यस्य॑ प्रातस्सव॒ने सोमो॑ऽति॒रिच्य॑ते । माद्ध्य॑न्दिनꣳ॒॒ सव॑नं का॒मय॑मानो॒-ऽभ्यति॑रिच्यते । गौर्द्ध॑यति म॒रुता॒मिति॒ धय॑द्वतीषु कुर्वन्ति । हि॒नस्ति॒ वै स॒न्ध्यधी॑तम् । स॒न्धीव॒ खलु॒ वा ए॒तत् । यथ् सव॑न स्याति॒रिच्य॑ते । यद्धय॑द्वतीषु कु॒र्वन्ति॑ । स॒न्धेः शान्त्यै᳚ ॥ गा॒य॒त्रꣳ साम॑ भवति पञ्चद॒शः स्तोमः॑ । तेनै॒व प्रा॑तस्सव॒नान्नय॑न्ति ।
कोर्वै (Index)
(य॒न्ति॒ - सव॑नस्याति॒रिच्य॑ते - शꣳसति - दाधारा॒ष्टौ च॑)