । औ॒ह॒न्न् । ते । आ॒दि॒त्याः । पृ॒ष्ठैः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । एति॑ । अ॒रो॒ह॒न्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । प॒शून् । प्रतीति॑ । औ॒ह॒न्न् । पृ॒ष्ठैः । आ॒दि॒त्याः । अ॒मुष्मिन्न्॑ । लो॒के । आद्‌र्ध्नु॑वन्न् । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् ।
पदसंख्या: 50
TS 7.3.5.2 TS 7.3.5.2
ॅलो॒के प॒शवो॒ य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्दशरा॒त्रमास॑त उ॒भयो॑रे॒व लो॒कयोर्॑ ऋद्ध्नुवन्त्य॒स्मिꣳश्चा॒मुष्मिꣳ॑श्च पृ॒ष्ठैरे॒वाऽमुष्मि॑न् ॅलो॒क ऋ॑द्ध्नु॒वन्ति॑ त्र्य॒हाभ्या॑म॒स्मिन् ॅलो॒के ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौ - [ ]
▶ पदपाठः (Word-by-word)
लो॒के । प॒शवः॑ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्द॒श॒रा॒त्रमिति॑ चतुर्दश - रा॒त्रम् । आस॑ते । उ॒भयोः᳚ । ए॒व । लो॒कयोः᳚ । ऋ॒द्ध्नु॒व॒न्ति॒ । अ॒स्मिन्न् । च॒ । अ॒मुष्मिन्न्॑ । च॒ । पृ॒ष्ठैः । ए॒व । अ॒मुष्मिन्न्॑ । लो॒के । ऋ॒द्ध्नु॒वन्ति॑ । त्र्य॒हाभ्या॒मिति॑ त्रि - अ॒हाभ्या᳚म् । अ॒स्मिन्न् । लो॒के । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि-अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि-वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ ।
पदसंख्या: 50
TS 7.3.5.3 TS 7.3.5.3
-जो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या ( ) उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ चतु॑र्दशै॒तास्तासां॒ ॅया दश॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याश्चत॑स्र॒श्चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑-स्थि॒त्यै॒ ( ) । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । चतु॑र्द॒शेति॒ चतुः॑ - द॒श॒ । ए॒ताः । तासा᳚म् । याः । दश॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । याः । चत॑स्रः । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 81

अनुवाकः 6 (2 पञ्चाशत्)

TS 7.3.6.1 TS 7.3.6.1
इन्द्रो॒ वै स॒दृङ् दे॒वता॑भिरासी॒थ् स न व्या॒वृत॑मगच्छ॒थ् स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्याभि॑-र्दे॒वता॑भि-र्व्या॒वृत॑मगच्छ॒द्य ए॒वं ॅवि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते व्या॒वृत॑मे॒व पा॒प्मना॒ भ्रातृ॑व्येण गच्छन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ - [ ]
▶ पदपाठः (Word-by-word)
इन्द्रः॑ । वै । स॒दृङ्ङिति॑ स - दृङ् । दे॒वता॑भिः । आ॒सी॒त् । सः । न । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश-रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒न्याभिः॑ । दे॒वता॑भिः । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । अ॒ग॒च्छ॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । आस॑ते । व्या॒वृत॒मिति॑ वि - आ॒वृत᳚म् । ए॒व । पा॒प्मना᳚ । भ्रातृ॑व्येण । ग॒च्छ॒न्ति॒ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् ।
पदसंख्या: 50
TS 7.3.6.2 TS 7.3.6.2
गौर॒सावायु॑रे॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति पञ्चदशरा॒त्रो भ॑वति पञ्चद॒शो वज्रो॒ वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॒ ( ) परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
गौः । अ॒सौ । आयुः॑ । ए॒षु । ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः-मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । प॒ञ्च॒द॒श॒रा॒त्र इति॑ पञ्चदश - रा॒त्रः । भ॒व॒ति॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । वज्रः॑ । वज्र᳚म् । ए॒व । भ्रातृ॑व्येभ्यः । प्रेति॑ । ह॒र॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । इ॒न्द्रि॒यस्य॑ ( ) । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 51

अनुवाकः 7 (4 पञ्चाशत्)

TS 7.3.7.1 TS 7.3.7.1
इन्द्रो॒ वै शि॑थि॒ल इ॒वाऽप्र॑तिष्ठित आसी॒थ् सोऽसु॑रेभ्योऽबिभे॒थ् स प्र॒जाप॑ति॒मुपा॑ऽधाव॒त् तस्मा॑ ए॒तं प॑ञ्चदशरा॒त्रं ॅवज्रं॒ प्राय॑च्छ॒त् तेनासु॑रान् परा॒भाव्य॑ वि॒जित्य॒ श्रिय॑मगच्छदग्नि॒ष्टुता॑ पा॒प्मानं॒ निर॑दहत पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्य॑मा॒त्मन्न॑धत्त॒ य ए॒वं ॅवि॒द्वाꣳसः॑ पञ्चदशरा॒त्रमास॑ते॒ भ्रातृ॑व्याने॒व प॑रा॒भाव्य॑ वि॒जित्य॒ श्रियं॑ गच्छन्त्यग्नि॒ष्टुता॑ पा॒प्मानं॒ नि - [ ]
▶ पदपाठः (Word-by-word)
इन्द्रः॑ । वै । शि॒थि॒लः । इ॒व॒ । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । आ॒सी॒त् । सः । असु॑रेभ्यः । अ॒बि॒भे॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । वज्र᳚म् । प्रेति॑ । अ॒य॒च्छ॒त् । तेन॑ । असु॑रान् । प॒रा॒भाव्येति॑ परा - भाव्य॑ । वि॒जित्येति॑ वि-जित्य॑ । श्रिय᳚म् । अ॒ग॒च्छ॒त् । अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ । पा॒प्मान᳚म् । निरिति॑ । अ॒द॒ह॒त॒ । प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । आ॒त्मन्न् । अ॒ध॒त्त॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । प॒ञ्च॒द॒श॒रा॒त्रमिति॑ पञ्चदश - रा॒त्रम् । आस॑ते । भ्रातृ॑व्यान् । ए॒व । प॒रा॒भाव्येति॑ परा - भाव्य॑ । वि॒जित्येति॑ वि - जित्य॑ । श्रिय᳚म् । ग॒च्छ॒न्ति॒ । अ॒ग्नि॒ष्टुतेत्य॑ग्नि - स्तुता᳚ । पा॒प्मान᳚म् । निरिति॑ ।
पदसंख्या: 50
TS 7.3.7.2 TS 7.3.7.2
र्द॑हन्ते पञ्चदशरा॒त्रेणौजो॒ बल॑मिन्द्रि॒यं ॅवी॒र्य॑मा॒त्मन् द॑धत ए॒ता ए॒व प॑श॒व्याः᳚ पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते॒ तस्मा᳚त् पश॒व्या॑ ए॒ता ए॒व सु॑व॒र्ग्याः᳚ पञ्च॑दश॒ वा अ॑र्द्धमा॒सस्य॒ रात्र॑योऽर्द्धमास॒शः सं॑ॅवथ्स॒र आ᳚प्यते संॅवथ्स॒रः सु॑व॒र्गो लो॒कस्तस्मा᳚थ् सुव॒र्ग्या᳚ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हो भ॑वती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ - [ ]
▶ पदपाठः (Word-by-word)
द॒ह॒न्ते॒ । प॒ञ्च॒द॒श॒रा॒त्रेणेति॑ पञ्चदश - रा॒त्रेण॑ । ओजः॑ । बल᳚म् । इ॒न्द्रि॒यम् । वी॒र्य᳚म् । आ॒त्मन्न् । द॒ध॒ते॒ । ए॒ताः । ए॒व । प॒श॒व्याः᳚ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्‌र्ध॒मा॒सस्येत्य॒॑द्‌र्ध - मा॒सस्य॑ । रात्र॑यः । अ॒द्‌र्ध॒मा॒स॒श इत्य॑द्‌र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । प॒शवः॑ । अनु॑ । प्रेति॑ । जा॒य॒न्ते॒ । तस्मा᳚त् । प॒श॒व्याः᳚ । ए॒ताः । ए॒व । सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । वै । अ॒द्‌र्ध॒मा॒सस्येत्य॑द्‌र्ध -मा॒सस्य॑ । रात्र॑यः । अ॒द्‌र्ध॒मा॒स॒श इत्य॑द्‌र्धमास - शः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । आ॒प्य॒ते॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । तस्मा᳚त् । सु॒व॒र्ग्या॑ इति॑ सुवः - ग्याः᳚ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् ।
पदसंख्या: 50
TS 7.3.7.3 TS 7.3.7.3
गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं - [ ]
▶ पदपाठः (Word-by-word)
गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत्-र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा-अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् ।
पदसंख्या: 50
TS 7.3.7.4 TS 7.3.7.4
ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ पञ्च॑दशै॒तास्तासां॒ ॅया दश॒ दशा᳚क्षरा वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते॒ याः पञ्च॒ पञ्च॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठन्त्यतिरा॒त्राव॒भितो॑ भवत इन्द्रि॒यस्य॑ वी॒र्य॑स्य प्र॒जायै॑ ( ) पशू॒नां परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । पञ्च॑द॒शेति॒ पञ्च॑ - द॒श॒ । ए॒ताः । तासा᳚म् । याः । दश॑ । दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । याः । पञ्च॑ । पञ्च॑ । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । इ॒न्द्रि॒यस्य॑ । वी॒र्य॑स्य । प्र॒जाया॒ इति॑ प्र - जायै᳚ ( ) । प॒शू॒नाम् । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 52

