अ॒ग्निर्वाव सं॑ॅवथ्स॒रः । आ॒दि॒त्यः प॑रिवथ्स॒रः । च॒न्द्रमा॑ इदावथ्स॒रः । वा॒यु-र॑नुवथ्स॒रः ॥ यद्-वै᳚श्वदे॒वेन॒ यज॑ते । अ॒ग्निमे॒व तथ् सं॑ॅवथ्स॒र-मा᳚प्नोति । तस्मा᳚द्-वैश्वदे॒वेन॒ यज॑मानः । सं॒ॅव॒थ्स॒रीणाꣳ॑ स्व॒स्ति-माशा᳚स्त॒ इत्याशा॑सीत ॥ यद्-व॑रुण प्रघा॒सैर्-यज॑ते । आ॒दि॒त्यमे॒व तत् प॑रिवथ्स॒र-मा᳚प्नोति
कोर्वै (Index)
(प॒रि॒व॒थ्स॒रमा᳚प्नोति - शुनासी॒रीये॑ण॒ यज॑ते - ऽजयन्थ् - सहस्रया॒जिन॑मा॒प्नोति॑ - वैश्वदेव॒त्वꣳ - सा॑कमे॒धैर॑यजत - स॒मैध॑न्त - पितृयज्ञ्॒त्वं - ज॑यति॒ यस्मि॑न् वा॒युर्. - हे॑म॒न्त स्त्रीणी॑ च)