काण्डम् 7 - प्रश्नः 4

Kanda 7, Prasna 4

22 अनुवाकाः | 53 पञ्चाशत्

प्रश्नः 4 - Complete Audio Recording

॥

अनुवाकः 1 (3 पञ्चाशत्)

TS 7.4.1.1 TS 7.4.1.1
बृह॒स्पति॑रकामयत॒ श्रन्मे॑ दे॒वा दधी॑र॒न् गच्छे॑यं पुरो॒धामिति॒ स ए॒तं च॑तुर्विꣳशतिरा॒त्र-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै तस्मै॒ श्रद्दे॒वा अद॑ध॒ताग॑च्छत् पुरो॒धां ॅय ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्रमास॑ते॒ श्रदे᳚भ्यो मनु॒ष्या॑ दधते॒ गच्छ॑न्ति पुरो॒धां ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑ - [ ]
▶ पदपाठः (Word-by-word)
बृह॒स्पतिः॑ । अ॒का॒म॒य॒त॒ । श्रत् । मे॒ । दे॒वाः । दधी॑रन्न् । गच्छे॑यम् । पु॒रो॒धामिति॑ पुरः - धाम् । इति॑ । सः । ए॒तम् । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । तस्मै᳚ । श्रत् । दे॒वाः । अद॑धत । अग॑च्छत् । पु॒रो॒धामिति॑ पुरः - धाम् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । श्रत् । ए॒भ्यः॒ । म॒नु॒ष्याः᳚ । द॒ध॒ते॒ । गच्छ॑न्ति । पु॒रो॒धामिति॑ पुरः-धाम् । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ ।
पदसंख्या: 50
TS 7.4.1.2 TS 7.4.1.2
-रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभि पू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑ह॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व - [ ]
▶ पदपाठः (Word-by-word)
इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः-मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व ।
पदसंख्या: 50
TS 7.4.1.3 TS 7.4.1.3
य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्र इति॑ चतुर्विꣳशति - रा॒त्रः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चतु॑र्विꣳशति - अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒सस्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 45

अनुवाकः 2 (5 पञ्चाशत्)

TS 7.4.2.1 TS 7.4.2.1
यथा॒ वै म॑नुष्या॑ ए॒वं दे॒वा अग्र॑ आस॒न् ते॑ऽकामय॒न्ताव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑ गच्छे॒मेति॒ त ए॒तं च॑तुर्विꣳशतिरा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै तेऽव॑र्तिं पा॒प्मानं॑ मृ॒त्युम॑प॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्र-मास॒तेऽव॑र्तिमे॒व पा॒प्मान॑-मप॒हत्य॒ श्रियं॑ गच्छन्ति॒ श्रीर्.हि म॑नु॒ष्य॑स्य॒ - [ ]
▶ पदपाठः (Word-by-word)
यथा᳚ । वै । म॒नु॒ष्याः᳚ । ए॒वम् । दे॒वाः । अग्रे᳚ । आ॒स॒न्न् । ते । अ॒का॒म॒य॒न्त॒ । अव॑र्तिम् । पा॒प्मान᳚म् । मृ॒त्युम् । अ॒प॒हत्येत्य॑प-हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । ग॒च्छे॒म॒ । इति॑ । ते । ए॒तम् । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । अव॑र्तिम् । पा॒प्मान᳚म् । मृ॒त्युम् । अ॒प॒हत्येत्य॑प- हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । अ॒ग॒च्छ॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । अव॑र्तिम् । ए॒व । पा॒प्मान᳚म् । अ॒प॒हत्येत्य॑प- हत्य॑ । श्रिय᳚म् । ग॒च्छ॒न्ति॒ । श्रीः । हि । म॒नु॒ष्य॑स्य ।
पदसंख्या: 50
TS 7.4.2.2 TS 7.4.2.2
दैवी॑ सꣳ॒॒सज्ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॑ संॅवथ्स॒रस्तं मासा॑ अर्द्धमा॒सा ऋ॒तवः॑ प्र॒विश्य॒ दैवीꣳ॑ सꣳ॒॒सद॑मगच्छ॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑-श्चतुर्विꣳशतिरा॒त्रमास॑ते संॅवथ्स॒रमे॒व प्र॒विश्य॒ वस्य॑सीꣳ सꣳ॒॒सदं॑ गच्छन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता᳚त् त्रयस्त्रिꣳ॒॒शैरे॒वोभ॒यतो ऽव॑र्तिं पा॒प्मान॑मप॒हत्य॒ दैवीꣳ॑ सꣳ॒॒सदं॑ मद्ध्य॒तो - [ ]
▶ पदपाठः (Word-by-word)
दैवी᳚ । सꣳ॒॒सदिति॑ सं - सत् । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ -ख्या॒त्यै॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । तम् । मासाः᳚ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । ऋ॒तवः॑ । प्र॒विश्येति॑ प्र - विश्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । अ॒ग॒च्छ॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्रमिति॑ चतुर्विꣳशति - रा॒त्रम् । आस॑ते । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ए॒व । प्र॒विश्येति॑ प्र - विश्य॑ । वस्य॑सीम् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । ग॒च्छ॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । अ॒वस्ता᳚त् । भ॒व॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रय - त्रिꣳ॒॒शाः । प॒रस्ता᳚त् । त्र॒य॒स्त्रिꣳ॒॒शैरिति॑ त्रयः - त्रिꣳ॒॒शैः । ए॒व । उ॒भ॒यतः॑ । अव॑र्तिम् । पा॒प्मान᳚म् । अ॒प॒हत्येत्य॑प - हत्य॑ । दैवी᳚म् । सꣳ॒॒सद॒मिति॑ सं - सद᳚म् । म॒द्ध्य॒तः ।
पदसंख्या: 50
TS 7.4.2.3 TS 7.4.2.3
ग॑च्छन्ति पृ॒ष्ठानि॒ हि दैवी॑ सꣳ॒॒सज्जा॒मि वा ए॒तत् कु॑र्वन्ति॒ यत् त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒न्वञ्चो॒ मद्ध्येऽनि॑रुक्तो भवति॒ तेनाजा᳚म्यू॒र्द्ध्वानि॑ पृ॒ष्ठानि॑ भवन्त्यू॒र्द्ध्वाः छ॑न्दो॒मा उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं ॅलो॒कं ॅय॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑- [ ]
▶ पदपाठः (Word-by-word)
ग॒च्छ॒न्ति॒ । पृ॒ष्ठानि॑ । हि । दैवी᳚ । सꣳ॒॒सदिति॑ सं - सत् । जा॒मि । वै । ए॒तत् । कु॒र्व॒न्ति॒ । यत् । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः-स्त्रिꣳ॒॒शाः । अ॒न्वञ्चः॑ । मद्ध्ये᳚ । अनि॑रुक्त॒ इत्यनिः॑ - उ॒क्तः॒ । भ॒व॒ति॒ । तेन॑ । अजा॑मि । ऊ॒द्‌र्ध्वानि॑ । पृ॒ष्ठानि॑ । भ॒व॒न्ति॒ । ऊ॒द्‌र्ध्वाः । छ॒न्दो॒मा इति॑ छन्दः - माः । उ॒भाभ्या᳚म् । रू॒पाभ्या᳚म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः-मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः- माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ ।
पदसंख्या: 50
TS 7.4.2.4 TS 7.4.2.4
छन्दो॒मा ओज॑स्ये॒व वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शा अ॒वस्ता᳚द्-भवन्ति॒ त्रय॑स्त्रयस्त्रिꣳ॒॒शाः प॒रस्ता॒न्मद्ध्ये॑ पृ॒ष्ठान्युरो॒ वै त्र॑यस्त्रिꣳ॒॒शा आ॒त्मा पृ॒ष्ठान्या॒त्मन॑ ए॒व तद्-यज॑मानाः॒ शर्म॑ नह्य॒न्तेऽना᳚र्त्यै बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व - [ ]
▶ पदपाठः (Word-by-word)
छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व । वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । अ॒वस्ता᳚त् । भ॒व॒न्ति॒ । त्रयः॑ । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । प॒रस्ता᳚त् । मद्ध्ये᳚ । पृ॒ष्ठानि॑ । उरः॑ । वै । त्र॒य॒स्त्रिꣳ॒॒शा इति॑ त्रयः - त्रिꣳ॒॒शाः । आ॒त्मा । पृ॒ष्ठानि॑ । आ॒त्मने᳚ । ए॒व । तत् । यज॑मानाः । शर्म॑ । न॒ह्य॒न्ते॒ । अना᳚र्त्यै । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ती॒ । इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व ।
पदसंख्या: 50
TS 7.4.2.5 TS 7.4.2.5
सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये प॑रा॒चीना॑नि पृ॒ष्ठान्यु॑प॒यन्ति॑ प्र॒त्यङ् ष॑ड॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर॑ ऋ॒द्ध्वोत् ति॑ष्ठन्ति त्रि॒वृतोऽधि॑ त्रि॒वृत॒मुप॑ यन्ति॒ स्तोमा॑नाꣳ॒॒ संप॑त्त्यै प्रभ॒वाय॒ ज्योति॑रग्निष्टो॒मो भ॑वत्य॒यं ॅवाव स क्षयो॒ऽस्मादे॒व तेन॒ क्षया॒न्न य॑न्ति चतुर्विꣳशतिरा॒त्रो भ॑वति॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः ( ) सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॒ चतु॑र्विꣳशत्यक्षरा गाय॒त्री गा॑य॒त्री ब्र॑ह्मवर्च॒सं गा॑यत्रि॒यैव ब्र॑ह्मवर्च॒समव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो ब्रह्मवर्च॒सस्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । प॒रा॒चीना॑नि । पृ॒ष्ठानि॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । त्रि॒वृत॒ इति॑ त्रि - वृतः॑ । अधीति॑ । त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । उपेति॑ । य॒न्ति॒ । स्तोमा॑नाम् । संप॑त्त्या॒ इति॒ सं - प॒त्त्यै॒ । प्र॒भ॒वायेति॑ प्र - भ॒वाय॑ । ज्योतिः॑ । अ॒ग्नि॒ष्टो॒म इत्य॑ग्नि-स्तो॒मः । भ॒व॒ति॒ । अ॒यम् । वाव । सः । क्षयः॑ । अ॒स्मात् । ए॒व । तेन॑ । क्षया᳚त् । न । य॒न्ति॒ । च॒तु॒र्विꣳ॒॒श॒ति॒रा॒त्र इति॑ चतुर्विꣳशति-रा॒त्रः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑-विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः ( ) । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । चतु॑र्विꣳशत्यक्ष॒रेति॒ चत॑र्विꣳशति- अ॒क्ष॒रा॒ । गा॒य॒त्री । गा॒य॒त्री । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । गा॒य॒त्रि॒या । ए॒व । ब्र॒ह्म॒व॒र्च॒समिति॑ ब्रह्म - व॒र्च॒सम् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । ब्र॒ह्म॒व॒र्च॒स्येति॑ ब्रह्म - व॒र्च॒सस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 74

अनुवाकः 3 (6 पञ्चाशत्)