अनुवाकः 8 (2 पञ्चाशत्)

TS 7.3.8.1 TS 7.3.8.1
प्र॒जाप॑ति-रकामयतान्ना॒दः स्या॒मिति॒ स ए॒तꣳ स॑प्तदशरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो᳚ऽन्ना॒दो॑ऽभव॒द्य ए॒वं ॅवि॒द्वाꣳसः॑ सप्तदश-रा॒त्रमास॑ते ऽन्ना॒दा ए॒व भ॑वन्ति पञ्चा॒हो भ॑वति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाऽव॑ रुन्ध॒ते ऽस॑त्रं॒ ॅवा ए॒त- [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । अ॒का॒म॒य॒त॒ । अ॒न्ना॒द इत्य॑न्न - अ॒दः । स्या॒म् । इति॑ । सः । ए॒तम् । स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒न्ना॒द इत्य॑न्न - अ॒दः । अ॒भ॒व॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । स॒प्त॒द॒श॒रा॒त्रमिति॑ सप्तदश-रा॒त्रम् । आस॑ते । अ॒न्ना॒दा इत्य॑न्न-अ॒दाः । ए॒व । भ॒व॒न्ति॒ । प॒ञ्चा॒ह इति॑ पञ्च - अ॒हः । भ॒व॒ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथा॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । अस॑त्रम् । वै । ए॒तत् ।
पदसंख्या: 50
TS 7.3.8.2 TS 7.3.8.2
-द्यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति सप्तदशरा॒त्रो भ॑वति सप्तद॒शः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑ अतिरा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । स॒प्त॒द॒श॒रा॒त्र इति॑ सप्तदश - रा॒त्रः । भ॒व॒ति॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । आप्त्यै᳚ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 37

अनुवाकः 9 (3 पञ्चाशत्)

TS 7.3.9.1 TS 7.3.9.1
सा वि॒राड् वि॒क्रम्या॑तिष्ठ॒द्-ब्रह्म॑णा दे॒वेष्वन्ने॒ना-सु॑रेषु॒ ते दे॒वा अ॑कामयन्तो॒भयꣳ॒॒ सं ॅवृ॑ञ्जीमहि॒ ब्रह्म॒ चान्नं॒ चेति॒ त ए॒ता विꣳ॑श॒तिꣳ रात्री॑रपश्य॒न् ततो॒ वै त उ॒भयꣳ॒॒ सम॑वृञ्जत॒ ब्रह्म॒ चान्नं॑ च ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा अ॑भव॒न्॒. य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑त उ॒भय॑मे॒व संॅ वृ॑ञ्जते॒ ब्रह्म॒ चान्नं॑ च - [ ]
▶ पदपाठः (Word-by-word)
सा । वि॒राडिति॑ वि - राट् । वि॒क्रम्येति॑ वि - क्रम्य॑ । अ॒ति॒ष्ठ॒त् । ब्रह्म॑णा । दे॒वेषु॑ । अन्ने॑न । असु॑रेषु । ते । दे॒वाः । अ॒का॒म॒य॒न्त॒ । उ॒भय᳚म् । समिति॑ । वृ॒ञ्जी॒म॒हि॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ । इति॑ । ते । ए॒ताः । विꣳ॒॒श॒तिम् । रात्रीः᳚ । अ॒प॒श्य॒न्न् । ततः॑ । वै । ते । उ॒भय᳚म् । समिति॑ । अ॒वृ॒ञ्ज॒त॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ । ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ । अ॒न्ना॒दा इत्य॑न्न - अ॒दाः । अ॒भ॒व॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । उ॒भय᳚म् । ए॒व । समिति॑ । वृ॒ञ्ज॒ते॒ । ब्रह्म॑ । च॒ । अन्न᳚म् । च॒ ।
पदसंख्या: 50
TS 7.3.9.2 TS 7.3.9.2
ब्रह्मवर्च॒सिनो᳚ऽन्ना॒दा भ॑वन्ति॒ द्वे वा ए॒ते वि॒राजौ॒ तयो॑रे॒व नाना॒ प्रति॑ तिष्ठन्ति विꣳ॒॒शो वै पुरु॑षो॒ दश॒ हस्त्या॑ अ॒ङ्गुल॑यो॒ दश॒ पद्या॒ यावा॑ने॒व पुरु॑ष॒स्तमा॒प्त्वोत् ति॑ष्ठन्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒का-न॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं - [ ]
▶ पदपाठः (Word-by-word)
ब्र॒ह्म॒व॒र्च॒सिन॒ इति॑ ब्रह्म - व॒र्च॒सिनः॑ । अ॒न्ना॒दा इत्य॑न्न - अ॒दाः । भ॒व॒न्ति॒ । द्वे इति॑ । वै । ए॒ते इति॑ । वि॒राजा॒विति॑ वि-राजौ᳚ । तयोः᳚ । ए॒व । नाना᳚ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । विꣳ॒॒शः । वै । पुरु॑षः । दश॑ । हस्त्याः᳚ । अ॒ङ्गुल॑यः । दश॑ । पद्याः᳚ । यावान्॑ । ए॒व । पुरु॑षः । तम् । आ॒प्त्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् ।
पदसंख्या: 50
TS 7.3.9.3 TS 7.3.9.3
ॅलो॒कम॒भ्यारो॑हन्ति॒ यद॒न्यतः॑ पृ॒ष्ठानि॒ स्युर्विवि॑वधꣳ स्या॒न्मद्ध्ये॑ पृ॒ष्ठानि॑ भवन्ति सविवध॒त्वायौजो॒ वै वी॒र्यं॑ पृ॒ष्ठान्योज॑ ए॒व वी॒र्यं॑ मद्ध्य॒तो द॑धते बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ( ) ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वोत् ति॑ष्ठन्त्यतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒स-स्या॒न्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । यत् । अ॒न्यतः॑ । पृ॒ष्ठानि॑ । स्युः । विवि॑वध॒मिति॒ वि - वि॒व॒ध॒म् । स्या॒त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । स॒वि॒व॒ध॒त्वायेति॑ सविवध - त्वाय॑ । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । ओजः॑ । ए॒व । वी॒र्य᳚म् । म॒द्ध्य॒तः । द॒ध॒ते॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् ( ) । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒ह इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 73

अनुवाकः 10 (5 पञ्चाशत्)

