गावो॒ वा ए॒तथ् स॒त्र-मा॑सताशृ॒ङ्गाः स॒तीः शृङ्गा॑णि नो जायन्ता॒ इति॒ कामे॑न॒ तासां॒ दश॒मासा॒ निष॑ण्णा॒ आस॒न्नथ॒ शृङ्गा᳚ण्यजायन्त॒ ता उद॑तिष्ठ॒न्नरा॒थ्स्मेत्यथ॒ यासां॒ नाजा॑यन्त॒ ताः सं॑ॅवथ्स॒र-मा॒प्त्वोद॑तिष्ठ॒ -न्नरा॒थ्स्मेति॒ यासां॒ चाजा॑यन्त॒ यासां᳚ च॒ न ता उ॒भयी॒रु-द॑तिष्ठ॒-न्नरा॒थ्स्मेति॑ गोस॒त्रं ॅवै - [ ]
पदपाठः (Word-by-word)
गावः॑ । वै । ए॒तत् । स॒त्रम् । आ॒स॒त॒ । अ॒शृ॒ङ्गाः । स॒तीः । शृङ्गा॑णि । नः॒ । जा॒य॒न्तै॒ । इति॑ । कामे॑न । तासा᳚म् । दश॑ । मासाः᳚ । निष॑ण्णा॒ इति॒ नि - स॒न्नाः॒ । आसन्न्॑ । अथ॑ । शृङ्गा॑णि । अ॒जा॒य॒न्त॒ । ताः । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । अथ॑ । यासा᳚म् । न । अजा॑यन्त । ताः । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒प्त्वा । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । यासा᳚म् । च॒ । अजा॑यन्त । यासा᳚म् । च॒ । न । ताः । उ॒भयीः᳚ । उदिति॑ । अ॒ति॒ष्ठ॒न्न् । अरा᳚थ्स्म । इति॑ । गो॒स॒त्रमिति॑ गो - स॒त्रम् । वै ।