TS 7.4.3.1 TS 7.4.3.1
ऋ॒क्षा वा इ॒यम॑लो॒मका॑ऽऽसी॒थ् साऽका॑मय॒तौष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्र जा॑ये॒येति॒ सैतास्त्रिꣳ॒॒शतꣳ॒॒ रात्री॑रपश्य॒त् ततो॒ वा इ॒यमोष॑धीभि॒-र्वन॒स्पति॑भिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न् प्रैव जा॑यन्ते प्र॒जया॑ प॒शुभि॑रि॒यं ॅवा अ॑क्षुद्ध्य॒थ् सैतां ॅवि॒राज॑मपश्य॒त् तामा॒त्मन् धि॒त्वाऽन्नाद्य॒मवा॑ रु॒न्धौष॑धी॒ - [ ]
▶ पदपाठः (Word-by-word)
ऋ॒क्षा । वा । इ॒यम् । अ॒लो॒मका᳚ । आ॒सी॒त् । सा । अ॒का॒म॒य॒त॒ । ओष॑धीभि॒रित्योष॑धि-भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑-भिः॒ । प्रेति॑ । जा॒ये॒य॒ । इति॑ । सा । ए॒ताः । त्रिꣳ॒॒शत᳚म् । रात्रीः᳚ । अ॒प॒श्य॒त् । ततः॑ । वै । इ॒यम् । ओष॑धीभि॒रित्योष॑धि - भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ -भिः॒ । प्रेति॑ । अ॒जा॒य॒त॒ । ये । प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । प॒शुका॑मा॒ इति॑ प॒शु - का॒माः॒ । स्युः । ते । ए॒ताः । आ॒सी॒र॒न्न् । प्रेति॑ । ए॒व । जा॒य॒न्ते॒ । प्र॒जयेति॑ प्र-जया᳚ । प॒शुभि॒रिति॑ प॒शु-भिः॒ । इ॒यम् । वै । अ॒क्षु॒द्ध्य॒त् । सा । ए॒ताम् । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒प॒श्य॒त् । ताम् । आ॒त्मन्न् । धि॒त्वा । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । अ॒रु॒न्ध॒ । ओष॑धीः ।
पदसंख्या: 50
TS 7.4.3.2 TS 7.4.3.2
-र्वन॒स्पती᳚न् प्र॒जां प॒शून् तेना॑वर्द्धत॒ सा जे॒मानं॑ महि॒मान॑-मगच्छ॒द्य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑ते वि॒राज॑मे॒वाऽऽ*त्मन् धि॒त्वाऽन्नाद्य॒मव॑ रुन्धते॒ वर्द्ध॑न्ते प्र॒जया॑ प॒शुभि॑र्जे॒मानं॑ महि॒मानं॑ गच्छन्ति॒ ज्योति॑रतिरा॒त्रो भ॑वति सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड् वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वा-रो॑हन्त्यृ॒तुभिः॑ संॅवथ्स॒रं ते सं॑ॅवथ्स॒र ए॒व - [ ]
▶ पदपाठः (Word-by-word)
वन॒स्पतीन्॑ । प्र॒जामिति॑ प्र - जाम् । प॒शून् । तेन॑ । अ॒व॒द्‌र्ध॒त॒ । सा । जे॒मान᳚म् । म॒हि॒मान᳚म् । अ॒ग॒च्छ॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । वि॒राज॒मिति॑ वि-राज᳚म् । ए॒व । आ॒त्मन्न् । धि॒त्वा । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । वद्‌र्ध॑न्ते । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । जे॒मान᳚म् । म॒हि॒मान᳚म् । ग॒च्छ॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः । भ॒व॒ति॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । षट् । पृ॒ष्ठानि॑ । पृ॒ष्ठैः । ए॒व । ऋ॒तून् । अ॒न्वारो॑ह॒न्तीत्य॑नु - आरो॑हन्ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व ।
पदसंख्या: 50
TS 7.4.3.3 TS 7.4.3.3
प्रति॑ तिष्ठन्ति त्रयस्त्रिꣳ॒॒शात् त्र॑यस्त्रिꣳ॒॒शमुप॑ यन्ति य॒ज्ञ्स्य॒ संत॑त्या॒ अथो᳚ प्र॒जाप॑ति॒र्वै त्र॑यस्त्रिꣳ॒॒शः प्र॒जाप॑तिमे॒वाऽऽ*र॑भन्ते॒ प्रति॑ष्ठित्यै त्रिण॒वो भ॑वति॒ विजि॑त्या एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते त्रि॒वृद॑ग्नि॒ष्टुद्-भ॑वति पा॒प्मान॑मे॒व तेन॒ निर्द॑ह॒न्तेऽथो॒ तेजो॒ वै त्रि॒वृत् तेज॑ ए॒वाऽऽत्मन् द॑धते पञ्चद॒श इ॑न्द्रस्तो॒मो भ॑वतीन्द्रि॒यमे॒वाव॑ - [ ]
▶ पदपाठः (Word-by-word)
प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । त्र॒य॒स्त्रिꣳ॒॒शादिति॑ त्रयः - त्रिꣳ॒॒शात् । त्र॒य॒स्त्रिꣳ॒॒शमिति॑ त्रयः - त्रिꣳ॒॒शम् । उपेति॑ । य॒न्ति॒ । य॒ज्ञ्स्य॑ । संत॑त्या॒ इति॒ सं - त॒त्यै॒ । अथो॒ इति॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । वै । त्र॒य॒स्त्रिꣳ॒॒श इति॑ त्रयः-त्रिꣳ॒॒शः । प्र॒जाप॑ति॒मिति॑ प्र॒जा-प॒ति॒म् । ए॒व । एति॑ । र॒भ॒न्ते॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । त्रि॒ण॒व इति॑ त्रि - न॒वः । भ॒व॒ति॒ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । त्रि॒वृदिति॑ त्रि - वृत् । अ॒ग्नि॒ष्टुदित्य॑ग्नि - स्तुत् । भ॒व॒ति॒ । पा॒प्मान᳚म् । ए॒व । तेन॑ । निरिति॑ । द॒ह॒न्ते॒ । अथो॒ इति॑ । तेजः॑ । वै । त्रि॒वृदिति॑ त्रि-वृत् । तेजः॑ । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । इ॒न्द्र॒स्तो॒म इती᳚न्द्र - स्तो॒मः । भ॒व॒ति॒ । इ॒न्द्रि॒यम् । ए॒व । अवेति॑ ।
पदसंख्या: 50
TS 7.4.3.4 TS 7.4.3.4
रुन्धते सप्तद॒शो भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तेन॑ जायन्त एकविꣳ॒॒शो भ॑वति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते चतुर्विꣳ॒॒शो भ॑वति॒ अतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रः सं॑ॅवथ्स॒रः सु॑व॒र्गो लो॒कः सं॑ॅवथ्स॒र ए॒व सु॑व॒र्गे लो॒के प्रति॑ तिष्ठ॒न्त्यथो॑ ए॒ष वै वि॑षू॒वान् वि॑षू॒वन्तो॑ भवन्ति॒ य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑ते चतुर्विꣳ॒॒शात् पृ॒ष्ठान्युप॑ यन्ति संॅवथ्स॒र ए॒व प्र॑ति॒ष्ठाय॑ - [ ]
▶ पदपाठः (Word-by-word)
रु॒न्ध॒ते॒ । स॒प्त॒द॒श इति॑ सप्त - द॒शः । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न- अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तेन॑ । जा॒य॒न्ते॒ । ए॒क॒विꣳ॒॒श इत्ये॑क - विꣳ॒॒शः । भ॒व॒ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । च॒तु॒र्विꣳ॒॒श इति॑ चतुः - विꣳ॒॒शः । भ॒व॒ति॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्य॑द्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । सु॒व॒र्ग इति॑ सुवः - गः । लो॒कः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । ए॒षः । वै । वि॒षू॒वानिति॑ विषु - वान् । वि॒षू॒वन्त॒ इति॑ विषु - वन्तः॑ । भ॒व॒न्ति॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । च॒तु॒र्विꣳ॒॒शादिति॑ चतुः - विꣳ॒॒शात् । पृ॒ष्ठानि॑ । उपेति॑ । य॒न्ति॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्र॒ति॒ष्ठायेति॑ प्रति-स्थाय॑ ।
पदसंख्या: 50
TS 7.4.3.5 TS 7.4.3.5
दे॒वता॑ अ॒भ्यारो॑हन्ति त्रयस्त्रिꣳ॒॒शात् त्र॑यस्त्रिꣳ॒॒शमुप॑ यन्ति॒ त्रय॑स्त्रिꣳश॒द्वै दे॒वता॑ दे॒वता᳚स्वे॒व प्रति॑ तिष्ठन्ति त्रिण॒वो भ॑वती॒मे वै लो॒कास्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठन्ति॒ द्वावे॑कविꣳ॒॒शौ भ॑वतः॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन् द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ तस्मा᳚द्-ब॒हवः॑ प्र॒जासु॒ वृषा॑णो॒ यदे॒ते स्तोमा॒ व्यति॑षक्ता॒ भव॑न्ति॒ तस्मा॑दि॒य -मोष॑धीभि॒-र्वन॒स्पति॑भि॒-र्व्यति॑षक्ता॒ - [ ]
▶ पदपाठः (Word-by-word)
दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । त्र॒य॒स्त्रिꣳ॒॒शादिति॑ त्रयः - त्रिꣳ॒॒शात् । त्र॒य॒स्त्रिꣳ॒॒शमिति॑ त्रय - त्रिꣳ॒॒शम् । उपेति॑ । य॒न्ति॒ । त्रय॑स्त्रिꣳश॒दिति॒ त्रयः॑ - त्रिꣳ॒॒श॒त् । वै । दे॒वताः᳚ । दे॒वता॑सु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । त्रि॒ण॒व इति॑ त्रि - न॒वः । भ॒व॒ति॒ । इ॒मे । वै । लो॒काः । त्रि॒ण॒व इति॑ त्रि - न॒वः । ए॒षु । ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । द्वौ । ए॒क॒विꣳ॒॒शावित्ये॑क - विꣳ॒॒शौ । भ॒व॒तः॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् । द॒ध॒ते॒ । ब॒हवः॑ । षो॒ड॒शिनः॑ । भ॒व॒न्ति॒ । तस्मा᳚त् । ब॒हवः॑ । प्र॒जास्विति॑ प्र - जासु॑ । वृषा॑णः । यत् । ए॒ते । स्तोमाः᳚ । व्यति॑षक्ता॒ इति॑ वि - अति॑षक्ताः । भव॑न्ति । तस्मा᳚त् । इ॒यम् । ओष॑धीभि॒रित्योष॑धि - भिः॒ । वन॒स्पति॑भि॒रिति॒ वन॒स्पति॑ - भिः॒ । व्यति॑ष॒क्तेति॑ वि - अति॑षक्ता ।
पदसंख्या: 50
TS 7.4.3.6 TS 7.4.3.6
व्यति॑षज्यन्ते प्र॒जया॑ प॒शुभि॒र्य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॒ते ऽक्लृ॑प्ता॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कं ॅय॑न्त्युच्चाव॒चान् हि स्तोमा॑नुप॒यन्ति॒ यदे॒त ऊ॒र्द्ध्वाः क्लृ॒प्ताः स्तोमा॒ भव॑न्ति क्लृ॒प्ता ए॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्त्यु॒भयो॑रे॒भ्यो लो॒कयोः᳚ कल्पते त्रिꣳ॒॒शदे॒तास्त्रिꣳ॒॒शद॑क्षरा वि॒राडन्नं॑ वि॒राड् वि॒राजै॒वान्नाद्य॒मव॑ रुन्धते ऽतिरा॒त्राव॒भितो॑ भवतो॒ ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
व्यति॑षज्यन्त॒ इति॑ वि - अति॑षज्यन्ते । प्र॒जयेति॑ प्र - जया᳚ । प॒शुभि॒रिति॑ प॒शु - भिः॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । अक्लृ॑प्ताः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । उ॒च्चा॒व॒चान् । हि । स्तोमान्॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । यत् । ए॒ते । ऊ॒द्‌र्ध्वाः । क्लृ॒प्ताः । स्तोमाः᳚ । भव॑न्ति । क्लृ॒प्ताः । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । उ॒भयोः᳚ । ए॒भ्यः॒ । लो॒कयोः᳚ । क॒ल्प॒ते॒ । त्रिꣳ॒॒शत् । ए॒ताः । त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न-अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 49

अनुवाकः 4 (3 पञ्चाशत्)

TS 7.4.4.1 TS 7.4.4.1
प्र॒जाप॑तिः सुव॒र्गं ॅलो॒कमै॒त् तं दे॒वा येन॑येन॒ छन्द॒साऽनु॒ प्रायु॑ञ्जत॒ तेन॒ नाऽऽ*प्नु॑व॒न् त ए॒ता द्वात्रिꣳ॑शतꣳ॒॒ रात्री॑रपश्य॒न् द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुगा-नु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑ति-मा॒प्त्वा ऽभ्या॒रुह्य॑ सुव॒र्गं ॅलो॒कमा॑य॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑ ए॒ता आस॑ते॒ द्वात्रिꣳ॑शदे॒ता द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुगा-नु॑ष्टुभः प्र॒जाप॑तिः॒ स्वेनै॒व छन्द॑सा प्र॒जाप॑तिमा॒प्त्वा श्रियं॑ गच्छन्ति॒ - [ ]
▶ पदपाठः (Word-by-word)
प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । ऐ॒त् । तम् । दे॒वाः । येन॑ये॒नेति॒ येन॑ - ये॒न॒ । छन्द॑सा । अनु॑ । प्रेति॑ । अयु॑ञ्जत । तेन॑ । न । आ॒प्नु॒व॒न्न् । ते । ए॒ताः । द्वात्रिꣳ॑शतम् । रात्रीः᳚ । अ॒प॒श्य॒न्न् । द्वात्रिꣳ॑शदक्ष॒रेति॒ द्वात्रिꣳ॑शत् - अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । आनु॑ष्टुभ॒ इत्यानु॑ - स्तु॒भः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । स्वेन॑ । ए॒व । छन्द॑सा । प्र॒जाप॑ति॒मिति॑ प्र॒जा - प॒ति॒म् । आ॒प्त्वा । अ॒भ्या॒रुह्येत्य॑भि - आ॒रुह्य॑ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । आ॒य॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒ताः । आस॑ते । द्वात्रिꣳ॑शत् । ए॒ताः । द्वात्रिꣳ॑शदक्ष॒रेति॒ द्वात्रिꣳ॑शत् - अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । आनु॑ष्टुभ॒ इत्यानु॑ - स्तु॒भः॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । स्वेन॑ । ए॒व । छन्द॑सा । प्र॒जाप॑ति॒मिति॑ प्र॒जा -प॒ति॒म् । आ॒प्त्वा । श्रिय᳚म् । ग॒च्छ॒न्ति॒ ।
पदसंख्या: 50
TS 7.4.4.2 TS 7.4.4.2
श्रीर्.हि म॑नु॒ष्य॑स्य सुव॒र्गो लो॒को द्वात्रिꣳ॑शदे॒ता द्वात्रिꣳ॑शदक्षरा-ऽनु॒ष्टुग्-वाग॑नु॒ष्टुफ् सर्वा॑मे॒व वाच॑माप्नुवन्ति॒ सर्वे॑ वा॒चो व॑दि॒तारो॑ भवन्ति॒ सर्वे॒ हि श्रियं॒ गच्छ॑न्ति॒ ज्योति॒र्गौरायु॒रिति॑ त्र्य॒हा भ॑वन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॑रि॒माने॒व लो॒कान॒भ्यारो॑हन्त्यभिपू॒र्वं त्र्य॒हा भ॑वन्त्यभिपू॒र्वमे॒व सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति बृहद्-रथन्त॒राभ्यां᳚ ॅयन्ती॒ - [ ]
▶ पदपाठः (Word-by-word)
श्रीः । हि । म॒नु॒ष्य॑स्य । सु॒व॒र्ग इति॑ सुवः-गः । लो॒कः । द्वात्रिꣳ॑शत् । ए॒ताः । द्वात्रिꣳ॑शदक्ष॒रेति॒ द्वात्रिꣳ॑शत् - अ॒क्ष॒रा॒ । अ॒नु॒ष्टुगित्य॑नु - स्तुक् । वाक् । अ॒नु॒ष्टुबित्य॑नु - स्तुप् । सर्वा᳚म् । ए॒व । वाच᳚म् । आ॒प्नु॒व॒न्ति॒ । सर्वे᳚ । वा॒चः । व॒दि॒तारः॑ । भ॒व॒न्ति॒ । सर्वे᳚ । हि । श्रिय᳚म् । गच्छ॑न्ति । ज्योतिः॑ । गौः । आयुः॑ । इति॑ । त्र्य॒हा इति॑ त्रि - अ॒हाः । भ॒व॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । इ॒मान् । ए॒व । लो॒कान् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । त्र्य॒हा इति॑ त्रि-अ॒हाः । भ॒व॒न्ति॒ । अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि-आरो॑हन्ति । बृ॒ह॒द्र॒थ॒न्त॒राभ्या॒मिति॑ बृहत् - र॒थ॒न्त॒राभ्या᳚म् । य॒न्ति॒ ।
पदसंख्या: 50
TS 7.4.4.3 TS 7.4.4.3
-यं ॅवाव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒व य॒न्त्यथो॑ अ॒नयो॑रे॒व प्रति॑ तिष्ठन्त्ये॒ते वै य॒ज्ञ्स्या᳚ञ्ज॒साय॑नी स्रु॒ती ताभ्या॑मे॒व सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ परा᳚ञ्चो॒ वा ए॒ते सु॑व॒र्गं ॅलो॒कम॒भ्यारो॑हन्ति॒ ये परा॑चस्त्र्य॒हानु॑प॒यन्ति॑ प्र॒त्यङ् त्र्य॒हो भ॑वति प्र॒त्यव॑रूढ्या॒ अथो॒ प्रति॑ष्ठित्या उ॒भयो᳚र्लो॒कयोर्॑. ऋ॒द्ध्वोत् ति॑ष्ठन्ति॒ द्वात्रिꣳ॑शदे॒तास्तासां॒ ॅया स्त्रिꣳ॒॒शत् त्रिꣳ॒॒शद॑क्षरा ( ) वि॒राडन्नं॑ ॅवि॒राड् वि॒राजै॒वाऽन्नाद्य॒मव॑ रुन्धते॒ ये द्वे अ॑होरा॒त्रे ए॒व ते उ॒भाभ्याꣳ॑ रू॒पाभ्याꣳ॑ सुव॒र्गं ॅलो॒कं ॅय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
इ॒यम् । वाव । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । अ॒सौ । बृ॒हत् । आ॒भ्याम् । ए॒व । य॒न्ति॒ । अथो॒ इति॑ । अ॒नयोः᳚ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ए॒ते इति॑ । वै । य॒ज्ञ्स्य॑ । अ॒ञ्ज॒साय॑नी॒ इत्य॑ञ्जसा - अय॑नी । स्रु॒ती इति॑ । ताभ्या᳚म् । ए॒व । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । परा᳚ञ्चः । वै । ए॒ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । ये । परा॑चः । त्र्य॒हानिति॑ त्रि - अ॒हान् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । प्र॒त्यङ् । त्र्य॒हा इति॑ त्रि - अ॒हः । भ॒व॒ति॒ । प्र॒त्यव॑रूढ्या॒ इति॑ प्रति - अव॑रूढ्यै । अथो॒ इति॑ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । उ॒भयोः᳚ । लो॒कयोः᳚ । ऋ॒द्ध्वा । उदिति॑ । ति॒ष्ठ॒न्ति॒ । द्वात्रिꣳ॑शत् । ए॒ताः । तासा᳚म् । याः । त्रिꣳ॒॒शत् । त्रिꣳ॒॒शद॑क्ष॒रेति॑ त्रिꣳ॒॒शत् - अ॒क्ष॒रा॒ ( ) । वि॒राडिति॑ वि - राट् । अन्न᳚म् । वि॒राडिति॑ वि - राट् । वि॒राजेति॑ वि - राजा᳚ । ए॒व । अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । अवेति॑ । रु॒न्ध॒ते॒ । ये इति॑ । द्वे इति॑ । अ॒हो॒रा॒त्रे इत्य॑हः - रा॒त्रे । ए॒व । ते इति॑ । उ॒भाभ्या᳚म् । रू॒पाभ्या᳚म् । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 72