TS 7.3.10.1 TS 7.3.10.1
अ॒सावा॑दि॒त्यो᳚ऽस्मिन् ॅलो॒क आ॑सी॒त् तं दे॒वाः पृ॒ष्ठैः प॑रि॒गृह्य॑ सुव॒र्गं ॅलो॒कम॑गमय॒न् परै॑र॒वस्ता॒त् पर्य॑गृह्णन् दिवाकी॒र्त्ये॑न सुव॒र्गे लो॒के प्रत्य॑स्थापय॒न् परैः᳚ प॒रस्ता॒त् पर्य॑गृह्णन् पृ॒ष्ठैरु॒पावा॑रोह॒न्थ्स वा अ॒सावा॑दि॒त्यो॑ऽमुष्मि॑न् ॅलो॒के परै॑रुभ॒यतः॒ परि॑गृहीतो॒ यत् पृ॒ष्ठानि॒ भव॑न्ति सुव॒र्गमे॒व तैर्लो॒कं ॅयज॑माना यन्ति॒ परै॑र॒वस्ता॒त् परि॑ गृह्णन्ति दिवाकी॒र्त्ये॑न - [ ]
▶ पदपाठः (Word-by-word)
अ॒सौ । आ॒दि॒त्यः । अ॒स्मिन्न् । लो॒के । आ॒सी॒त् । तम् । दे॒वाः । पृ॒ष्ठैः । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒ग॒म॒य॒न्न् । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । अ॒स्था॒प॒य॒न्न् । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । अ॒गृ॒ह्ण॒न्न् । पृ॒ष्ठैः । उ॒पावा॑रोह॒न्नित्यु॑प - अवा॑रोहन्न् । सः । वै । अ॒सौ । आ॒दि॒त्यः । अ॒मुष्मिन्न्॑ । लो॒के । परैः᳚ । उ॒भ॒यतः॑ । परि॑गृहीत॒ इति॒ परि॑-गृ॒ही॒तः॒ । यत् । पृ॒ष्ठानि॑ । भव॑न्ति । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । तैः । लो॒कम् । यज॑मानाः । य॒न्ति॒ । परैः᳚ । अ॒वस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । दि॒वा॒की॒र्त्ये॑नेति॑ दिवा - की॒र्त्ये॑न ।
पदसंख्या: 50
TS 7.3.10.2 TS 7.3.10.2
सुव॒र्गे लो॒के प्रति॑ तिष्ठन्ति॒ परैः᳚ प॒रस्ता॒त् परि॑ गृह्णन्ति पृ॒ष्ठैरु॒पाव॑रोहन्ति॒ यत् परे॑ प॒रस्ता॒न्न स्युः परा᳚ञ्चः सुव॒र्गा-ल्लो॒कान्निष्प॑द्येर॒न्॒. यद॒वस्ता॒न्न स्युः प्र॒जा निर्द॑हेयुर॒भितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति सुव॒र्ग ए॒वैनां᳚ ॅलो॒क उ॑भ॒यतः॒ परि॑ गृह्णन्ति॒ यज॑माना॒ वै दि॑वाकी॒र्त्यꣳ॑ संॅवथ्स॒रः पर॑स्सामानो॒ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति संॅवथ्स॒र ए॒वोभ॒यतः॒ - [ ]
▶ पदपाठः (Word-by-word)
सु॒व॒र्ग इति॑ सुवः-गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । परैः᳚ । प॒रस्ता᳚त् । परीति॑ । गृ॒ह्ण॒न्ति॒ । पृ॒ष्ठैः । उ॒पाव॑रोह॒न्तीत्यु॑प - अव॑रोहन्ति । यत् । परे᳚ । प॒रस्ता᳚त् । न । स्युः । परा᳚ञ्चः । सु॒व॒र्गादिति॑ सुवः - गात् । लो॒कात् । निरिति॑ । प॒द्ये॒र॒न्न् । यत् । अ॒वस्ता᳚त् । न । स्युः । प्र॒जा इति॑ प्र - जाः । निरिति॑ । द॒हे॒युः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सु॒व॒र्ग इति॑ सुवः - गे । ए॒व । ए॒ना॒न्न् । लो॒के । उ॒भ॒यतः॑ । परीति॑ । गृ॒ह्ण॒न्ति॒ । यज॑मानाः । वै । दि॒वा॒की᳚र्त्यमिति॑ दिवा - की॒र्त्य᳚म् । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । भ॒व॒न्ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । उ॒भ॒यतः॑ ।
पदसंख्या: 50
TS 7.3.10.3 TS 7.3.10.3
प्रति॑ तिष्ठन्ति पृ॒ष्ठं ॅवै दि॑वाकी॒र्त्यं॑ पा॒र्श्वे पर॑स्सामानो॒ ऽभितो॑ दिवाकी॒र्त्यं॑ पर॑स्सामानो भवन्ति॒ तस्मा॑द॒भितः॑ पृ॒ष्ठं पा॒र्श्वे भूयि॑ष्ठा॒ ग्रहा॑ गृह्यन्ते॒ भूयि॑ष्ठꣳ शस्यते य॒ज्ञ्स्यै॒व तन्म॑द्ध्य॒तो ग्र॒न्थिं ग्र॑थ्न॒न्त्यवि॑स्रꣳसाय स॒प्त गृ॑ह्यन्ते स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः प्रा॒णाने॒व यज॑मानेषु दधति॒ यत् प॑रा॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्त्य॒मुमे॒व तै-र्लो॒कम॒भ्यारो॑हन्ति॒ यदि॒मं ॅलो॒कं न - [ ]
▶ पदपाठः (Word-by-word)
प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । पृ॒ष्ठम् । वै । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पा॒र्श्वे इति॑ । पर॑स्सामान॒ इति॒ परः॑ - सा॒मा॒नः॒ । अ॒भितः॑ । दि॒वा॒की॒र्त्य॑मिति॑ दिवा - की॒र्त्य᳚म् । पर॑स्सामान॒ इति॒ परः॑-सा॒मा॒नः॒ । भ॒व॒न्ति॒ । तस्मा᳚त् । अ॒भितः॑ । पृ॒ष्ठम् । पा॒र्श्वे इति॑ । भूयि॑ष्ठाः । ग्रहाः᳚ । गृ॒ह्य॒न्ते॒ । भूयि॑ष्ठम् । श॒स्य॒ते॒ । य॒ज्ञ्स्य॑ । ए॒व । तत् । म॒द्ध्य॒तः । ग्र॒न्थिम् । ग्र॒थ्न॒न्ति॒ । अवि॑स्रꣳसा॒येत्यवि॑ - स्रꣳ॒॒सा॒य॒ । स॒प्त । गृ॒ह्य॒न्ते॒ । स॒प्त । वै । शी॒र्.॒ष॒ण्याः᳚ । प्रा॒णा इति॑ प्र - अ॒नाः । प्रा॒णानिति॑ प्र - अ॒नान् । ए॒व । यज॑मानेषु । द॒ध॒ति॒ । यत् । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । अ॒मुम् । ए॒व । तैः । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । यत् । इ॒मम् । लो॒कम् । न ।
पदसंख्या: 50
TS 7.3.10.4 TS 7.3.10.4
प्र॑त्यव॒-रोहे॑यु॒रुद्वा॒ माद्ये॑यु॒र्यज॑मानाः॒ प्र वा॑ मीयेर॒न्॒. यत् प्र॑ती॒चीना॑नि पृ॒ष्ठानि॒ भव॑न्ती॒ममे॒व तैर्लो॒कं प्र॒त्यव॑रोह॒न्त्यथो॑ अ॒स्मिन्ने॒व लो॒के प्रति॑ तिष्ठ॒न्त्यनु॑न्मादा॒येन्द्रो॒ वा अप्र॑तिष्ठित आसी॒थ् स प्र॒जाप॑ति॒-मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै स प्रत्य॑तिष्ठ॒द्ये ब॑हुया॒जिनो ऽप्र॑तिष्ठिताः॒ - [ ]
▶ पदपाठः (Word-by-word)
प्र॒त्य॒व॒रोहे॑यु॒रिति॑ प्रति - अ॒व॒रोहे॑युः । उदिति॑ । वा॒ । माद्ये॑युः । यज॑मानाः । प्रेति॑ । वा॒ । मी॒ये॒र॒न्न् । यत् । प्र॒ती॒चीना॑नि । पृ॒ष्ठानि॑ । भव॑न्ति । इ॒मम् । ए॒व । तैः । लो॒कम् । प्र॒त्यव॑रोह॒न्तीति॑ प्रति - अव॑रोहन्ति । अथो॒ इति॑ । अ॒स्मिन्न् । ए॒व । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अनु॑न्मादा॒येत्यनु॑त् - मा॒दा॒य॒ । इन्द्रः॑ । वै । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । आ॒सी॒त् । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । प्रतीति॑ । अ॒ति॒ष्ठ॒त् । ये । ब॒हु॒या॒जिन॒ इति॑ बहु - या॒जिनः॑ । अप्र॑तिष्ठिता॒ इत्यप्र॑ति - स्थि॒ताः॒ ।
पदसंख्या: 50
TS 7.3.10.5 TS 7.3.10.5
स्युस्त ए॑कविꣳशति-रा॒त्रमा॑सीर॒न् द्वाद॑श॒ मासाः॒ पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒श ए॒ताव॑न्तो॒ वै दे॑वलो॒कास्तेष्वे॒व य॑था पू॒र्वं प्रति॑ तिष्ठन्त्य॒सावा॑दि॒त्यो न व्य॑रोचत॒ स प्र॒जाप॑ति॒मुपा॑धाव॒त् तस्मा॑ ए॒तमे॑कविꣳशतिरा॒त्रं प्राय॑च्छ॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सो॑ ऽरोचत॒ य ए॒वं वि॒द्वाꣳस॑ एकविꣳशतिरा॒त्रमास॑ते॒ ( ) रोच॑न्त ए॒वैक॑विꣳशतिरा॒त्रो भ॑वति॒ रुग्वा ए॑कविꣳ॒॒शो रुच॑मे॒व ग॑च्छ॒न्त्यथो᳚ प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविꣳ॒॒शो॑ ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
स्युः । ते । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आ॒सी॒र॒न्न् । द्वाद॑श । मासाः᳚ । पञ्च॑ । ऋ॒तवः॑ । त्रयः॑ । इ॒मे । लो॒काः । अ॒सौ । आ॒दि॒त्यः । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । ए॒ताव॑न्तः । वै । दे॒व॒लो॒का इति॑ देव - लो॒काः । तेषु॑ । ए॒व । य॒था॒पू॒र्वमिति॑ यथा - पू॒र्वम् । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अ॒सौ । आ॒दि॒त्यः । न । वीति॑ । अ॒रो॒च॒त॒ । सः । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । उपेति॑ । अ॒धा॒व॒त् । तस्मै᳚ । ए॒तम् । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । प्रेति॑ । अ॒य॒च्छ॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अ॒रो॒च॒त॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्रमित्ये॑कविꣳशति - रा॒त्रम् । आस॑ते ( ) । रोच॑न्ते । ए॒व । ए॒क॒विꣳ॒॒श॒ति॒रा॒त्र इत्येक॑विꣳशति - रा॒त्रः । भ॒व॒ति॒ । रुक् । वै । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । रुच᳚म् । ए॒व । ग॒च्छ॒न्ति॒ । अथो॒ इति॑ । प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । ए॒व । प्र॒ति॒ष्ठेति॑ प्रति - स्था । हि । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 71

