TB 1.4.2

4 पञ्चाशत्

1.4.2 अनुवाकं 2 - सोत्रामणीशेषा मन्त्राः

1.4.2.1
यु॒वꣳ सु॒राम॑मश्विना । नमु॑चावाऽसु॒रे सचा᳚ । वि॒पि॒पा॒ना शु॑भस्पती । इन्द्रं॒ कर्म॑स्वावतम् ॥ पु॒त्रमि॑व पि॒तरा॑व॒श्विनो॒भा । इन्द्राव॑तं॒ कर्म॑णा दꣳ॒॒सना॑भिः । यथ् सु॒रामं॒ ॅव्यपि॑बः॒ शची॑भिः । सर॑स्वती त्वा मघवन्नभीष्णात् ॥ अहा᳚व्यग्ने ह॒विरा॒स्ये॑ ते । स्रु॒चीव॑ घृ॒तं च॒मू इ॑व॒ सोमः॑
कोर्वै (Index)
(सोम॑ - आवि॒शन्. - य॑जे - रा॒ज्यायैकं॑ च)
1.4.2.2
वा॒ज॒सनिꣳ॑ र॒यिम॒स्मे सु॒वीर᳚म् । प्र॒श॒स्तं धे॑हि य॒शसं॑ बृ॒हन्त᳚म् ॥ यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणः॑ । व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः । की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ । हृ॒दाम॒तिं ज॑नय॒ चारु॑म॒ग्नये᳚ ॥ नाना॒ हि वां᳚ दे॒वहि॑तꣳ॒॒ सदो॑ मि॒तम् । मा सꣳसृ॑क्षाथां पर॒मे व्यो॑मन्न् । सुरा॒ त्वमसि॑ शु॒ष्मिणी॒ सोम॑ ए॒षः । मा मा॑ हिꣳसीः॒ स्वां ॅयोनि॑मावि॒शन्न्
कोर्वै (Index)
(सोम॑ - आवि॒शन्. - य॑जे - रा॒ज्यायैकं॑ च)
1.4.2.3
यदत्र॑ शि॒ष्टꣳ र॒सिनः॑ सु॒तस्य॑ । यदिन्द्रो॒ अपि॑ब॒च्छची॑भिः । अ॒हं तद॑स्य॒ मन॑सा शि॒वेन॑ । सोमꣳ॒॒ राजा॑नमि॒ह भ॑क्षयामि ॥ द्वे स्रु॒ती अ॑शृणवं पितृ॒णाम् । अ॒हं दे॒वाना॑मु॒त मर्त्या॑नाम् । ताभ्या॑मि॒दं ॅविश्वं॒ भुव॑नꣳ॒॒ समे॑ति । अ॒न्त॒रा पूर्व॒मप॑रं च के॒तुम् ॥ यस्ते॑ देव वरुण गाय॒त्रछ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे ।
कोर्वै (Index)
(सोम॑ - आवि॒शन्. - य॑जे - रा॒ज्यायैकं॑ च)
1.4.2.4
यस्ते॑ देव वरुण त्रि॒ष्टुप्छ॑न्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे । यस्ते॑ देव वरुण॒ जग॑तीछन्दाः॒ पाशः॑ । तं त॑ ए॒तेनाव॑यजे ॥ सोमो॒ वा ए॒तस्य॑ रा॒ज्यमाद॑त्ते । यो राजा॒ सन् रा॒ज्यो वा॒ सोमे॑न॒ यज॑ते । दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति । त ए॑नं॒ पुनः॑ सुवन्ते रा॒ज्याय॑ ( ) । दे॒व॒सू राजा॑ भवति ।
कोर्वै (Index)
(सोम॑ - आवि॒शन्. - य॑जे - रा॒ज्यायैकं॑ च)