अनुवाकः 5 (4 पञ्चाशत्)

TS 7.4.5.1 TS 7.4.5.1
द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ् य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳ- शद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तन्ते ऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आऽह॑र॒ - [ ]
▶ पदपाठः (Word-by-word)
द्वे इति॑ । वाव । दे॒व॒स॒त्रे इति॑ देव - स॒त्रे । द्वा॒द॒शा॒ह इति॑ द्वादश-अ॒हः । च॒ । ए॒व । त्र॒य॒स्त्रिꣳ॒॒श॒द॒ह इति॑ त्रयस्त्रिꣳशत्-अ॒हः । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत्-अ॒हम् । आस॑ते । सा॒क्षादिति॑ स - आ॒क्षात् । ए॒व । दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यथा᳚ । खलु॑ । वै । श्रेयान्॑ । अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । का॒मय॑ते । तथा᳚ । क॒रो॒ति॒ । यदि॑ । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । पापी॑यान् । भ॒व॒ति॒ । यदि॑ । न । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । स॒दृङ्ङिति॑ स - दृङ् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । वीति॑ । पा॒प्मना᳚ । भ्रातृ॑व्येण । एति॑ । व॒र्त॒न्ते॒ । अ॒ह॒र्भाज॒ इत्य॑हः - भाजः॑ । वै । ए॒ताः । दे॒वाः । अग्रे᳚ । एति॑ । अ॒ह॒र॒न्न् ।
पदसंख्या: 50
TS 7.4.5.2 TS 7.4.5.2
-न्नह॒रेको ऽभ॑ज॒ता-ह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गार्द्ध्नुव॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒- [ ]
▶ पदपाठः (Word-by-word)
अहः॑ । एकः॑ । अभ॑जत । अहः॑ । एकः॑ । ताभिः॑ । वै । ते । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । आ॒द्‌र्ध्नु॒व॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । सर्वे᳚ । ए॒व । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । ऋ॒द्ध्नु॒व॒न्ति॒ । सर्वे᳚ । ग्राम॑णीय॒मिति॒ ग्राम॑ - नी॒य॒म् । प्रेति॑ । आ॒प्नु॒व॒न्ति॒ । प॒ञ्चा॒हा इति॑ पञ्च-अ॒हाः । भ॒व॒न्ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । त्रीणि॑ । आ॒श्वि॒नानि॑ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षु ।
पदसंख्या: 50
TS 7.4.5.3 TS 7.4.5.3
-ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठ॒न्त्यथो॒ त्रीणि॒ वै य॒ज्ञ्स्ये᳚न्द्रि॒याणि॒ तान्ये॒वाव॑ रुन्धते विश्व॒जिद्-भ॑वत्य॒न्नाद्य॒स्या व॑रुद्ध्यै॒ सर्व॑पृष्ठो भवति॒ सर्व॑स्या॒भिजि॑त्यै॒ वाग्वै द्वा॑दशा॒हो यत् पु॒रस्ता᳚द् द्वादशा॒ह-मु॑पे॒युरना᳚प्तां॒ ॅवाच॒-मुपे॑यु-रुप॒दासु॑कैषां॒ ॅवाख् स्या॑-दु॒परि॑ष्टाद् द्वादशा॒हमुप॑ यन्त्या॒प्तामे॒व वाच॒मुप॑ यन्ति॒ तस्मा॑-दु॒परि॑ष्टाद्-वा॒चा व॑दामो ऽवान्त॒रं - [ ]
▶ पदपाठः (Word-by-word)
ए॒व । लो॒केषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । त्रीणि॑ । वै । य॒ज्ञ्स्य॑ । इ॒न्द्रि॒याणि॑ । तानि॑ । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । वि॒श्व॒जिदिति॑ विश्व - जित् । भ॒व॒ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न - अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । सर्व॑पृष्ठ॒ इति॒ सर्व॑ - पृ॒ष्ठः॒ । भ॒व॒ति॒ । सर्व॑स्य । अ॒भिजि॑त्या॒ इत्य॒भि - जि॒त्यै॒ । वाक् । वै । द्वा॒द॒शा॒ह इति॑ द्वादश - अ॒हः । यत् । पु॒रस्ता᳚त् । द्वा॒द॒शा॒हमिति द्वादश - अ॒हम् । उ॒पे॒युरित्यु॑प-इ॒युः । अना᳚प्ताम् । वाच᳚म् । उपेति॑ । इ॒युः॒ । उ॒प॒दासु॒केत्यु॑प - दासु॑का । ए॒षा॒म् । वाक् । स्या॒त् । उ॒परि॑ष्टात् । द्वा॒द॒शा॒हमिति॑ द्वादश - अ॒हम् । उपेति॑ । य॒न्ति॒ । आ॒प्ताम् । ए॒व । वाच᳚म् । उपेति॑ । य॒न्ति॒ । तस्मा᳚त् । उ॒परि॑ष्टात् । वा॒चा । व॒दा॒मः॒ । अ॒वा॒न्त॒रमित्य॑व - अ॒न्त॒रम् ।
पदसंख्या: 50
TS 7.4.5.4 TS 7.4.5.4
ॅवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्-द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद् द॑शरा॒त्रो यद् द॑शरा॒त्रो भव॑ति स॒त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्र्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ् स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हा ( ) ति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚ द्व्यनी॒का प्र॒जा जा॑यते ऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
वै । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानाः । सृ॒ज॒न्ते॒ । ए॒ताम् । ह॒ । वै । उ॒द॒ङ्कः । शौ॒ल्बा॒य॒नः । स॒त्रस्य॑ । ऋद्धि᳚म् । उ॒वा॒च॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । स॒त्रस्य॑ । ऋद्ध्यै᳚ । अथो॒ इति॑ । यत् । ए॒व । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒यते᳚ । तस्य॑ । ए॒व । ए॒षा । शान्तिः॑ । द्व्य॒नी॒का इति॑ द्वि - अ॒नी॒काः । वै । ए॒ताः । रात्र॑यः । यज॑मानाः । वि॒श्व॒जिदिति॑ विश्व - जित् । स॒ह । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । पूर्वाः᳚ । षोड॑श । स॒ह ( ) । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । उत्त॑रा॒ इत्युत् - त॒राः॒ । षोड॑श । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । एति॑ । ए॒षा॒म् । द्व्य॒नी॒केति॑ द्वि - अ॒नी॒का । प्र॒जेति॑ प्र - जा । जा॒य॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 67

अनुवाकः 6 (3 पञ्चाशत्)

TS 7.4.6.1 TS 7.4.6.1
आ॒दि॒त्या अ॑कामयन्त सुव॒र्गं ॅलो॒कमि॑या॒मेति॒ ते सु॑व॒र्गं ॅलो॒कं न प्राजा॑न॒न्न सु॑व॒र्गं ॅलो॒कमा॑य॒न् त ए॒तꣳ ष॑ट्त्रिꣳशद्रा॒त्र-म॑पश्य॒न् तमाऽह॑र॒न् तेना॑यजन्त॒ ततो॒ वै ते सु॑व॒र्गं ॅलो॒कं प्राजा॑नन्थ् सुव॒र्गं ॅलो॒कमा॑य॒न्॒. य ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लोकं प्र जा॑नन्ति सुव॒र्गं ॅलो॒कं ॅय॑न्ति॒ ज्योति॑रतिरा॒त्रो - [ ]
▶ पदपाठः (Word-by-word)
आ॒दि॒त्याः । अ॒का॒म॒य॒न्त॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । इ॒या॒म॒ । इति॑ । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । न । प्रेति॑ । अ॒जा॒न॒न्न् । न । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ते । ए॒तम् । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । अ॒प॒श्य॒न्न् । तम् । एति॑ । अ॒ह॒र॒न्न् । तेन॑ । अ॒य॒ज॒न्त॒ । ततः॑ । वै । ते । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । प्रेति॑ । अ॒जा॒न॒न्न् । सु॒व॒र्गमिति॑ सुवः-गम् । लो॒कम् । आ॒य॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । प्रेति॑ । जा॒न॒न्ति॒ । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । ज्योतिः॑ । अ॒ति॒रा॒त्र इत्य॑ति - रा॒त्रः ।
पदसंख्या: 50
TS 7.4.6.2 TS 7.4.6.2
भ॑वति॒ ज्योति॑रे॒व पु॒रस्ता᳚द् दधते सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्यै षड॒हा भ॑वन्ति॒ षड् वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्ति च॒त्वारो॑ भवन्ति॒ चत॑स्रो॒ दिशो॑ दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒न्त्यस॑त्रं॒ ॅवा ए॒तद्-यद॑छन्दो॒मं ॅयच्छ॑न्दो॒मा भव॑न्ति॒ तेन॑ स॒त्रं दे॒वता॑ ए॒व पृ॒ष्ठैरव॑ रुन्धते प॒शूञ्छ॑न्दो॒मैरोजो॒ वै वी॒र्यं॑ पृ॒ष्ठानि॑ प॒शवः॑ छन्दो॒मा ओज॑स्ये॒व - [ ]
▶ पदपाठः (Word-by-word)
भ॒व॒ति॒ । ज्योतिः॑ । ए॒व । पु॒रस्ता᳚त् । द॒ध॒ते॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । ष॒ड॒हा इति॑ षट् - अ॒हाः । भ॒व॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । च॒त्वारः॑ । भ॒व॒न्ति॒ । चत॑स्रः । दिशः॑ । दि॒क्षु । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अस॑त्रम् । वै । ए॒तत् । यत् । अ॒छ॒न्दो॒ममित्य॑छन्दः - मम् । यत् । छ॒न्दो॒मा इति॑ छन्दः - माः । भव॑न्ति । तेन॑ । स॒त्रम् । दे॒वताः᳚ । ए॒व । पृ॒ष्ठैः । अवेति॑ । रु॒न्ध॒ते॒ । प॒शून् । छ॒न्दो॒मैरिति॑ छन्दः - मैः । ओजः॑ । वै । वी॒र्य᳚म् । पृ॒ष्ठानि॑ । प॒शवः॑ । छ॒न्दो॒मा इति॑ छन्दः - माः । ओज॑सि । ए॒व ।
पदसंख्या: 50
TS 7.4.6.3 TS 7.4.6.3
वी॒र्ये॑ प॒शुषु॒ प्रति॑ तिष्ठन्ति षट्-त्रिꣳशद् रा॒त्रो भ॑वति॒ षट्त्रिꣳ॑शदक्षरा बृह॒ती बार्.ह॑ताः प॒शवो॑ बृह॒त्यैव प॒शूनव॑ रुन्धते बृह॒ती छन्द॑साꣳ॒॒ स्वारा᳚ज्यमाश्नुता-श्नु॒वते॒ स्वारा᳚ज्यं॒ ॅय ए॒वं ॅवि॒द्वाꣳसः॑ षट्त्रिꣳशद् रा॒त्रमास॑ते सुव॒र्गमे॒व लो॒कं ॅय॑न्त्यतिरा॒त्राव॒भितो॑ भवतः सुव॒र्गस्य॑ लो॒कस्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
वी॒र्ये᳚ । प॒शुषु॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्र इति॑ षट्त्रिꣳशत्-रा॒त्रः । भ॒व॒ति॒ । षट्त्रिꣳ॑शदक्ष॒रेति॒ षट्त्रिꣳ॑शत्-अ॒क्ष॒रा॒ । बृ॒ह॒ती । बार्.ह॑ताः । प॒शवः॑ । बृ॒ह॒त्या । ए॒व । प॒शून् । अवेति॑ । रु॒न्ध॒ते॒ । बृ॒ह॒ती । छन्द॑साम् । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । आ॒श्नु॒त॒ । अ॒श्नु॒वते᳚ । स्वारा᳚ज्य॒मिति॒ स्व - रा॒ज्य॒म् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ष॒ट्त्रिꣳ॒॒श॒द्रा॒त्रमिति॑ षट्त्रिꣳशत् - रा॒त्रम् । आस॑ते । सु॒व॒र्गमिति॑ सुवः - गम् । ए॒व । लो॒कम् । य॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । लो॒कस्य॑ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 36