अनुवाकः 11 (3 पञ्चाशत्)

TS 7.3.11.1 TS 7.3.11.1
अ॒र्वाङ् य॒ज्ञ्ः सं क्रा॑मत्व॒मुष्मा॒दधि॒ माम॒भि । ऋषी॑णां॒ ॅयः पु॒रोहि॑तः ॥ निर्दे॑वं॒ निर्वी॑रं कृ॒त्वा विष्क॑न्धं॒ तस्मि॑न् हीयतां॒ ॅयो᳚ऽस्मान् द्वेष्टि॑ । शरी॑रं ॅयज्ञ्शम॒लं कुसी॑दं॒ तस्मिन्᳚थ्सीदतु॒ यो᳚ऽस्मान् द्वेष्टि॑ ॥यज्ञ्॑ य॒ज्ञ्स्य॒ यत् तेज॒स्तेन॒ संक्रा॑म॒ माम॒भि । ब्रा॒ह्म॒णानृ॒त्विजो॑ दे॒वान् य॒ज्ञ्स्य॒ तप॑सा ते सवा॒हमा हु॑वे ॥इ॒ष्टेन॑ प॒क्वमुप॑ - [ ]
▶ पदपाठः (Word-by-word)
अ॒र्वाङ् । य॒ज्ञ्ः । समिति॑ । क्रा॒म॒तु॒ । अ॒मुष्मा᳚त् । अधीति॑ । माम् । अ॒भि ॥ ऋषी॑णाम् । यः । पु॒रोहि॑त॒ इति॑ पु॒रः - हि॒तः॒ ॥ निर्दे॑व॒मिति॒ निः - दे॒व॒म् । निर्वी॑र॒मिति॒ निः - वी॒र॒म् । कृ॒त्वा । विष्क॑न्ध॒मिति॒ वि - स्क॒न्ध॒म् । तस्मिन्न्॑ । ही॒य॒ता॒म् । यः । अ॒स्मान् । द्वेष्टि॑ ॥ शरी॑रम् । य॒ज्ञ्॒श॒म॒लमिति॑ यज्ञ् - श॒म॒लम् । कुसी॑दम् । तस्मिन्न्॑ । सी॒द॒तु॒ । यः । अ॒स्मान् । द्वेष्टि॑ ॥ यज्ञ्॑ । य॒ज्ञ्स्य॑ । यत् । तेजः॑ । तेन॑ । समिति॑ । क्रा॒म॒ । माम् । अ॒भि ॥ ब्रा॒ह्म॒णान् । ऋ॒त्विजः॑ । दे॒वान् । य॒ज्ञ्स्य॑ । तप॑सा । ते॒ । स॒व॒ । अ॒हम् । एति॑ । हु॒वे॒ ॥ इ॒ष्टेन॑ । प॒क्वम् । उपेति॑ ।
पदसंख्या: 50
TS 7.3.11.2 TS 7.3.11.2
ते हुवे सवा॒हं । सं ते॑ वृञ्जे सुकृ॒तꣳ सं प्र॒जां प॒शून् ॥प्रै॒षान्थ्-सा॑मिधे॒नी-रा॑घा॒रावाज्य॑भागा॒वा-श्रु॑तं प्र॒त्याश्रु॑त॒मा शृ॑णामि ते । प्र॒या॒जा॒नू॒या॒जान्थ्-स्वि॑ष्ट॒कृत॒-मिडा॑मा॒शिष॒ आ वृ॑ञ्जे॒ सुवः॑ ॥ अ॒ग्निनेन्द्रे॑ण॒ सोमे॑न॒ सर॑स्वत्या॒ विष्णु॑ना दे॒वता॑भिः । या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मुप॑ ते हुवे सवा॒हं ॅय॒ज्ञ्मा द॑दे ते॒ वष॑ट्कृतं ॥ स्तु॒तꣳ श॒स्त्रं प्र॑तिग॒रं ग्रह॒मिडा॑मा॒शिष॒ - [ ]
▶ पदपाठः (Word-by-word)
ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् ॥ समिति॑ । ते॒ । वृ॒ञ्जे॒ । सु॒कृ॒तमिति॑ सु - कृ॒तम् । समिति॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् ॥ प्रै॒षानिति॑ प्र - ए॒षान् । सा॒मि॒धे॒नीरिति॑ सां - इ॒धे॒नीः । आ॒घा॒रावित्या᳚ - घा॒रौ । आज्य॑भागा॒वित्याज्य॑ - भा॒गौ॒ । आश्रु॑त॒मित्या - श्रु॒त॒म् । प्र॒त्याश्रु॑त॒मिति॑ प्रति - आश्रु॑तम् । एति॑ । शृ॒णा॒मि॒ । ते॒ ॥ प्र॒या॒जा॒नू॒या॒जानिति॑ प्रयाज - अ॒नू॒या॒जान् । स्वि॒ष्ट॒कृत॒मिति॑ स्विष्ट - कृत᳚म् । इडा᳚म् । आ॒शिष॒ इत्या᳚ - शिषः॑ । एति॑ । वृ॒ञ्जे॒ । सुवः॑ ॥ अ॒ग्निना᳚ । इन्द्रे॑ण । सोमे॑न । सर॑स्वत्या । विष्णु॑ना । दे॒वता॑भिः ॥ या॒ज्या॒नु॒वा॒क्या᳚भ्या॒मिति॑ याज्या - अ॒नु॒वा॒क्या᳚भ्याम् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । य॒ज्ञ्म् । एति॑ । द॒दे॒ । ते॒ । वष॑ट्कृत॒मिति॒ वष॑ट् - कृ॒त॒म् ॥ स्तु॒तम् । श॒स्त्रम् । प्र॒ति॒ग॒रमिति॑ प्रति - ग॒रम् । ग्रह᳚म् । इडा᳚म् । आ॒शिष॒ इत्या᳚ - शिषः॑ ।
पदसंख्या: 50
TS 7.3.11.3 TS 7.3.11.3
आ वृ॑ञ्जे॒ सुवः॑ । प॒त्नी॒सं॒ॅया॒जानुप॑ ते हुवे सवा॒हꣳ स॑मिष्टय॒जुरा द॑दे॒ तव॑ ॥ प॒शून्थ्-सु॒तं पु॑रो॒डाशा॒न्थ्-सव॑ना॒न्योत य॒ज्ञ्ं । दे॒वान्थ्-सेन्द्रा॒नुप॑ ते हुवे सवा॒ह-म॒ग्निमु॑खा॒न्थ्-सोम॑वतो॒ ये च॒ विश्वे᳚ ॥
▶ पदपाठः (Word-by-word)
एति॑ । वृ॒ञ्जे॒ । सुवः॑ ॥ प॒त्नी॒सं॒ॅया॒जानिति॑ पत्नी-सं॒ॅया॒जान् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । स॒मि॒ष्ट॒य॒जुरिति॑ समिष्ट - य॒जुः । एति॑ । द॒दे॒ । तव॑ ॥ प॒शून् । सु॒तम् । पु॒रो॒डाशान्॑ । सव॑नानि । एति॑ । उ॒त । य॒ज्ञ्म् ॥ दे॒वान् । सेन्द्रा॒निति॒ स-इ॒न्द्रा॒न् । उपेति॑ । ते॒ । हु॒वे॒ । स॒व॒ । अ॒हम् । अ॒ग्निमु॑खा॒नित्य॒ग्नि - मु॒खा॒न् । सोम॑वत॒ इति॒ सोम॑-व॒तः॒ । ये । च॒ । विश्वे᳚ ॥
पदसंख्या: 32

