पव॑मानः॒ सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्.षणिः । यः पोता॒ स पु॑नातु मा ॥ पु॒नन्तु॑ मा देवज॒नाः । पु॒नन्तु॒ मन॑ वो धि॒या । पु॒नन्तु॒ विश्व॑ आ॒यवः॑ ॥ जात॑वेदः प॒वित्र॑वत् । प॒वित्रे॑ण पुनाहि मा । शु॒क्रेण॑ देव॒ दीद्य॑त् । अग्ने॒ क्रत्वा॒ क्रतूꣳ॒॒ रनु॑ ।
कोर्वै (Index)
(अनु॑ - रयी॒णां - ब्रह्म॑णा - स्व॒स्त्यय॑नीः - सु॒दुघा॒ हि घृ॑त॒श्चुत॒ ऋषि॑भिः॒ सम्भृ॑तो॒ रसः॑ - पुनातु॒ त्रीणि॑ च )