अनुवाकः 7 (3 पञ्चाशत्)

TS 7.4.7.1 TS 7.4.7.1
वसि॑ष्ठो ह॒तपु॑त्रोऽकामयत वि॒न्देय॑ प्र॒जाम॒भि सा॑दा॒सान् भ॑वेय॒मिति॒ स ए॒तमे॑कस्मा-न्नपञ्चा॒श-म॑पश्य॒त् तमाऽह॑र॒त् तेना॑यजत॒ ततो॒ वै सोऽवि॑न्दत प्र॒जाम॒भि सौ॑दा॒सान॑भव॒द्य ए॒वं ॅवि॒द्वाꣳस॑ एकस्मा-न्नपञ्चा॒शमास॑ते वि॒न्दन्ते᳚ प्र॒जाम॒भि भ्रातृ॑व्यान् भवन्ति॒ त्रय॑स्त्रि॒वृतो᳚ऽग्निष्टो॒मा भ॑वन्ति॒ वज्र॑स्यै॒व मुखꣳ॒॒ सꣳ श्य॑न्ति॒ दश॑ पञ्चद॒शा भ॑वन्ति पञ्चद॒शो वज्रो॒ - [ ]
▶ पदपाठः (Word-by-word)
वसि॑ष्ठः । ह॒तपु॑त्र॒ इति॑ ह॒त - पु॒त्रः॒ । अ॒का॒म॒य॒त॒ । वि॒न्देय॑ । प्र॒जामिति॑ प्र-जाम् । अ॒भीति॑ । सौ॒दा॒सान् । भ॒वे॒य॒म् । इति॑ । सः । ए॒तम् । ए॒क॒स्मा॒न्‌न॒प॒ञ्चा॒शमित्ये॑कस्मात् - न॒प॒ञ्चा॒शम् । अ॒प॒श्य॒त् । तम् । एति॑ । अ॒ह॒र॒त् । तेन॑ । अ॒य॒ज॒त॒ । ततः॑ । वै । सः । अवि॑न्दत । प्र॒जामिति॑ प्र-जाम् । अ॒भीति॑ । सौ॒दा॒सान् । अ॒भ॒व॒त् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शमित्ये॑कस्मात्-न॒प॒ञ्चा॒शम् । आस॑ते । वि॒न्दन्ते᳚ । प्र॒जामिति॑ प्र - जाम् । अ॒भीति॑ । भ्रातृ॑व्यान् । भ॒व॒न्ति॒ । त्रयः॑ । त्रि॒वृत॒ इति॑ त्रि - वृतः॑ । अ॒ग्नि॒ष्टो॒मा इत्य॑ग्नि - स्तो॒माः । भ॒व॒न्ति॒ । वज्र॑स्य । ए॒व । मुख᳚म् । समिति॑ । श्य॒न्ति॒ । दश॑ । प॒ञ्च॒द॒शा इति॑ पञ्च - द॒शाः । भ॒व॒न्ति॒ । प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । वज्रः॑ ।
पदसंख्या: 50
TS 7.4.7.2 TS 7.4.7.2
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रन्ति षोडशि॒म॑द्-दश॒ममह॑-र्भवति॒ वज्र॑ ए॒व वी॒र्यं॑ दधति॒ द्वाद॑श सप्तद॒शा भ॑वन्त्य॒न्नाद्य॒स्या व॑रुद्ध्या॒ अथो॒ प्रैव तैर्जा॑यन्ते॒ पृष्ठ्यः॑ षड॒हो भ॑वति॒ षड्वा ऋ॒तवः॒ षट् पृ॒ष्ठानि॑ पृ॒ष्ठैरे॒वर्तून॒न्वारो॑हन्त्यृ॒तृभिः॑ संॅवथ्स॒रं ते सं॑ॅवथ्स॒र ए॒व प्रति॑ तिष्ठन्ति॒ द्वाद॑शैकविꣳ॒॒शा भ॑वन्ति॒ प्रति॑ष्ठित्या॒ अथो॒ रुच॑मे॒वाऽऽ*त्मन्- [ ]
▶ पदपाठः (Word-by-word)
वज्र᳚म् । ए॒व । भ्रातृ॑व्येभ्यः । प्रेति॑ । ह॒र॒न्ति॒ । षो॒ड॒शि॒मदिति॑ षोडशि - मत् । द॒श॒मम् । अहः॑ । भ॒व॒ति॒ । वज्रे᳚ । ए॒व । वी॒र्य᳚म् । द॒ध॒ति॒ । द्वाद॑श । स॒प्त॒द॒शा इति॑ सप्त - द॒शाः । भ॒व॒न्ति॒ । अ॒न्नाद्य॒स्येत्य॑न्न- अद्य॑स्य । अव॑रुद्ध्या॒ इत्यव॑-रु॒द्ध्यै॒ । अथो॒ इति॑ । प्रेति॑ । ए॒व । तैः । जा॒य॒न्ते॒ । पृष्ठ्यः॑ । ष॒ड॒ह इति॑ षट् - अ॒हः । भ॒व॒ति॒ । षट् । वै । ऋ॒तवः॑ । षट् । पृ॒ष्ठानि॑ । पृ॒ष्ठैः । ए॒व । ऋ॒तून् । अ॒न्वारो॑ह॒न्तीत्य॑नु-आरो॑हन्ति । ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । ते । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रे । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । द्वाद॑श । ए॒क॒विꣳ॒॒शा इत्ये॑क - विꣳ॒॒शाः । भ॒व॒न्ति॒ । प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । अथो॒ इति॑ । रुच᳚म् । ए॒व । आ॒त्मन्न् ।
पदसंख्या: 50
TS 7.4.7.3 TS 7.4.7.3
द॑धते ब॒हवः॑ षोड॒शिनो॑ भवन्ति॒ विजि॑त्यै॒ षडा᳚श्वि॒नानि॑ भवन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्यूनातिरि॒क्ता वा ए॒ता रात्र॑य ऊ॒नास्तद्-यदेक॑स्यै॒ न प॑ञ्चा॒शद-ति॑रिक्ता॒स्तद्-यद्-भूय॑सी-र॒ष्टाच॑त्वारिꣳशत ऊ॒नाच्च॒ खलु॒ वा अति॑रिक्ताच्च प्र॒जाप॑तिः॒ प्राजा॑यत॒ ये प्र॒जाका॑माः प॒शुका॑माः॒ स्युस्त ए॒ता आ॑सीर॒न् प्रैव जा॑यन्ते प्र॒जया॑ ( ) प॒शुभि॑र्वैरा॒जो वा ए॒ष य॒ज्ञो यदे॑कस्मा-न्नपञ्चा॒शो य ए॒वं ॅवि॒द्वाꣳस॑ एकस्मा-न्नपञ्चा॒शमास॑ते वि॒राज॑मे॒व ग॑च्छन्त्यन्ना॒दा भ॑वन्त्यति-रा॒त्राव॒भितो॑ भवतो॒ऽन्नाद्य॑स्य॒ परि॑गृहीत्यै ॥
▶ पदपाठः (Word-by-word)
द॒ध॒ते॒ । ब॒हवः॑ । षो॒ड॒शिनः॑ । भ॒व॒न्ति॒ । विजि॑त्या॒ इति॒ वि - जि॒त्यै॒ । षट् । आ॒श्वि॒नानि॑ । भ॒व॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । ऊ॒ना॒ति॒रि॒क्ता इत्यू॑न - अ॒ति॒रि॒क्ताः । वै । ए॒ताः । रात्र॑यः । ऊ॒नाः । तत् । यत् । एक॑स्यै । न । प॒ञ्चा॒शत् । अति॑रिक्ता॒ इत्यति॑ - रि॒क्ताः॒ । तत् । यत् । भूय॑सीः । अ॒ष्टाच॑त्वारिꣳशत॒ इत्य॒ष्टा-च॒त्वा॒रिꣳ॒॒श॒तः॒ । ऊ॒नात् । च॒ । खलु॑ । वै । अति॑रिक्ता॒दित्यति॑-रि॒क्ता॒त् । च॒ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्रेति॑ । अ॒जा॒य॒त॒ । ये । प्र॒जाका॑मा॒ इति॑ प्र॒जा - का॒माः॒ । प॒शुका॑मा॒ इति॑ प॒शु - का॒माः॒ । स्युः । ते । ए॒ताः । आ॒सी॒र॒न्न् । प्रेति॑ । ए॒व । जा॒य॒न्ते॒ । प्र॒जयेति॑ प्र - जया᳚ ( ) । प॒शुभि॒रिति॑ प॒शु - भिः॒ । वै॒रा॒जः । वै । ए॒षः । य॒ज्ञ्ः । यत् । ए॒क॒स्मा॒न्न॒प॒ञ्चा॒श इत्ये॑कस्मात् - न॒प॒ञ्चा॒शः । ये । ए॒वम् । वि॒द्वाꣳसः॑ । ए॒क॒स्मा॒न्न॒प॒ञ्चा॒शमित्ये॑कस्मात् - न॒प॒ञ्चा॒शम् । आस॑ते । वि॒राज॒मिति॑ वि - राज᳚म् । ए॒व । ग॒च्छ॒न्ति॒ । अ॒न्ना॒दा इत्य॑न्न-अ॒दाः । भ॒व॒न्ति॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । अ॒न्नाद्य॒स्येत्य॑न्न-अद्य॑स्य । परि॑गृहीत्या॒ इति॒ परि॑-गृ॒ही॒त्यै॒ ॥
पदसंख्या: 72

अनुवाकः 8 (3 पञ्चाशत्)