अनुवाकः 12 (1 पञ्चाशत्)

TS 7.3.12.1 TS 7.3.12.1
भू॒तं भव्यं॑ भवि॒ष्यद्वष॒ट्थ् स्वाहा॒ नम॒ ऋख् साम॒ यजु॒र्वष॒ट्थ् स्वाहा॒ नमो॑ गाय॒त्री त्रि॒ष्टुब् जग॑ती॒ वष॒ट्थ् स्वाहा॒ नमः॑ पृथि॒व्य॑न्तरि॑क्षं॒ द्यौ र्वष॒ट्थ् स्वाहा॒ नमो॒ ऽग्निर्वा॒युः सूर्यो॒ वष॒ट्थ् स्वाहा॒ नमः॑ प्रा॒णो-व्या॒नो॑-ऽपा॒नो वष॒ट्थ् स्वाहा॒ नमो ऽन्नं॑ कृ॒षि-र्वृष्टि॒-र्वष॒ट्थ् स्वाहा॒ नमः॑ पि॒तापु॒त्रः पौत्रो॒ वष॒ट्थ् स्वाहा॒ नमो॒ भूर्भुवः॒ ( ) सुव॒ र्वष॒ट्थ् स्वाहा॒ नमः॑ ॥
▶ पदपाठः (Word-by-word)
भू॒तम् । भव्य᳚म् । भ॒वि॒ष्यत् । वष॑ट् । स्वाहा᳚ । नमः॑ । ऋक् । साम॑ । यजुः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । गा॒य॒त्री । त्रि॒ष्टुप् । जग॑ती । वष॑ट् । स्वाहा᳚ । नमः॑ । पृ॒थिवी । अ॒न्तरि॑क्षम् । द्यौः । वष॑ट् । स्वाहा᳚ । नमः॑ । अ॒ग्निः । वा॒युः । सूर्यः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । प्रा॒ण इति॑ प्र - अ॒नः । व्या॒न इति॑ वि - अ॒नः । अ॒पा॒न इत्य॑प-अ॒नः । वष॑ट् । स्वाहा᳚ । नमः॑ । अन्न᳚म् । कृ॒षिः । वृष्टिः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । पि॒ता । पु॒त्रः । पौत्रः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ । भूः । भुवः॑ ( ) । सुवः॑ । वष॑ट् । स्वाहा᳚ । नमः॑ ॥
पदसंख्या: 54

अनुवाकः 13 (1 पञ्चाशत्)

TS 7.3.13.1 TS 7.3.13.1
आ मे॑ गृ॒हा भ॑व॒न्त्वा प्र॒जा म॒ आ मा॑ य॒ज्ञो वि॑शतु वी॒र्या॑वान् । आपो॑ दे॒वीर्य॒ज्ञिया॒ माऽऽवि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥ आ मे॒ ग्रहो॑ भव॒त्वा पु॑रो॒रुख् स्तु॑तश॒स्त्रे मा ऽऽ वि॑शताꣳ स॒मीची᳚ । आ॒दि॒त्या रु॒द्रा वस॑वो मे सद॒स्याः᳚ स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥आ मा᳚ऽग्निष्टो॒मो वि॑शतू॒ ( ) क्थ्य॑श्चातिरा॒त्रो माऽऽ वि॑शत्वापिशर्व॒रः ।ति॒रोअ॑ह्निया मा॒ सुहु॑ता॒ आ वि॑शन्तु स॒हस्र॑स्य मा भू॒मा मा प्र हा॑सीत् ॥
▶ पदपाठः (Word-by-word)
एति॑ । मे॒ । गृ॒हाः । भ॒व॒न्तु॒ । एति॑ । प्र॒जेति॑ प्र - जा । मे॒ । एति॑ । मा॒ । य॒ज्ञ्ः । वि॒श॒तु॒ । वी॒र्या॑वा॒निति॑ वी॒र्य॑ - वा॒न् ॥ आपः॑ । दे॒वीः । य॒ज्ञियाः᳚ । मा॒ । एति॑ । वि॒श॒न्तु॒ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥ एति॑ । मे॒ । ग्रहः॑ । भ॒व॒तु॒ । एति॑ । पु॒रो॒रुगिति॑ पुरः - रुक् । स्तु॒त॒श॒स्त्रे इति॑ स्तुत - श॒स्त्रे । मा॒ । एति॑ । वि॒श॒ता॒म् । स॒मीची॒ इति॑ ॥ आ॒दि॒त्याः । रु॒द्राः । वस॑वः । मे॒ । स॒द॒स्याः᳚ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥ एति॑ । मा॒ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि - स्तो॒मः । वि॒श॒तु॒ ( ) । उ॒क्थ्यः॑ । च॒ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । मा॒ । एति॑ । वि॒श॒तु॒ । आ॒पि॒श॒र्व॒र इत्या॑पि - श॒र्व॒रः ॥ ति॒रो‌अ॑ह्निया॒ इति॑ ति॒रः - अ॒ह्नि॒याः॒ । मा॒ । सुहु॑ता॒ इति॒ सु - हु॒ताः॒ । एति॑ । वि॒श॒न्तु॒ । स॒हस्र॑स्य । मा॒ । भू॒मा । मा । प्रेति॑ । हा॒सी॒त् ॥
पदसंख्या: 68

अनुवाकः 14 (1 पञ्चाशत्)

