उद॑स्थाद्-दे॒व्यदि॑तिर्-विश्वरू॒पी । आयु॑र्य॒ज्ञ्प॑तावधात् । इन्द्रा॑य कृण्व॒ती भा॒गम् । मि॒त्राय॒ वरु॑णाय च ॥ इ॒यं ॅवा अ॑ग्निहो॒त्री । इ॒यं ॅवा ए॒तस्य॒ निषी॑दति । यस्या᳚ग्निहो॒त्री नि॒षीद॑ति । तामुत्था॑पयेत् । उद॑स्थाद्-दे॒व्यदि॑ति॒रिति॑ । इ॒यं ॅवै दे॒व्यदि॑तिः
कोर्वै (Index)
(वै दे॒व्यदि॑तिर् - मुञ्चति - सृजति - करोति - करोत्या - भ्या॒मपि॑दद्ध्या॒त् पञ्च॑ च)