TS 7.4.8.1 TS 7.4.8.1
सं॒ॅव॒थ्स॒राय॑ दीक्षि॒ष्यमा॑णा एकाष्ट॒कायां᳚ दीक्षेरन्ने॒षा वै सं॑ॅवथ्स॒रस्य॒ पत्नी॒ यदे॑काष्ट॒कैतस्यां॒ ॅवा ए॒ष ए॒ताꣳ रात्रिं॑ ॅवसति सा॒क्षादे॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्त॒ आर्तं॒ ॅवा ए॒ते सं॑ॅवथ्स॒रस्या॒भि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्ते ऽन्त॑नामानावृ॒तू भ॑वतो॒ व्य॑स्तं॒ ॅवा ए॒ते सं॑ॅवथ्स॒रस्या॒ऽभि दी᳚क्षन्ते॒ य ए॑काष्ट॒कायां॒ दीक्ष॒न्तेऽन्त॑नामानावृ॒तू भ॑वतः फल्गुनी पूर्णमा॒से दी᳚क्षेर॒न् मुखं॒ ॅवा ए॒तथ् - [ ]
▶ पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रायेति॑ सं - व॒थ्स॒राय॑ । दी॒क्षि॒ष्यमा॑णाः । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दी॒क्षे॒र॒न्न् । ए॒षा । वै । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । पत्नी᳚ । यत् । ए॒का॒ष्ट॒केत्ये॑क-अ॒ष्ट॒का । ए॒तस्या᳚म् । वै । ए॒षः । ए॒ताम् । रात्रि᳚म् । व॒स॒ति॒ । सा॒क्षादिति॑ स - अ॒क्षात् । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । आर्त᳚म् । वै । ए॒ते । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अ॒भीति॑ । दी॒क्ष॒न्ते॒ । ये । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दीक्ष॑न्ते । अन्त॑नामाना॒वित्यन्त॑- ना॒मा॒नौ॒ । ऋ॒तू इति॑ । भ॒व॒तः॒ । व्य॑स्त॒मिति॒ वि-अ॒स्त॒म् । वै । ए॒ते । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । अ॒भीति॑ । दी॒क्ष॒न्ते॒ । ये । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । दीक्ष॑न्ते । अन्त॑नामाना॒वित्यन्त॑- ना॒मा॒नौ॒ । ऋ॒तू इति॑ । भ॒व॒तः॒ । फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी- पू॒र्ण॒मा॒से । दी॒क्षे॒र॒न्न् । मुख᳚म् । वै । ए॒तत् ।
पदसंख्या: 50
TS 7.4.8.2 TS 7.4.8.2
सं॑ॅवथ्स॒रस्य॒ यत् फ॑ल्गुनी पूर्णमा॒सो मु॑ख॒त ए॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यथ् साम्मे᳚घ्ये विषू॒वान्थ् स॒पंद्य॑ते चित्रापूर्णमा॒से दी᳚क्षेर॒न् मुखं॒ ॅवा ए॒तथ् सं॑ॅवथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता᳚त् पौर्णमा॒स्यै दी᳚क्षेर॒न् तेषा॑मेकाष्ट॒कायां᳚ क्र॒यः सं प॑द्यते॒ तेनै॑काष्ट॒कां न छ॒म्बट् कु॑र्वन्ति॒ तेषां᳚ - [ ]
▶ पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । यत् । फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी-पू॒र्ण॒मा॒सः । मु॒ख॒तः । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । तस्य॑ । एका᳚ । ए॒व । नि॒र्येति॑ निः - या । यथ् । सांमे᳚घ्य॒ इति॒ सां - मे॒घ्ये॒ । वि॒षू॒वानिति॑ विषु - वान् । स॒पंद्य॑त॒ इति॑ सं - पद्य॑ते । चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒से । दी॒क्षे॒र॒न्न् । मुख᳚म् । वै । ए॒तत् । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । यत् । चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒सः । मु॒ख॒तः । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । तस्य॑ । न । का । च॒न । नि॒र्येति॑ निः - या । भ॒व॒ति॒ । च॒तु॒र॒ह इति॑ चतुः-अ॒हे । पु॒रस्ता᳚त् । पौ॒र्ण॒मा॒स्या इति॑ पौर्ण-मा॒स्यै । दी॒क्षे॒र॒न्न् । तेषा᳚म् । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । क्र॒यः । समिति॑ । प॒द्य॒ते॒ । तेन॑ । ए॒का॒ष्ट॒कामित्ये॑क-अ॒ष्ट॒काम् । न । छ॒म्बट् । कु॒र्व॒न्ति॒ । तेषा᳚म् ।
पदसंख्या: 50
TS 7.4.8.3 TS 7.4.8.3
पूर्वप॒क्षे सु॒त्या सं प॑द्यते पूर्वप॒क्षं मासा॑ अ॒भि सं प॑द्यन्ते॒ ते पू᳚र्वप॒क्ष उत् ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत् ति॑ष्ठन्ति॒ तान् क॑ल्या॒णी की॒र्तिरनूत् ति॑ष्ठ॒त्यरा᳚थ् सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राद्ध्नुवन्ति ॥
▶ पदपाठः (Word-by-word)
पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षे । सु॒त्या । समिति॑ । प॒द्य॒ते॒ । पू॒र्व॒प॒क्षमिति॑ पूर्व - प॒क्षम् । मासाः᳚ । अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । ते । पू॒र्व॒प॒क्ष इति॑ पूर्व-प॒क्षे । उदिति॑ । ति॒ष्ठ॒न्ति॒ । तान् । उ॒त्तिष्ठ॑त॒ इत्यु॑त्-तिष्ठ॑तः । ओष॑धयः । वन॒स्पत॑यः । अनु॑ । उदिति॑ । ति॒ष्ठ॒न्ति॒ । तान् । क॒ल्या॒णी । की॒र्तिः । अनु॑ । उदिति॑ । ति॒ष्ठ॒ति॒ । अरा᳚थ्सुः । इ॒मे । यज॑मानाः । इति॑ । तत् । अन्विति॑ । सर्वे᳚ । रा॒द्ध्नु॒व॒न्ति॒ ॥
पदसंख्या: 34

अनुवाकः 9 (1 पञ्चाशत्)

TS 7.4.9.1 TS 7.4.9.1
सु॒व॒र्गं ॅवा ए॒ते लो॒कं ॅय॑न्ति॒ ये स॒त्रमु॑प॒यन्त्य॒भीन्ध॑त ए॒व दी॒क्षाभि॑रा॒त्मानꣳ॑ श्रपयन्त उप॒सद्भि॒-र्द्वाभ्यां॒ ॅलोमाव॑ द्यन्ति॒ द्वाभ्यां॒ त्वचं॒ द्वाभ्या॒मसृ॒द् द्वाभ्यां᳚ माꣳ॒॒सं द्वाभ्या॒मस्थि॒ द्वाभ्यां᳚ म॒ज्जान॑मा॒त्मद॑क्षिणं॒ ॅवै स॒त्रमा॒त्मान॑मे॒व दक्षि॑णां नी॒त्वा सु॑व॒र्गं ॅलो॒कं ॅय॑न्ति॒ शिखा॒मनु॒ प्र व॑पन्त॒ ऋद्ध्या॒ अथो॒ रघी॑याꣳसः सुव॒र्गं ॅलो॒कम॑या॒मेति॑ ( ) ॥
▶ पदपाठः (Word-by-word)
सु॒व॒र्गमिति॑ सुवः - गम् । वै । ए॒ते । लो॒कम् । य॒न्ति॒ । ये । स॒त्रम् । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । अ॒भीति॑ । इ॒न्ध॒ते॒ । ए॒व । दी॒क्षाभिः॑ । आ॒त्मान᳚म् । श्र॒प॒य॒न्ते॒ । उ॒प॒सद्भि॒रित्यु॑प॒सत् - भिः॒ । द्वाभ्या᳚म् । लोम॑ । अवेति॑ । द्य॒न्ति॒ । द्वाभ्या᳚म् । त्वच᳚म् । द्वाभ्या᳚म् । असृ॑त् । द्वाभ्या᳚म् । माꣳ॒॒सम् । द्वाभ्या᳚म् । अस्थि॑ । द्वाभ्या᳚म् । म॒ज्जान᳚म् । आ॒त्मद॑क्षिण॒मित्या॒त्म - द॒क्षि॒ण॒म् । वै । स॒त्रम् । आ॒त्मान᳚म् । ए॒व । दक्षि॑णाम् । नी॒त्वा । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । य॒न्ति॒ । शिखा᳚म् । अनु॑ । प्रेति॑ । व॒प॒न्ते॒ । ऋद्ध्यै᳚ । अथो॒ इति॑ । रघी॑याꣳसः । सु॒व॒र्गमिति॑ सुवः - गम् । लो॒कम् । अ॒या॒म॒ । इति॑ ( ) ॥
पदसंख्या: 50

अनुवाकः 10 (2 पञ्चाशत्)

TS 7.4.10.1 TS 7.4.10.1
ब्र॒ह्म॒वा॒दिनो॑ वदन्त्यतिरा॒त्रः प॑र॒मो य॑ज्ञ्क्रतू॒नां कस्मा॒त् तं प्र॑थ॒ममुप॑ य॒न्तीत्ये॒तद्वा अ॑ग्निष्टो॒मं प्र॑थ॒ममुप॑ य॒न्त्यथो॒क्थ्य॑मथ॑ षोड॒शिन॒-मथा॑तिरा॒त्र-म॑नुपू॒र्वमे॒वैतद्-य॑ज्ञ्क्र॒तूनु॒पेत्य॒ ताना॒लभ्य॑ परि॒गृह्य॒ सोम॑मे॒वैतत् पिब॑न्त आसते॒ ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्ति॒ ज्योति॑ष्टोमो॒ वै स्तोमा॑नां॒ मुखं॑ मुख॒त ए॒व स्तोमा॒न् प्र यु॑ञ्जते॒ ते - [ ]
▶ पदपाठः (Word-by-word)
ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । अ॒ति॒रा॒त्र इत्य॑ति-रा॒त्रः । प॒र॒मः । य॒ज्ञ्॒क्र॒तू॒नामिति॑ यज्ञ्-क्र॒तू॒नाम् । कस्मा᳚त् । तम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । इति॑ । ए॒तत् । वै । अ॒ग्नि॒ष्टो॒ममित्य॑ग्नि - स्तो॒मम् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । अथ॑ । उ॒क्थ्य᳚म् । अथ॑ । षो॒ड॒शिन᳚म् । अथ॑ । अ॒ति॒रा॒त्रमित्य॑ति - रा॒त्रम् । अ॒नु॒पू॒र्वमित्य॑नु - पू॒र्वम् । ए॒व । ए॒तत् । य॒ज्ञ्॒क्र॒तूनिति॑ यज्ञ् - क्र॒तून् । उ॒पेत्येत्यु॑प - इत्य॑ । तान् । आ॒लभ्येत्या᳚ - लभ्य॑ । प॒रि॒गृह्येति॑ परि - गृह्य॑ । सोम᳚म् । ए॒व । ए॒तत् । पिब॑न्तः । आ॒स॒ते॒ । ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । ज्योति॑ष्टोम॒ इति॒ ज्योतिः॑ - स्तो॒मः॒ । वै । स्तोमा॑नाम् । मुख᳚म् । मु॒ख॒तः । ए॒व । स्तोमान्॑ । प्रेति॑ । यु॒ञ्ज॒ते॒ । ते ।
पदसंख्या: 50
TS 7.4.10.2 TS 7.4.10.2
सꣳस्तु॑ता वि॒राज॑म॒भि सं प॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राट्-थ्सु॑व॒र्गमे॒व तेन॑ लो॒कं ॅय॑न्ति रथन्त॒रं दिवा॒ भव॑ति रथन्त॒रं नक्त॒मित्या॑हु-र्ब्रह्मवा॒दिनः॒ केन॒ तदजा॒मीति॑ सौभ॒रं तृ॑तीयसव॒ने ब्र॑ह्मसा॒मं बृ॒हत् तन्म॑द्ध्य॒तो द॑धति॒ विधृ॑त्यै॒ तेनाजा॑मि ॥
▶ पदपाठः (Word-by-word)
सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । वि॒राज॒मिति॑ वि - राज᳚म् । अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । द्वे इति॑ । च॒ । ऋचौ᳚ । अतीति॑ । रि॒च्ये॒ते॒ इति॑ । एक॑या । गौः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । एक॑या । आयुः॑ । ऊ॒नः । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ज्योतिः॑ । ऊर्क् । वि॒राडिति॑ वि - राट् । सु॒व॒र्गमिति॑ सुवः-गम् । ए॒व । तेन॑ । लो॒कम् । य॒न्ति॒ । र॒थ॒न्त॒रमिति॑ रथं - त॒रम् । दिवा᳚ । भव॑ति । र॒थ॒न्त॒रमिति॑ रथं-त॒रम् । नक्त᳚म् । इति॑ । आ॒हुः॒ । ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म-वा॒दिनः॑ । केन॑ । तत् । अजा॑मि । इति॑ । सौ॒भ॒रम् । तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । ब्र॒ह्म॒सा॒ममिति॑ ब्रह्म - सा॒मम् । बृ॒हत् । तन् । म॒द्ध्य॒तः । द॒ध॒ति॒ । विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । तेन॑ । अजा॑मि ॥
पदसंख्या: 49

अनुवाकः 11 (4 पञ्चाशत्)