TS 7.3.14.1 TS 7.3.14.1
अ॒ग्निना॒ तपोऽन्व॑भवद्-वा॒चा ब्रह्म॑ म॒णिना॑ रू॒पाणीन्द्रे॑ण दे॒वान् वाते॑न प्रा॒णान्थ् सूर्ये॑ण॒ द्यां च॒न्द्रम॑सा॒ नक्ष॑त्राणि य॒मेन॑ पि॒तॄन् राज्ञा᳚ मनु॒ष्या᳚न् फ॒लेन॑ नादे॒यान॑जग॒रेण॑ स॒र्पान् व्या॒घ्रेणा॑ऽऽ*र॒ण्यान् प॒शूञ्छ्ये॒नेन॑ पत॒त्रिणो॒ वृष्णाऽश्वा॑नृष॒भेण॒ गा ब॒स्तेना॒जा वृ॒ष्णिनाऽवी᳚र्व्री॒हिणाऽन्ना॑नि॒ यवे॒नौष॑धीर्न्य॒ग्रोधे॑न॒ वन॒स्पती॑नुदु॒बंरे॒णोर्जं॑ गायत्रि॒या छन्दाꣳ॑सि त्रि॒वृता॒ स्तोमा᳚न् ब्राह्म॒णेन॒ ( ) वाचं᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ग्निना᳚ । तपः॑ । अन्विति॑ । अ॒भ॒व॒त् । वा॒चा । ब्रह्म॑ । म॒णिना᳚ । रू॒पाणि॑ । इन्द्रे॑ण । दे॒वान् । वाते॑न । प्रा॒णानिति॑ प्र - अ॒नान् । सूर्ये॑ण । द्याम् । च॒न्द्रम॑सा । नक्ष॑त्राणि । य॒मेन॑ । पि॒तॄन् । राज्ञा᳚ । म॒नु॒ष्यान्॑ । फ॒लेन॑ । ना॒दे॒यान् । अ॒ज॒ग॒रेण॑ । स॒र्पान् । व्या॒घ्रेण॑ । आ॒र॒ण्यान् । प॒शून् । श्ये॒नेन॑ । प॒त॒त्रिणः॑ । वृष्णा᳚ । अश्वान्॑ । ऋ॒ष॒भेण॑ । गाः । ब॒स्तेन॑ । अ॒जाः । वृ॒ष्णिना᳚ । अवीः᳚ । व्री॒हिणा᳚ । अन्ना॑नि । यवे॑न । ओष॑धीः । न्य॒ग्रोधे॑न । वन॒स्पतीन्॑ । उ॒दु॒म्बरे॑ण । ऊर्ज᳚म् । गा॒य॒त्रि॒या । छन्दाꣳ॑सि । त्रि॒वृतेति॑ त्रि - वृता᳚ । स्तोमान्॑ । ब्रा॒ह्म॒णेन॑ ( ) । वाच᳚म् ॥
पदसंख्या: 51

अनुवाकः 15 (1 पञ्चाशत्)

TS 7.3.15.1 TS 7.3.15.1
स्वाहा॒ऽऽधिमाधी॑ताय॒ स्वाहा॒ स्वाहाऽऽधी॑तं॒ मन॑से॒ स्वाहा॒ स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा॒ काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहा ऽदि॑त्यै॒ स्वाहा ऽदि॑त्यै म॒ह्यै᳚ स्वाहाऽदि॑त्यै सुमृडी॒कायै॒ स्वाहा॒ सर॑स्वत्यै॒ स्वाहा॒ सर॑स्वत्यै बृह॒त्यै᳚ स्वाहा॒ सर॑स्वत्यै पाव॒कायै॒ स्वाहा॑ पू॒ष्णे स्वाहा॑ पू॒ष्णे प्र॑प॒थ्या॑य॒ स्वाहा॑ पू॒ष्णे न॒रन्धि॑षाय॒ स्वाहा॒ त्वष्ट्रे॒ स्वाहा॒ त्वष्ट्रे॑ तु॒रीपा॑य॒ स्वाहा॒ त्वष्ट्रे॑ पुरु॒रूपा॑य॒ स्वाहा॒ ( ) विष्ण॑वे॒ स्वाहा॒ विष्ण॑वे निखुर्य॒पाय॒ स्वाहा॒ विष्ण॑वे निभूय॒पाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
स्वाहा᳚ । आ॒धिमित्या᳚ - धिम् । आधी॑ता॒येत्या - धी॒ता॒य॒ । स्वाहा᳚ । स्वाहा᳚ । आधी॑त॒मित्या - धी॒त॒म् । मन॑से । स्वाहा᳚ । स्वाहा᳚ । मनः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । स्वाहा᳚ । काय॑ । स्वाहा᳚ । कस्मै᳚ । स्वाहा᳚ । क॒त॒मस्मै᳚ । स्वाहा᳚ । अदि॑त्यै । स्वाहा᳚ । अदि॑त्यै । म॒ह्यै᳚ । स्वाहा᳚ । अदि॑त्यै । सु॒मृ॒डी॒काया॒ इति॑ सु - मृ॒डी॒कायै᳚ । स्वाहा᳚ । सर॑स्वत्यै । स्वाहा᳚ । सर॑स्वत्यै । बृ॒ह॒त्यै᳚ । स्वाहा᳚ । सर॑स्वत्यै । पा॒व॒कायै᳚ । स्वाहा᳚ । पू॒ष्णे । स्वाहा᳚ । पू॒ष्णे । प्र॒प॒थ्या॑येति॑ प्र-प॒थ्या॑य । स्वाहा᳚ । पू॒ष्णे । न॒रन्धि॑षाय । स्वाहा᳚ । त्वष्ट्रे᳚ । स्वाहा᳚ । त्वष्ट्रे᳚ । तु॒रीपा॑य । स्वाहा᳚ । त्वष्ट्रे᳚ । पु॒रु॒रूपा॒येति॑ पुरु - रूपा॑य । स्वाहा᳚ ( ) । विष्ण॑वे । स्वाहा᳚ । विष्ण॑वे । नि॒खु॒र्य॒पायेति॑ निखुर्य - पाय॑ । स्वाहा᳚ । विष्ण॑वे । नि॒भू॒य॒पायेति॑ निभूय - पाय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 60

अनुवाकः 16 (2 पञ्चाशत्)

TS 7.3.16.1 TS 7.3.16.1
द॒द्भ्यः स्वाहा॒ हनू᳚भ्याꣳ॒॒ स्वाहोष्ठा᳚भ्याꣳ॒॒ स्वाहा॒ मुखा॑य॒ स्वाहा॒ नासि॑काभ्याꣳ॒॒ स्वाहा॒ ऽक्षीभ्याꣳ॒॒ स्वाहा॒ कर्णा᳚भ्याꣳ॒॒ स्वाहा॑ पा॒र इ॒क्षवो॑ऽवा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ ऽवा॒र इ॒क्षवः॑ पा॒र्ये᳚भ्यः॒ पक्ष्म॑भ्यः॒ स्वाहा॑ शी॒र्ष्णे स्वाहा᳚ भ्रू॒भ्याꣳ स्वाहा॑ ल॒लाटा॑य॒ स्वाहा॑ मू॒र्द्ध्ने स्वाहा॑ म॒स्तिष्का॑य॒ स्वाहा॒ केशे᳚भ्यः॒ स्वाहा॒ वहा॑य॒ स्वाहा᳚ ग्री॒वाभ्यः॒ स्वाहा᳚ स्क॒न्धेभ्यः॒ स्वाहा॒ कीक॑साभ्यः॒ स्वाहा॑ पृ॒ष्टीभ्यः॒ स्वाहा॑ पाज॒स्या॑य॒ स्वाहा॑ पा॒र्श्वाभ्याꣳ॒॒ स्वाहा- [ ]
▶ पदपाठः (Word-by-word)
द॒द्भ्य इति॑ दत् - भ्यः । स्वाहा᳚ । हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् । स्वाहा᳚ । ओष्ठा᳚भ्याम् । स्वाहा᳚ । मुखा॑य । स्वाहा᳚ । नासि॑काभ्याम् । स्वाहा᳚ । अ॒क्षीभ्या᳚म् । स्वाहा᳚ । कर्णा᳚भ्याम् । स्वाहा᳚ । पा॒रे । इ॒क्षवः॑ । अ॒वा॒र्ये᳚भ्यः । पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ । स्वाहा᳚ । अ॒वा॒रे । इ॒क्षवः॑ । पा॒र्ये᳚भ्यः । पक्ष्म॑भ्य॒ इति॒ पक्ष्म॑ - भ्यः॒ । स्वाहा᳚ । शी॒र्ष्णे । स्वाहा᳚ । भ्रू॒भ्याम् । स्वाहा᳚ । ल॒लाटा॑य । स्वाहा᳚ । मू॒द्‌र्ध्ने । स्वाहा᳚ । म॒स्तिष्का॑य । स्वाहा᳚ । केशे᳚भ्यः । स्वाहा᳚ । वहा॑य । स्वाहा᳚ । ग्री॒वाभ्यः॑ । स्वाहा᳚ । स्क॒न्धेभ्यः॑ । स्वाहा᳚ । कीक॑साभ्यः । स्वाहा᳚ । पृ॒ष्टीभ्य॒ इति॑ पृ॒ष्टि - भ्यः॒ । स्वाहा᳚ । पा॒ज॒स्या॑य । स्वाहा᳚ । पा॒र्श्वाभ्या᳚म् । स्वाहा᳚ ।
पदसंख्या: 50
TS 7.3.16.2 TS 7.3.16.2
ऽꣳसा᳚भ्याꣳ॒॒ स्वाहा॑ दो॒षभ्याꣳ॒॒ स्वाहा॑ बा॒हुभ्याꣳ॒॒ स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॒ श्रोणी᳚भ्याꣳ॒॒ स्वाहो॒रुभ्याꣳ॒॒ स्वाहा᳚ ऽष्ठी॒वद्भ्याꣳ॒॒ स्वाहा॒ जङ्घा᳚भ्याꣳ॒॒ स्वाहा॑ भ॒सदे॒ स्वाहा॑ शिख॒ण्डेभ्यः॒ स्वाहा॑ वाल॒धाना॑य॒ स्वाहा॒ ऽऽण्डाभ्याꣳ॒॒ स्वाहा॒ शेपा॑य॒ स्वाहा॒ रेत॑से॒ स्वाहा᳚ प्र॒जाभ्यः॒ स्वाहा᳚ प्र॒जन॑नाय॒ स्वाहा॑ प॒द्भ्यः स्वाहा॑ श॒फेभ्यः॒ स्वाहा॒ लोम॑भ्यः॒ स्वाहा᳚ त्व॒चे स्वाहा॒ लोहि॑ताय॒ स्वाहा॑ माꣳ॒॒साय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॒ ऽस्थभ्यः॒ स्वाहा॑ म॒ज्जभ्यः॒ स्वाहा ( ) ऽङ्गे᳚भ्यः॒ स्वाहा॒ ऽऽत्मने॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
अꣳसा᳚भ्याम् । स्वाहा᳚ । दो॒षभ्या॒मिति॑ दो॒ष - भ्या॒म् । स्वाहा᳚ । बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । स्वाहा᳚ । जङ्घा᳚भ्याम् । स्वाहा᳚ । श्रोणी᳚भ्या॒मिति॒ श्राणि॑ - भ्या॒म् । स्वाहा᳚ । ऊ॒रुभ्या॒मित्यू॒रु - भ्या॒म् । स्वाहा᳚ । अ॒ष्ठी॒वद्भ्या॒मित्य॑ष्ठी॒वत् - भ्या॒म् । स्वाहा᳚ । जङ्घा᳚भ्याम् । स्वाहा᳚ । भ॒सदे᳚ । स्वाहा᳚ । शि॒ख॒ण्डेभ्यः॑ । स्वाहा᳚ । वा॒ल॒धाना॒येति॑ वाल - धाना॑य । स्वाहा᳚ । अ॒ण्डाभ्या᳚म् । स्वाहा᳚ । शेपा॑य । स्वाहा᳚ । रेत॑से । स्वाहा᳚ । प्र॒जाभ्य॒ इति॑ प्र - जाभ्यः॑ । स्वाहा᳚ । प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । स्वाहा᳚ । प॒द्भ्य इति॑ पत् - भ्यः । स्वाहा᳚ । श॒फेभ्यः॑ । स्वाहा᳚ । लोम॑भ्य॒ इति॒ लोम॑ - भ्यः॒ । स्वाहा᳚ । त्व॒चे । स्वाहा᳚ । लोहि॑ताय । स्वाहा᳚ । माꣳ॒॒साय॑ । स्वाहा᳚ । स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ । स्वाहा᳚ । अ॒स्थभ्य॒ इत्य॒स्थ - भ्यः॒ । स्वाहा᳚ । म॒ज्जभ्य॒ इति॑ म॒ज्ज - भ्यः॒ । स्वाहा᳚ ( ) । अङ्गे᳚भ्यः । स्वाहा᳚ । आ॒त्मने᳚ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 56

अनुवाकः 17 (1 पञ्चाशत्)

TS 7.3.17.1 TS 7.3.17.1
अ॒ञ्ज्ये॒ताय॒ स्वाहा᳚ ऽञ्जिस॒क्थाय॒ स्वाहा॑ शिति॒पदे॒ स्वाहा॒ शिति॑ककुदे॒ स्वाहा॑ शिति॒रन्ध्रा॑य॒ स्वाहा॑ शितिपृ॒ष्ठाय॒ स्वाहा॑ शि॒त्यꣳसा॑य॒ स्वाहा॑ पुष्प॒कर्णा॑य॒ स्वाहा॑ शि॒त्योष्ठा॑य॒ स्वाहा॑ शिति॒भ्रवे॒ स्वाहा॒ शिति॑भसदे॒ स्वाहा᳚ श्वे॒तानू॑काशाय॒ स्वाहा॒ ऽञ्जये॒ स्वाहा॑ ल॒लामा॑य॒ स्वाहा ऽसि॑तज्ञ्वे॒ स्वाहा॑ कृष्णै॒ताय॒ स्वाहा॑ रोहितै॒ताय॒ स्वाहा॑ ऽरुणै॒ताय॒ स्वाहे॒दृशा॑य॒ स्वाहा॑ की॒दृशा॑य॒ स्वाहा॑ ता॒दृशा॑य॒ स्वाहा॑ स॒दृशा॑य॒ स्वाहा॒ विस॑दृशाय॒ स्वाहा॒ सुस॑दृशाय॒ स्वाहा॑ रू॒पाय॒ स्वाहा॒ ( ) सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒ञ्ज्ये॒तायेत्य॑ञ्जि - ए॒ताय॑ । स्वाहा᳚ । अ॒ञ्जि॒स॒क्थायेत्य॑ञ्जि-स॒क्थाय॑ । स्वाहा᳚ । शि॒ति॒पद॒ इति॑ शिति - पदे᳚ । स्वाहा᳚ । शिति॑ककुद॒ इति॒ शिति॑ - क॒कु॒दे॒ । स्वाहा᳚ । शि॒ति॒रन्ध्रा॒येति॑ शिति - रन्ध्रा॑य । स्वाहा᳚ । शि॒ति॒पृ॒ष्ठायेति॑ शिति - पृ॒ष्ठाय॑ । स्वाहा᳚ । शि॒त्यꣳसा॒येति॑ शिति - अꣳसा॑य । स्वाहा᳚ । पु॒ष्प॒कर्णा॒येति॑ पुष्प - कर्णा॑य । स्वाहा᳚ । शि॒त्योष्ठा॒येति॑ शिति - ओष्ठा॑य । स्वाहा᳚ । शि॒ति॒भ्रव॒ इति॑ शिति - भ्रवे᳚ । स्वाहा᳚ । शिति॑भसद॒ इति॒ शिति॑ - भ॒स॒दे॒ । स्वाहा᳚ । श्वे॒तानू॑काशा॒येति॑ श्वे॒त - अ॒नू॒का॒शा॒य॒ । स्वाहा᳚ । अ॒ञ्जये᳚ । स्वाहा᳚ । ल॒लामा॑य । स्वाहा᳚ । असि॑तज्ञ्व॒ इत्यसि॑त - ज्ञ्॒वे॒ । स्वाहा᳚ । कृ॒ष्णै॒तायेति॑ कृष्ण - ए॒ताय॑ । स्वाहा᳚ । रो॒हि॒तै॒तायेति॑ रोहित - ए॒ताय॑ । स्वाहा᳚ । अ॒रु॒णै॒तायेत्य॑रुण - ए॒ताय॑ । स्वाहा᳚ । ई॒दृशा॑य । स्वाहा᳚ । की॒दृशा॑य । स्वाहा᳚ । ता॒दृशा॑य । स्वाहा᳚ । स॒दृशा॑य । स्वाहा᳚ । विस॑दृशा॒येति॒ वि-स॒दृ॒शा॒य॒ । स्वाहा᳚ । सुस॑दृशा॒येति॒ सु - स॒दृ॒शा॒य॒ । स्वाहा᳚ । रू॒पाय॑ । स्वाहा᳚ ( ) । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 52