TS 7.4.11.1 TS 7.4.11.1
ज्योति॑ष्टोमं प्रथ॒ममुप॑ यन्त्य॒स्मिन्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ति॒ गोष्टो॑मं द्वि॒तीय॒मुप॑ यन्त्य॒न्तरि॑क्ष ए॒व तेन॒ प्रति॑ तिष्ठ॒न्त्यायु॑ष्टोमं तृ॒तीय॒मुप॑ यन्त्य॒मुष्मि॑न्ने॒व तेन॑ लो॒के प्रति॑ तिष्ठन्ती॒यं ॅवाव ज्योति॑र॒न्तरि॑क्षं॒ गौर॒सावायु॒-र्यदे॒तान्थ्-स्तोमा॑-नुप॒यन्त्ये॒ष्वे॑व तल्लो॒केषु॑ स॒त्रिणः॑ प्रति॒ तिष्ठ॑न्तो यन्ति॒ ते सꣳस्तु॑ता वि॒राज॑ - [ ]
▶ पदपाठः (Word-by-word)
ज्योति॑ष्टोम॒मिति॒ ज्योतिः॑ - स्तो॒म॒म् । प्र॒थ॒मम् । उपेति॑ । य॒न्ति॒ । अ॒स्मिन्न् । ए॒व । तेन॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । गोष्टो॑म॒मिति॒ गो - स्तो॒म॒म् । द्वि॒तीय᳚म् । उपेति॑ । य॒न्ति॒ । अ॒न्तरि॑क्षे । ए॒व । तेन॑ । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । आयु॑ष्टोम॒मित्यायुः॑ - स्ता॒म॒म् । तृ॒तीय᳚म् । उपेति॑ । य॒न्ति॒ । अ॒मुष्मिन्न्॑ । ए॒व । तेन॑ । लो॒के । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । इ॒यम् । वाव । ज्योतिः॑ । अ॒न्तरि॑क्षम् । गौः । अ॒सौ । आयुः॑ । यत् । ए॒तान् । स्तोमान्॑ । उ॒प॒यन्तीत्यु॑प - यन्ति॑ । ए॒षु । ए॒व । तत् । लो॒केषु॑ । स॒त्रिणः॑ । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः । य॒न्ति॒ । ते । सꣳस्तु॑ता॒ इति॒ सं - स्तु॒ताः॒ । वि॒राज॒मिति॑ वि - राज᳚म् ।
पदसंख्या: 50
TS 7.4.11.2 TS 7.4.11.2
-म॒भि संप॑द्यन्ते॒ द्वे चर्चा॒वति॑ रिच्येते॒ एक॑या॒ गौरति॑रिक्त॒ एक॒याऽऽयु॑रू॒नः सु॑व॒र्गो वै लो॒को ज्योति॒रूर्ग्-वि॒राडूर्ज॑-मे॒वाव॑ रुन्धते॒ ते न क्षु॒धा ऽऽर्ति॒मार्च्छ॒न्त्यक्षो॑धुका भवन्ति॒ क्षुथ् स॑बांधा इव॒ हि स॒त्रिणो᳚ ऽग्निष्टो॒माव॒भितः॑ प्र॒धी तावु॒क्थ्या॑ मद्ध्ये॒ नभ्यं॒ तत् तदे॒तत् प॑रि॒यद्-दे॑वच॒क्रं ॅयदे॒तेन॑ - [ ]
▶ पदपाठः (Word-by-word)
अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । द्वे इति॑ । च॒ । ऋचौ᳚ । अतीति॑ । रि॒च्ये॒ते॒ इति॑ । एक॑या । गौः । अति॑रिक्त॒ इत्यति॑ - रि॒क्तः॒ । एक॑या । आयुः॑ । ऊ॒नः । सु॒व॒र्ग इति॑ सुवः - गः । वै । लो॒कः । ज्योतिः॑ । ऊर्क् । वि॒राडिति॑ वि - राट् । ऊर्ज᳚म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । ते । न । क्षु॒धा । आर्ति᳚म् । एति॑ । ऋ॒च्छ॒न्ति॒ । अक्षो॑धुकाः । भ॒व॒न्ति॒ । क्षुथ्स॑म्बाधा॒ इति॒ क्षुत् - स॒म्बा॒धाः॒ । इ॒व॒ । हि । स॒त्रिणः॑ । अ॒ग्नि॒ष्टो॒मावित्य॑ग्नि - स्तो॒मौ । अ॒भितः॑ । प्र॒धी इति॑ प्र -धी । तौ । उ॒क्थ्याः᳚ । मद्ध्ये᳚ । नभ्य᳚म् । तत् । तत् । ए॒तत् । प॒रि॒यदिति॑ परि - यत् । दे॒व॒च॒क्रमिति॑ देव - च॒क्रम् । यत् । ए॒तेन॑ ।
पदसंख्या: 50
TS 7.4.11.3 TS 7.4.11.3
षड॒हेन॒ यन्ति॑ देवच॒क्रमे॒व स॒मारो॑ह॒न्त्यरि॑ष्ट्यै॒ ते स्व॒स्ति सम॑श्नुवते षड॒हेन॑ यन्ति॒ षड्वा ऋ॒तव॑ ऋ॒तुष्वे॒व प्रति॑ तिष्ठन्त्युभ॒यतो᳚ ज्योतिषा यन्त्युभ॒यत॑ ए॒व सु॑व॒र्गे लो॒के प्र॑ति॒तिष्ठ॑न्तो यन्ति॒ द्वौ ष॑ड॒हौ भ॑वत॒स्तानि॒ द्वाद॒शाहा॑नि॒ सं प॑द्यन्ते द्वाद॒शो वै पुरु॑षो॒ द्वे स॒क्थ्यौ᳚ द्वौ बा॒हू आ॒त्मा च॒ शिर॑श्च च॒त्वार्यङ्गा॑नि॒ स्तनौ᳚ द्वाद॒शौ - [ ]
▶ पदपाठः (Word-by-word)
ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ । यन्ति॑ । दे॒व॒च॒क्रमिति॑ देव-च॒क्रम् । ए॒व । स॒मारो॑ह॒न्तीति॑ सं - आरो॑हन्ति । अरि॑ष्ट्यै । ते । स्व॒स्ति । समिति॑ । अ॒श्नु॒व॒ते॒ । ष॒ड॒हेनेति॑ षट् - अ॒हेन॑ । य॒न्ति॒ । षट् । वै । ऋ॒तवः॑ । ऋ॒तुषु॑ । ए॒व । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । उ॒भ॒यता᳚ज्योति॒षेत्यु॑भ॒यतः॑-ज्यो॒ति॒षा॒ । य॒न्ति॒ । उ॒भ॒यतः॑ । ए॒व । सु॒व॒र्ग इति॑ सुवः - गे । लो॒के । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति-तिष्ठ॑न्तः । य॒न्ति॒ । द्वौ । ष॒ड॒हाविति॑ षट्-अ॒हौ । भ॒व॒तः॒ । तानि॑ । द्वाद॑श । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । द्वा॒द॒शः । वै । पुरु॑षः । द्वे इति॑ । स॒क्थ्यौ᳚ । द्वौ । बा॒हू इति॑ । आ॒त्मा । च॒ । शिरः॑ । च॒ । च॒त्वारि॑ । अङ्गा॑नि । स्तनौ᳚ । द्वा॒द॒शौ ।
पदसंख्या: 50
TS 7.4.11.4 TS 7.4.11.4
तत् पुरु॑ष॒मनु॑ प॒र्याव॑र्तन्ते॒ त्रयः॑ षड॒हा भ॑वन्ति॒ तान्य॒ष्टाद॒शाहा॑नि॒ सं प॑द्यन्ते॒ नवा॒न्यानि॒ नवा॒न्यानि॒ नव॒ वै पुरु॑षे प्रा॒णास्तत् प्रा॒णाननु॑ प॒र्याव॑र्तन्ते च॒त्वारः॑ षड॒हा भ॑वन्ति॒ तानि॒ चतु॑र्विꣳशति॒रहा॑नि॒ सं प॑द्यन्ते॒ चतु॑र्विꣳशतिरर्द्धमा॒साः सं॑ॅवथ्स॒रस्तथ् सं॑ॅवथ्स॒रमनु॑ प॒र्याव॑र्त॒न्ते ऽप्र॑तिष्ठितः संॅवथ्स॒र इति॒ खलु॒ वा आ॑हु॒र्वर्.षी॑यान् प्रति॒ष्ठाया॒ इत्ये॒ताव॒द्वै ( ) सं॑ॅवथ्स॒रस्य॒ ब्राह्म॑णं॒ ॅयाव॑न्मा॒सो मा॒सिमा᳚स्ये॒व प्र॑ति॒तिष्ठ॑न्तो यन्ति ॥
▶ पदपाठः (Word-by-word)
तत् । पुरु॑षम् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । त्रयः॑ । ष॒ड॒हा इति॑ षट् - अ॒हाः । भ॒व॒न्ति॒ । तानि॑ । अ॒ष्टाद॒शेत्य॒ष्टा - द॒श॒ । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । नव॑ । अ॒न्यानि॑ । नव॑ । अ॒न्यानि॑ । नव॑ । वै । पुरु॑षे । प्रा॒णा इति॑ प्र - अ॒नाः । तत् । प्रा॒णानिति॑ प्र-अ॒नान् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । च॒त्वारः॑ । ष॒ड॒हा इति॑ षट्- अ॒हाः । भ॒व॒न्ति॒ । तानि॑ । चतु॑र्विꣳशति॒रिति॒ चतुः॑-विꣳ॒॒श॒तिः॒ । अहा॑नि । समिति॑ । प॒द्य॒न्ते॒ । चतु॑र्विꣳशति॒रिति॒ चतुः॑ - विꣳ॒॒श॒तिः॒ । अ॒द्‌र्ध॒मा॒सा इत्यद्‌र्ध - मा॒साः । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । तत् । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । अन्विति॑ । प॒र्याव॑र्तन्त॒ इति॑ परि - आव॑र्तन्ते । अप्र॑तिष्ठित॒ इत्यप्र॑ति - स्थि॒तः॒ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । इति॑ । खलु॑ । वै । आ॒हुः॒ । वर्.षी॑यान् । प्र॒ति॒ष्ठाया॒ इति॑ प्रति - स्थायाः᳚ । इति॑ । ए॒ताव॑त् । वै ( ) । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ब्राह्म॑णम् । याव॑त् । मा॒सः । मा॒सिमा॒सीति॑ मा॒सि - मा॒सि॒ । ए॒व । प्र॒ति॒तिष्ठ॑न्त॒ इति॑ प्रति - तिष्ठ॑न्तः । य॒न्ति॒ ॥
पदसंख्या: 58

अनुवाकः 12 (1 पञ्चाशत्)

TS 7.4.12.1 TS 7.4.12.1
मे॒षस्त्वा॑ पच॒तैर॑वतु॒ लोहि॑तग्रीवः॒ छागैः᳚ शल्म॒लिर्वृद्ध्या॑ प॒र्णो ब्रह्म॑णा प्ल॒क्षो मेधे॑न न्य॒ग्रोध॑श्चम॒सैरु॑दु॒बंर॑ ऊ॒र्जा गा॑य॒त्री छन्दो॑भिस्त्रि॒वृथ् स्तोमै॒रव॑न्तीः॒ स्थाव॑न्तीस्त्वाऽवन्तु प्रि॒यं त्वा᳚ प्रि॒याणां॒ ॅवर्.षि॑ष्ठ॒माप्या॑नां निधी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसो मम ॥
▶ पदपाठः (Word-by-word)
मे॒षः । त्वा॒ । प॒च॒तैः । अ॒व॒तु॒ । लोहि॑तग्रीव॒ इति॒ लोहि॑त - ग्री॒वः॒ । छागैः᳚ । श॒ल्म॒लिः । वृद्ध्या᳚ । प॒र्णः । ब्रह्म॑णा । प्ल॒क्षः । मेधे॑न । न्य॒ग्रोधः॑ । च॒म॒सैः । उ॒दु॒म्बरः॑ । ऊ॒र्जा । गा॒य॒त्री । छन्दो॑भि॒रिति॒ छन्दः॑ - भिः॒ । त्रि॒वृदिति॑ त्रि - वृत् । स्तोमैः᳚ । अव॑न्तीः । स्थ॒ । अव॑न्तीः । त्वा॒ । अ॒व॒न्तु॒ । प्रि॒यम् । त्वा॒ । प्रि॒याणा᳚म् । वर्.षि॑ष्ठम् । आप्या॑नाम् । नि॒धी॒नामिति॑ नि - धी॒नाम् । त्वा॒ । नि॒धि॒पति॒मिति॑ निधि - पति᳚म् । ह॒वा॒म॒हे॒ । व॒सो॒ इति॑ । म॒म॒ ॥
पदसंख्या: 36

अनुवाकः 13 (1 पञ्चाशत्)

TS 7.4.13.1 TS 7.4.13.1
कूप्या᳚भ्यः॒ स्वाहा॒ कूल्या᳚भ्यः॒ स्वाहा॑ विक॒र्या᳚भ्यः॒ स्वाहा॑ ऽव॒ट्या᳚भ्यः॒ स्वाहा॒ खन्या᳚भ्यः॒ स्वाहा॒ ह्रद्या᳚भ्यः॒ स्वाहा॒ सूद्या᳚भ्यः॒ स्वाहा॑ सर॒स्या᳚भ्यः॒ स्वाहा॑ वैश॒न्तीभ्यः॒ स्वाहा॑ पल्व॒ल्या᳚भ्यः॒ स्वाहा॒ वर्ष्या᳚भ्यः॒ स्वाहा॑ ऽव॒र्ष्याभ्यः॒ स्वाहा᳚ ह्रा॒दुनी᳚भ्यः॒ स्वाहा॒ पृष्वा᳚भ्यः॒ स्वाहा॒ स्यन्द॑मानाभ्यः॒ स्वाहा᳚ स्थाव॒राभ्यः॒ स्वाहा॑ नादे॒यीभ्यः॒ स्वाहा॑ सैन्ध॒वीभ्यः॒ स्वाहा॑ समु॒द्रिया᳚भ्यः॒ स्वाहा॒ सर्वा᳚भ्यः॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
कूप्या᳚भ्यः । स्वाहा᳚ । कूल्या᳚भ्यः । स्वाहा᳚ । वि॒क॒र्या᳚भ्य॒ इति॑ वि - क॒र्या᳚भ्यः । स्वाहा᳚ । अ॒व॒ट्या᳚भ्यः । स्वाहा᳚ । खन्या᳚भ्यः । स्वाहा᳚ । ह्रद्या᳚भ्यः । स्वाहा᳚ । सूद्या᳚भ्यः । स्वाहा᳚ । स॒र॒स्या᳚भ्यः । स्वाहा᳚ । वै॒श॒न्तीभ्यः॑ । स्वाहा᳚ । प॒ल्व॒ल्या᳚भ्यः । स्वाहा᳚ । वर्ष्या᳚भ्यः । स्वाहा᳚ । अ॒व॒र्ष्याभ्यः॑ । स्वाहा᳚ । ह्रा॒दुनी᳚भ्य॒ इति॑ ह्रा॒दुनि॑ - भ्यः॒ । स्वाहा᳚ । पृष्वा᳚भ्यः । स्वाहा᳚ । स्यन्द॑मानाभ्यः । स्वाहा᳚ । स्था॒व॒राभ्यः॑ । स्वाहा᳚ । ना॒दे॒यीभ्यः॑ । स्वाहा᳚ । सै॒न्ध॒वीभ्यः॑ । स्वाहा᳚ । स॒मु॒द्रिया᳚भ्यः । स्वाहा᳚ । सर्वा᳚भ्यः । स्वाहा᳚ ॥
पदसंख्या: 40

अनुवाकः 14 (1 पञ्चाशत्)

TS 7.4.14.1 TS 7.4.14.1
अ॒द्भ्यः स्वाहा॒ वह॑न्तीभ्यः॒ स्वाहा॑ परि॒वह॑न्तीभ्यः॒ स्वाहा॑ सम॒न्तं ॅवह॑न्तीभ्यः॒ स्वाहा॒ शीघ्रं॒ ॅवह॑न्तीभ्यः॒ स्वाहा॒ शीभं॒ ॅवह॑न्तीभ्यः॒ स्वाहो॒ग्रं ॅवह॑न्तीभ्यः॒ स्वाहा॑ भी॒मं ॅवह॑न्तीभ्यः॒ स्वाहाऽम्भो᳚भ्यः॒ स्वाहा॒ नभो᳚भ्यः॒ स्वाहा॒ महो᳚भ्यः॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
अ॒द्भ्य इत्य॑त् - भ्यः । स्वाहा᳚ । वह॑न्तीभ्यः । स्वाहा᳚ । प॒रि॒वह॑न्तीभ्य॒ इति॑ परि - वह॑न्तीभ्यः । स्वाहा᳚ । स॒म॒न्तमिति॑ सं-अ॒न्तम् । वह॑न्तीभ्यः । स्वाहा᳚ । शीघ्र᳚म् । वह॑न्तीभ्यः । स्वाहा᳚ । शीभ᳚म् । वह॑न्तीभ्यः । स्वाहा᳚ । उ॒ग्रम् । वह॑न्तीभ्यः । स्वाहा᳚ । भी॒मम् । वह॑न्तीभ्यः । स्वाहा᳚ । अम्भो᳚भ्य॒ इत्यम्भः॑-भ्यः॒ । स्वाहा᳚ । नभो᳚भ्य॒ इति॒ नभः॑ - भ्यः॒ । स्वाहा᳚ । महो᳚भ्य॒ इति॒ महः॑ - भ्यः॒ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 29

अनुवाकः 15 (1 पञ्चाशत्)

TS 7.4.15.1 TS 7.4.15.1
यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑णः ॥ प॒रो मर्तः॑ प॒रः श्वा ॥अ॒हं च॒ त्वं च॑ वृत्रह॒न्थ्सं ब॑भूव स॒निभ्य॒ आ । अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मꣳसतै भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ॥अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते॑ विव्यङ्महि॒मानꣳ॒॒ रजाꣳ॑सि । स्वेना॒ हि वृ॒त्रꣳ शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं॑ ॅविविदद् ( ) यु॒धा ते᳚ ॥
▶ पदपाठः (Word-by-word)
यः । अर्व॑न्तम् । जिघाꣳ॑सति । तम् । अ॒भीति॑ । अ॒मी॒ति॒ । वरु॑णः ॥ प॒रः । मर्तः॑ । प॒रः । श्वा ॥ अ॒हम् । च॒ । त्वम् । च॒ । वृ॒त्र॒ह॒न्निति॑ वृत्र - ह॒न्न् । समिति॑ । ब॒भू॒व॒ । स॒निभ्य॒ इति॑ स॒नि - भ्यः॒ । आ ॥ अ॒रा॒ती॒वा । चि॒त् । अ॒द्रि॒व॒ इत्य॑द्रि - वः॒ । अन्विति॑ । नौ॒ । शू॒र॒ । मꣳ॒॒स॒तै॒ । भ॒द्राः । इन्द्र॑स्य । रा॒तयः॑ ॥ अ॒भीति॑ । क्रत्वा᳚ । इ॒न्द्र॒ । भूः॒ । अध॑ । ज्मन्न् । न । ते॒ । वि॒व्य॒क् । म॒हि॒मान᳚म् । रजाꣳ॑सि ॥ स्वेन॑ । हि । वृ॒त्रम् । शव॑सा । ज॒घन्थ॑ । न । शत्रुः॑ । अन्त᳚म् । वि॒वि॒द॒त् ( ) । यु॒धा । ते॒ ॥
पदसंख्या: 52

अनुवाकः 16 (1 पञ्चाशत्)

TS 7.4.16.1 TS 7.4.16.1
नमो॒ राज्ञे॒ नमो॒ वरु॑णाय॒ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तये॒ नमोऽधि॑पत॒ये ऽधि॑पतिर॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयासं॒ मां धे॑हि॒ मयि॑ धेह्यु॒पाकृ॑ताय॒ स्वाहा ऽऽल॑ब्धाय॒ स्वाहा॑ हु॒ताय॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
नमः॑ । राज्ञे᳚ । नमः॑ । वरु॑णाय । नमः॑ । अश्वा॑य । नमः॑ । प्र॒जाप॑तय॒ इति॑ प्र॒जा - प॒त॒ये॒ । नमः॑ । अधि॑पतय॒ इत्यधि॑ - प॒त॒ये॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒सि॒ । अधि॑पति॒मित्यधि॑ - प॒ति॒म् । मा॒ । कु॒रु॒ । अधि॑पति॒रित्यधि॑ - प॒तिः॒ । अ॒हम् । प्र॒जाना॒मिति॑ प्र - जाना᳚म् । भू॒या॒स॒म् । माम् । धे॒हि॒ । मयि॑ । धे॒हि॒ । उ॒पाकृ॑ता॒येत्यु॑प - आकृ॑ताय । स्वाहा᳚ । आल॑ब्धा॒येत्या - ल॒ब्धा॒य॒ । स्वाहा᳚ । हु॒ताय॑ । स्वाहा᳚ ॥
पदसंख्या: 29

अनुवाकः 17 (2 पञ्चाशत्)

TS 7.4.17.1 TS 7.4.17.1
म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्तां । पीव॑स्वतीर्जी॒वध॑न्याः पिबन्त्वव॒साय॑ प॒द्वते॑ रुद्र मृड ॥याः सरू॑पा॒ विरू॑पा॒ एक॑रूपा॒ यासा॑म॒ग्निरिष्ट्या॒ नामा॑नि॒ वेद॑ । या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ॥या दे॒वेषु॑ त॒नुव॒मैर॑यन्त॒ यासाꣳ॒॒ सोमो॒ विश्वा॑ रू॒पाणि॒ वेद॑ । ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र - [ ]
▶ पदपाठः (Word-by-word)
म॒यो॒भूरिति॑ मयः - भूः । वातः॑ । अ॒भीति॑ । वा॒तु॒ । उ॒स्राः । ऊर्ज॑स्वतीः । ओष॑धीः । एति॑ । रि॒श॒न्ता॒म् ॥ पीव॑स्वतीः । जी॒वध॑न्या॒ इति॑ जी॒व - ध॒न्याः॒ । पि॒ब॒न्तु॒ । अ॒व॒साय॑ । प॒द्वत॒ इति॑ पत् - वते᳚ । रु॒द्र॒ । मृ॒ड॒ ॥ याः । सरू॑पा॒ इति॒ स - रू॒पाः॒ । विरू॑पा॒ इति॒ वि - रू॒पाः॒ । एक॑रूपा॒ इत्येक॑-रू॒पाः॒ । यासा᳚म् । अ॒ग्निः । इष्ट्या᳚ । नामा॑नि । वेद॑ ॥ याः । अङ्गि॑रसः । तप॑सा । इ॒ह । च॒क्रुः । ताभ्यः॑ । प॒र्ज॒न्य॒ । महि॑ । शर्म॑ । य॒च्छ॒ ॥ याः । दे॒वेषु॑ । त॒नुव᳚म् । ऐर॑यन्त । यासा᳚म् । सोमः॑ । विश्वा᳚ । रू॒पाणि॑ । वेद॑ ॥ ताः । अ॒स्मभ्य॒मित्य॒स्म - भ्य॒म् । पय॑सा । पिन्व॑मानाः । प्र॒जाव॑ती॒रिति॑ प्र॒जा - व॒तीः॒ । इ॒न्द्र॒ ।
पदसंख्या: 50
TS 7.4.17.2 TS 7.4.17.2
गो॒ष्ठे रि॑रीहि ॥ प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा॑णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संॅविदा॒नः । शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाऽक॒स्तासां᳚ ॅव॒यं प्र॒जया॒ सꣳ स॑देम ॥इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहा॑ म॒हीमू॒ षु1 सु॒त्रामा॑णं2 ॥
▶ पदपाठः (Word-by-word)
गो॒ष्ठ इति॑ गो - स्थे । रि॒री॒हि॒ ॥ प्र॒जाप॑ति॒रिति॑ प्र॒जा-प॒तिः॒ । मह्य᳚म् । ए॒ताः । ररा॑णः । विश्वैः᳚ । दे॒वैः । पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । सं॒ॅवि॒दा॒न इति॑ सं - वि॒दा॒नः ॥ शि॒वाः । स॒तीः । उपेति॑ । नः॒ । गो॒ष्ठमिति॑ गो - स्थम् । एति॑ । अ॒कः॒ । तासा᳚म् । व॒यम् । प्र॒जयेति॑ प्र-जया᳚ । समिति॑ । स॒दे॒म॒ ॥ इ॒ह । धृतिः॑ । स्वाहा᳚ । इ॒ह । विधृ॑ति॒रिति॒ वि - धृ॒तिः॒ । स्वाहा᳚ । इ॒ह । रन्तिः॑ । स्वाहा᳚ । इ॒ह । रम॑तिः । स्वाहा᳚ । म॒हीम् । उ॒ । स्विति॑ । सु॒त्रामा॑ण॒मिति॑ सु - त्रामा॑णम् ॥
पदसंख्या: 38

अनुवाकः 18 (2 पञ्चाशत्)

TS 7.4.18.1 TS 7.4.18.1
किꣳ स्वि॑दासीत् पू॒र्वचि॑त्तिः॒ किꣳ स्वि॑दासीद्-बृ॒हद्वयः॑ । किꣳ स्वि॑दासीत् पिशंगि॒ला किꣳ स्वि॑दासीत् पिलिप्पि॒ला ॥द्यौरा॑सीत् पू॒र्वचि॑त्ति॒रश्व॑ आसीद् बृ॒हद्वयः॑ । रात्रि॑रासीत् पिशङ्गि॒ला ऽवि॑रासीत् पिलिप्पि॒ला ॥ कः स्वि॑देका॒की च॑रति॒ क उ॑ स्विज्जायते॒ पुनः॑ । किꣳ स्वि॑द्धि॒मस्य॑ भेष॒जं किꣳ स्वि॑दा॒वप॑नं म॒हत् ॥ सूर्य॑ एका॒की च॑रति - [ ]
▶ पदपाठः (Word-by-word)
किम् । स्वि॒त् । आ॒सी॒त् । पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ । किम् । स्वि॒त् । आ॒सी॒त् । बृ॒हत् । वयः॑ ॥ किम् । स्वि॒त् । आ॒सी॒त् । पि॒श॒ङ्गि॒ला । किम् । स्वि॒त् । आ॒सी॒त् । पि॒लि॒प्पि॒ला ॥ द्यौः । आ॒सी॒त् । पू॒र्वचि॑त्ति॒रिति॑ पू॒र्व - चि॒त्तिः॒ । अश्वः॑ । आ॒सी॒त् । बृ॒हत् । वयः॑ ॥ रात्रिः॑ । आ॒सी॒त् । पि॒श॒ङ्गि॒ला । अविः॑ । आ॒सी॒त् । पि॒लि॒प्पि॒ला ॥ कः । स्वि॒त् । ए॒का॒की । च॒र॒ति॒ । कः । उ॒ । स्वि॒त् । जा॒य॒ते॒ । पुनः॑ ॥ किम् । स्वि॒त् । हि॒मस्य॑ । भे॒ष॒जम् । किम् । स्वि॒त् । आ॒वप॑न॒मित्या᳚ - वप॑नम् । म॒हत् ॥ सूर्यः॑ । ए॒का॒की । च॒र॒ति॒ ।
पदसंख्या: 50
TS 7.4.18.2 TS 7.4.18.2
च॒न्द्रमा॑ जायते॒ पुनः॑ । अ॒ग्निर्. हि॒मस्य॑ भेष॒जं भूमि॑रा॒वप॑नं म॒हत् ॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्याः पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभिं᳚ । पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं ॅव्यो॑म ॥वेदि॑माहुः॒ पर॒मन्तं॑ पृथि॒व्या य॒ज्ञ्मा॑हु॒ र्भुव॑नस्य॒ नाभिं᳚ । सोम॑माहु॒र्वृष्णो॒ अश्व॑स्य॒ रेतो॒ ब्रह्मै॒व वा॒चः प॑र॒मं ॅव्यो॑म ॥
▶ पदपाठः (Word-by-word)
च॒न्द्रमाः᳚ । जा॒य॒ते॒ । पुनः॑ ॥ अ॒ग्निः । हि॒मस्य॑ । भे॒ष॒जम् । भूमिः॑ । आ॒वप॑न॒मित्या᳚ - वप॑नम् । म॒हत् ॥ पृ॒च्छामि॑ । त्वा॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । पृ॒च्छामि॑ । त्वा॒ । भुव॑नस्य । नाभि᳚म् ॥ पृ॒च्छामि॑ । त्वा॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । पृ॒च्छामि॑ । वा॒चः । प॒र॒मम् । व्यो॑मेति॒ वि - ओ॒म॒ ॥ वेदि᳚म् । आ॒हुः॒ । पर᳚म् । अन्त᳚म् । पृ॒थि॒व्याः । य॒ज्ञ्म् । आ॒हुः॒ । भुव॑नस्य । नाभि᳚म् ॥ सोम᳚म् । आ॒हुः॒ । वृष्णः॑ । अश्व॑स्य । रेतः॑ । ब्रह्म॑ । ए॒व । वा॒चः । प॒र॒मम् । व्यो॑मेति॒ वि - ओ॒म॒ ॥
पदसंख्या: 46

अनुवाकः 19 (4 पञ्चाशत्)