अनुवाकः 18 (1 पञ्चाशत्)

TS 7.3.18.1 TS 7.3.18.1
कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहा॑ पि॒शङ्गा॑य॒ स्वाहा॑ सा॒रङ्गा॑य॒ स्वाहा॑ ऽरु॒णाय॒ स्वाहा॑ गौ॒राय॒ स्वाहा॑ ब॒भ्रवे॒ स्वाहा॑ नकु॒लाय॒ स्वाहा॒ रोहि॑ताय॒ स्वाहा॒ शोणा॑य॒ स्वाहा᳚ श्या॒वाय॒ स्वाहा᳚ श्या॒माय॒ स्वाहा॑ पाक॒लाय॒ स्वाहा॑ सुरू॒पाय॒ स्वाहा ऽनु॑रूपाय॒ स्वाहा॒ विरू॑पाय॒ स्वाहा॒ सरू॑पाय॒ स्वाहा॒ प्रति॑रूपाय॒ स्वाहा॑ श॒बला॑य॒ स्वाहा॑ कम॒लाय॒ स्वाहा॒ पृश्न॑ये॒ स्वाहा॑ पृश्निस॒क्थाय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
कृ॒ष्णाय॑ । स्वाहा᳚ । श्वे॒ताय॑ । स्वाहा᳚ । पि॒शङ्गा॑य । स्वाहा᳚ । सा॒रङ्गा॑य । स्वाहा᳚ । अ॒रु॒णाय॑ । स्वाहा᳚ । गौ॒राय॑ । स्वाहा᳚ । ब॒भ्रवे᳚ । स्वाहा᳚ । न॒कु॒लाय॑ । स्वाहा᳚ । रोहि॑ताय । स्वाहा᳚ । शोणा॑य । स्वाहा᳚ । श्या॒वाय॑ । स्वाहा᳚ । श्या॒माय॑ । स्वाहा᳚ । पा॒क॒लाय॑ । स्वाहा᳚ । सु॒रू॒पायेति॑ सु - रू॒पाय॑ । स्वाहा᳚ । अनु॑रूपा॒येत्यनु॑ - रू॒पा॒य॒ । स्वाहा᳚ । विरू॑पा॒येति॒ वि-रू॒पा॒य॒ । स्वाहा᳚ । सरू॑पा॒येति॒ स-रू॒पा॒य॒ । स्वाहा᳚ । प्रति॑रूपा॒येति॒ प्रति॑ - रू॒पा॒य॒ । स्वाहा᳚ । श॒बला॑य । स्वाहा᳚ । क॒म॒लाय॑ । स्वाहा᳚ । पृश्न॑ये । स्वाहा᳚ । पृ॒श्नि॒स॒क्थायेति॑ पृश्नि - स॒क्थाय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 46

अनुवाकः 19 (1 पञ्चाशत्)

TS 7.3.19.1 TS 7.3.19.1
ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ काण्डे᳚भ्यः॒ स्वाहा॒ वल्.शे᳚भ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहा ऽगृ॑हीतेभ्यः॒ स्वाहा ऽव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
ओष॑धीभ्य॒ इत्योष॑धि-भ्यः॒ । स्वाहा᳚ । मूले᳚भ्यः । स्वाहा᳚ । तूले᳚भ्यः । स्वाहा᳚ । काण्डे᳚भ्यः । स्वाहा᳚ । वल्.शे᳚भ्यः । स्वाहा᳚ । पुष्पे᳚भ्यः । स्वाहा᳚ । फले᳚भ्यः । स्वाहा᳚ । गृ॒ही॒तेभ्यः॑ । स्वाहा᳚ । अगृ॑हीतेभ्यः । स्वाहा᳚ । अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ । स्वाहा᳚ । शया॑नेभ्यः । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 24

अनुवाकः 20 (1 पञ्चाशत्)

TS 7.3.20.1 TS 7.3.20.1
वन॒स्पति॑भ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहा॒ तूले᳚भ्यः॒ स्वाहा॒ स्कन्धो᳚भ्यः॒ स्वाहा॒ शाखा᳚भ्यः॒ स्वाहा॑ प॒र्णेभ्यः॒ स्वाहा॒ पुष्पे᳚भ्यः॒ स्वाहा॒ फले᳚भ्यः॒ स्वाहा॑ गृही॒तेभ्यः॒ स्वाहा ऽगृ॑हीतेभ्यः॒ स्वाहा ऽव॑पन्नेभ्यः॒ स्वाहा॒ शया॑नेभ्यः॒ स्वाहा॑ शि॒ष्टाय॒ स्वाहा ऽति॑शिष्टाय॒ स्वाहा॒ परि॑शिष्टाय॒ स्वाहा॒ सꣳशि॑ष्टाय॒ स्वाहो-च्छि॑ष्टाय॒ स्वाहा॑ रि॒क्ताय॒ स्वाहा ऽरि॑क्ताय॒ स्वाहा॒ प्ररि॑क्ताय॒ स्वाहा॒ सꣳरि॑क्ताय॒ स्वाहो -द्रि॑क्ताय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
वन॒स्पति॑भ्य॒ इति॒ वन॒स्पति॑ - भ्यः॒ । स्वाहा᳚ । मूले᳚भ्यः । स्वाहा᳚ । तूले᳚भ्यः । स्वाहा᳚ । स्कन्धो᳚भ्य॒ इति॒ स्कन्धः॑ - भ्यः॒ । स्वाहा᳚ । शाखा᳚भ्यः । स्वाहा᳚ । प॒र्णेभ्यः॑ । स्वाहा᳚ । पुष्पे᳚भ्यः । स्वाहा᳚ । फले᳚भ्यः । स्वाहा᳚ । गृ॒ही॒तेभ्यः॑ । स्वाहा᳚ । अगृ॑हीतेभ्यः । स्वाहा᳚ । अव॑पन्नेभ्य॒ इत्यव॑ - प॒न्ने॒भ्यः॒ । स्वाहा᳚ । शया॑नेभ्यः । स्वाहा᳚ । शि॒ष्टाय॑ । स्वाहा᳚ । अति॑शिष्टा॒येत्यति॑ - शि॒ष्टा॒य॒ । स्वाहा᳚ । परि॑शिष्टा॒येति॒ परि॑-शि॒ष्टा॒य॒ । स्वाहा᳚ । सꣳशि॑ष्टा॒येति॒ सं - शि॒ष्टा॒य॒ । स्वाहा᳚ । उच्छि॑ष्टा॒येत्युत् - शि॒ष्टा॒य॒ । स्वाहा᳚ । रि॒क्ताय॑ । स्वाहा᳚ । अरि॑क्ताय । स्वाहा᳚ । प्ररि॑क्ता॒येति॒ प्र - रि॒क्ता॒य॒ । स्वाहा᳚ । सꣳरि॑क्ता॒येति॒ सं - रि॒क्ता॒य॒ । स्वाहा᳚ । उद्रि॑क्ता॒येत्युत् - रि॒क्ता॒य॒ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 46