TS 7.4.19.1 TS 7.4.19.1
अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ नयति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ सुभ॑गे॒ कांपी॑लवासिनि सुव॒र्गे लो॒के सं प्रोर्ण्वा॑थां ।आऽहम॑जानि गर्भ॒धमा त्वम॑जासि गर्भ॒धं ॥ तौ स॒ह च॒तुरः॑ प॒दः सं प्र सा॑रयावहै ॥वृषा॑ वाꣳ रेतो॒धा रेतो॑ दधा॒तूथ् स॒क्थ्यो᳚र्गृ॒दं धे᳚ह्य॒ञ्जिमुद॑ञ्जि॒मन्व॑ज । यः स्त्री॒णां जी॑व॒भोज॑नो॒ य आ॑सां - [ ]
▶ पदपाठः (Word-by-word)
अबें᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । न॒य॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ सुभ॑ग॒ इति॒ सु - भ॒गे॒ । काम्पी॑लवासि॒नीति॒ काम्पी॑ल - वा॒सि॒नि॒ । सु॒व॒र्ग इति॑ सुवः-गे । लो॒के । सम् । प्रेति॑ । ऊ॒र्ण्वा॒था॒म् ॥ एति॑ । अ॒हम् । अ॒जा॒नि॒ । ग॒र्भ॒धमिति॑ गर्भ - धम् । एति॑ । त्वम् । अ॒जा॒सि॒ । ग॒र्भ॒धमिति॑ गर्भ - धम् ॥ तौ । स॒ह । च॒तुरः॑ । प॒दः । सम् । प्रेति॑ । सा॒र॒या॒व॒है॒ ॥ वृषा᳚ । वा॒म् । रे॒तो॒धा इति॑ रेतः - धाः । रेतः॑ । द॒धा॒तु॒ । उदिति॑ । स॒क्थ्योः᳚ । गृ॒दम् । धे॒हि॒ । अ॒ञ्जिम् । उद॑ञ्जि॒मित्युत्-अ॒ञ्जि॒म् । अन्विति॑ । अ॒ज॒ ॥ यः । स्त्री॒णाम् । जी॒व॒भोज॑न॒ इति॑ जीव - भोज॑नः । यः । आ॒सा॒म् ।
पदसंख्या: 50
TS 7.4.19.2 TS 7.4.19.2
बिल॒धाव॑नः । प्रि॒यः स्त्री॒णाम॑पी॒च्यः॑ ॥ य आ॑सां कृ॒ष्णे लक्ष्म॑णि॒ सर्दि॑गृदिं प॒राव॑धीत् ॥अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ऊ॒र्द्ध्वा-मे॑ना॒मुच्छ्र॑यताद्-वेणुभा॒रं गि॒रावि॑व । अथा᳚स्या॒ मद्ध्य॑मेधताꣳ शी॒ते वाते॑ पु॒नन्नि॑व ॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥ यद्ध॑रि॒णी यव॒मत्ति॒ न - [ ]
▶ पदपाठः (Word-by-word)
बि॒ल॒धाव॑न॒ इति॑ बिल - धाव॑नः ॥ प्रि॒यः । स्त्री॒णाम् । अ॒पी॒च्यः॑ ॥ यः । आ॒सा॒म् । कृ॒ष्णे । लक्ष्म॑णि । सर्दि॑गृदिम् । प॒राव॑धी॒दिति॑ परा - अव॑धीत् ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ ऊ॒द्‌र्ध्वाम् । ए॒ना॒म् । उदिति॑ । श्र॒य॒ता॒त् । वे॒णु॒भा॒रमिति॑ वेणु-भा॒रम् । गि॒रौ । इ॒व॒ ॥ अथ॑ । अ॒स्याः॒ । मद्ध्य᳚म् । ए॒ध॒ता॒म् । शी॒ते । वाते᳚ । पु॒नन्न् । इ॒व॒ ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ यत् । ह॒रि॒णी । यव᳚म् । अत्ति॑ । न ।
पदसंख्या: 50
TS 7.4.19.3 TS 7.4.19.3
पु॒ष्टं प॒शु म॑न्यते । शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनायति ॥अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥इ॒यं ॅय॒का श॑कुन्ति॒का ऽऽहल॒मिति॒ सर्प॑ति । आह॑तं ग॒भे पसो॒ नि ज॑ल्गुलीति॒ धाणि॑का ॥ अबें॒ अबां॒ल्यंबि॑के॒ न मा॑ यभति॒ कश्च॒न । स॒सस्त्य॑श्व॒कः ॥मा॒ता च॑ ते पि॒ता च॒ तेऽग्रं॑ ॅवृ॒क्षस्य॑ रोहतः ( ) ।
▶ पदपाठः (Word-by-word)
पु॒ष्टम् । प॒शु । म॒न्य॒ते॒ ॥ शू॒द्रा । यत् । अर्य॑जा॒रेत्यर्य॑ - जा॒रा॒ । न । पोषा॑य । ध॒ना॒य॒ति॒ ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ इ॒यम् । य॒का । श॒कु॒न्ति॒का । आ॒हल॒मित्या᳚-हल᳚म् । इति॑ । सर्प॑ति ॥ आह॑त॒मित्या-ह॒त॒म् । ग॒भे । पसः॑ । नीति॑ । ज॒ल्गु॒ली॒ति॒ । धाणि॑का ॥ अम्बे᳚ । अम्बा॑लि । अम्बि॑के । न । मा॒ । य॒भ॒ति॒ । कः । च॒न ॥ स॒सस्ति॑ । अ॒श्व॒कः ॥ मा॒ता । च॒ । ते॒ । पि॒ता । च॒ । ते॒ । अग्र᳚म् । वृ॒क्षस्य॑ । रो॒ह॒तः॒ ( ) ॥
पदसंख्या: 50
TS 7.4.19.4 TS 7.4.19.4
प्र सु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसयत् ॥द॒धि॒क्राव्.ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ । सुर॒भि नो॒ मुखा॑ कर॒त् प्रण॒ आयूꣳ॑षि तारिषत् ॥आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन । म॒हेरणा॑य॒ चक्ष॑से ॥यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ॥तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ( ) । आपो॑ ज॒नय॑था च नः ॥
▶ पदपाठः (Word-by-word)
प्रेति॑ । सु॒ला॒मि॒ । इति॑ । ते॒ । पि॒ता । ग॒भे । मु॒ष्टिम् । अ॒तꣳ॒॒स॒य॒त् ॥ द॒धि॒क्राव्.ण्ण॒ इति॑ दधि-क्राव्.ण्णः॑ । अ॒का॒रि॒ष॒म् । जि॒ष्णोः । अश्व॑स्य । वा॒जिनः॑ ॥ सु॒र॒भि । नः॒ । मुखा᳚ । क॒र॒त् । प्रेति॑ । नः॒ । आयूꣳ॑षि । ता॒रि॒ष॒त् ॥ आपः॑ । हि । स्थ । म॒यो॒भुव॒ इति॑ मयः - भुवः॑ । ताः । नः॒ । ऊ॒र्जे । द॒धा॒त॒न॒ ॥ म॒हे । रणा॑य । चक्ष॑से ॥ यः । वः॒ । शि॒वत॑म॒ इति॑ शि॒व - त॒मः॒ । रसः॑ । तस्य॑ । भा॒ज॒य॒त॒ । इ॒ह । नः॒ ॥ उ॒श॒तीः । इ॒व॒ । मा॒तरः॑ ॥ तस्मै᳚ । अर᳚म् । ग॒मा॒म॒ । वः॒ । यस्य॑ । क्षया॑य । जिन्व॑थ ( ) ॥ आपः॑ । ज॒नय॑थ । च॒ । नः॒ ॥
पदसंख्या: 54

अनुवाकः 20 (1 पञ्चाशत्)

TS 7.4.20.1 TS 7.4.20.1
भूर्भुवः॒ सुव॒र्वस॑वस्त्वा ऽञ्जन्तु गाय॒त्रेण॒ छन्द॑सा रु॒द्रास्त्वा᳚ ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॑सा, ऽऽदि॒त्यास्त्वा᳚ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॑सा॒ यद्-वातो॑ अ॒पो अग॑म॒दिन्द्र॑स्य त॒नुवं॑ प्रि॒यां । ए॒तꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒मा व॑र्तयासि नः ॥ लाजी(3)ञ्छाची(3)न् यशो॑ म॒माॅ(4) । य॒व्यायै॑ ग॒व्याया॑ ए॒तद्-दे॑वा॒ अन्न॑मत्तै॒तदन्न॑मद्धि प्रजापते ॥ यु॒ञ्जन्ति॑ ब्र॒द्ध्न ( )-म॑रु॒षं चर॑न्तं॒ परि॑ त॒स्थुषः॑ । रोच॑न्ते रोच॒ना दि॒वि ॥ यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ । शोणा॑ धृ॒ष्णू नृ॒वाह॑सा ॥ के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्या अपे॒शसे᳚ । समु॒षद्भि॑रजायथाः ॥
▶ पदपाठः (Word-by-word)
भूः । भुवः॑ । सुवः॑ । वस॑वः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । गा॒य॒त्रेण॑ । छन्द॑सा । रु॒द्राः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । त्रैष्टु॑भेन । छन्द॑सा । आ॒दि॒त्याः । त्वा॒ । अ॒ञ्ज॒न्तु॒ । जाग॑तेन । छन्द॑सा । यत् । वातः॑ । अ॒पः । अग॑मत् । इन्द्र॑स्य । त॒नुव᳚म् । प्रि॒याम् ॥ ए॒तम् । स्तो॒तः॒ । ए॒तेन॑ । प॒था । पुनः॑ । अश्व᳚म् । एति॑ । व॒र्त॒या॒सि॒ । नः॒ ॥ लाजी(3)न् । शाची(3)न् । यशः॑ । म॒मा(4)ॅम् ॥ य॒व्यायै᳚ । ग॒व्यायै᳚ । ए॒तत् । दे॒वाः॒ । अन्न᳚म् । अ॒त्त॒ । ए॒तत् । अन्न᳚म् । अ॒द्धि॒ । प्र॒जा॒प॒त॒ इति॑ प्रजा - प॒ते॒ ॥ यु॒ञ्जन्ति॑ । ब्र॒द्ध्नम् ( ) । अ॒रु॒षम् । चर॑न्तम् । परीति॑ । त॒स्थुषः॑ ॥ रोच॑न्ते । रो॒च॒ना । दि॒वि ॥ यु॒ञ्जन्ति॑ । अ॒स्य॒ । काम्या᳚ । हरी॒ इति॑ । विप॑क्ष॒सेति॒ वि - प॒क्ष॒सा॒ । रथे᳚ ॥ शोणा᳚ । धृ॒ष्णू इति॑ । नृ॒वाह॒सेति॑ नृ-वाह॑सा ॥ के॒तुम् । कृ॒ण्वन्न् । अ॒के॒तवे᳚ । पेशः॑ । म॒र्याः॒ । अ॒पे॒शसे᳚ ॥ समिति॑ । उ॒षद्भि॒रित्यु॒षत् - भिः॒ । अ॒जा॒य॒थाः॒ ॥
पदसंख्या: 75

अनुवाकः 21 (1 पञ्चाशत्)

TS 7.4.21.1 TS 7.4.21.1
प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहा॑ ऽपा॒नाय॒ स्वाहा॒ स्नाव॑भ्यः॒ स्वाहा॑ संता॒नेभ्यः॒ स्वाहा॒ परि॑संतानेभ्यः॒ स्वाहा॒ पर्व॑भ्यः॒ स्वाहा॑ स॒धांने᳚भ्यः॒ स्वाहा॒ शरी॑रेभ्यः॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॒ दक्षि॑णाभ्यः॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
प्रा॒णायेति॑ प्र - अ॒नाय॑ । स्वाहा᳚ । व्या॒नायेति॑ वि - अ॒नाय॑ । स्वाहा᳚ । अ॒पा॒नायेत्य॑प - अ॒नाय॑ । स्वाहा᳚ । स्नाव॑भ्य॒ इति॒ स्नाव॑ - भ्यः॒ । स्वाहा᳚ । स॒न्ता॒नेभ्य॒ इति॑ सं - ता॒नेभ्यः॑ । स्वाहा᳚ । परि॑सन्तानेभ्य॒ इति॒ परि॑ - स॒न्ता॒ने॒भ्यः॒ । स्वाहा᳚ । पर्व॑भ्य॒ इति॒ पर्व॑-भ्यः॒ । स्वाहा᳚ । स॒धांने᳚भ्य॒ इति॑ सं - धाने᳚भ्यः । स्वाहा᳚ । शरी॑रेभ्यः । स्वाहा᳚ । य॒ज्ञाय॑ । स्वाहा᳚ । दक्षि॑णाभ्यः । स्वाहा᳚ । सु॒व॒र्गायेति॑ सुवः - गाय॑ । स्वाहा᳚ । लो॒काय॑ । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 28

अनुवाकः 22 (1 पञ्चाशत्)

TS 7.4.22.1 TS 7.4.22.1
सि॒ताय॒ स्वाहा ऽसि॑ताय॒ स्वाहा॒ ऽभिहि॑ताय॒ स्वाहा ऽन॑भिहिताय॒ स्वाहा॑ यु॒क्ताय॒ स्वाहा ऽयु॑क्ताय॒ स्वाहा॒ सुयु॑क्ताय॒ स्वाहो -द्यु॑क्ताय॒ स्वाहा॒ विमु॑क्ताय॒ स्वाहा॒ प्रमु॑क्ताय॒ स्वाहा॒ वञ्च॑ते॒ स्वाहा॑ परि॒वञ्च॑ते॒ स्वाहा॑ सं॒ॅवञ्च॑ते॒ स्वाहा॑ ऽनु॒वञ्च॑ते॒ स्वाहो॒द् -वञ्च॑ते॒ स्वाहा॑ य॒ते स्वाहा॒ धाव॑ते॒ स्वाहा॒ तिष्ठ॑ते॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥
▶ पदपाठः (Word-by-word)
सि॒ताय॑ । स्वाहा᳚ । असि॑ताय । स्वाहा᳚ । अ॒भिहि॑ता॒येत्य॒भि - हि॒ता॒य॒ । स्वाहा᳚ । अन॑भिहिता॒येत्यन॑भि - हि॒ता॒य॒ । स्वाहा᳚ । यु॒क्ताय॑ । स्वाहा᳚ । अयु॑क्ताय । स्वाहा᳚ । सुयु॑क्ता॒येति॒ सु - यु॒क्ता॒य॒ । स्वाहा᳚ । उद्यु॑क्ता॒येत्युत् - यु॒क्ता॒य॒ । स्वाहा᳚ । विमु॑क्ता॒येति॒ वि - मु॒क्ता॒य॒ । स्वाहा᳚ । प्रमु॑क्ता॒येति॒ प्र - मु॒क्ता॒य॒ । स्वाहा᳚ । वञ्च॑ते । स्वाहा᳚ । प॒रि॒वञ्च॑त॒ इति॑ परि - वञ्च॑ते । स्वाहा᳚ । सं॒ॅवञ्च॑त॒ इति॑ सं - वञ्च॑ते । स्वाहा᳚ । अ॒नु॒वञ्च॑त॒ इत्य॑नु - वञ्च॑ते । स्वाहा᳚ । उ॒द्वञ्च॑त॒ इत्यु॑त्-वञ्च॑ते । स्वाहा᳚ । य॒ते । स्वाहा᳚ । धाव॑ते । स्वाहा᳚ । तिष्ठ॑ते । स्वाहा᳚ । सर्व॑स्मै । स्वाहा᳚ ॥
पदसंख्या: 38