TB 1.4.7

7 पञ्चाशत्

1.4.7 अनुवाकं 7 - यूपविरोहणादिप्रायश्चित्तम्

1.4.7.1
अ॒सु॒र्यं॑ ॅवा ए॒तस्मा॒द्-वर्णं॑ कृ॒त्वा । प॒शवो॑ वी॒र्य॑-मप॑क्रामन्ति । यस्य॒ यूपो॑ वि॒रोह॑ति । त्वा॒ष्ट्रं ब॑हुरू॒प-माल॑भेत । त्वष्टा॒ वै रू॒पाणा॑मीशे । य ए॒व रू॒पाणा॒मीशे᳚ । सो᳚ऽस्मिन् प॒शून्. वी॒र्यं॑ ॅयच्छति । नास्मा᳚त्-प॒शवो॑ वी॒र्य॑-मप॑क्रामन्ति ॥ आर्तिं॒ ॅवा ए॒ते निय॑न्ति । येषां᳚ दीक्षि॒ताना॑-म॒ग्नि-रु॒द्वाय॑ति
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.2
यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । यत्तं मन्थे᳚त् । विच्छि॑न्द्यात् । भ्रातृ॑व्यमस्मै जनयेत् । यदा॑हव॒नीय॑ उ॒द्वाये᳚त् । आग्नी᳚द्ध्रा॒-दुद्ध॑रेत् । यदाग्नी᳚द्ध्र उ॒द्वाये᳚त् । गार्.ह॑पत्या॒-दुद्ध॑रेत् । यद् गार्.ह॑पत्य उ॒द्वाये᳚त् । अत॑ ए॒व पुन॑र् मन्थेत्
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.3
अत्र॒ वाव स निल॑यते । यत्र॒ खलु॒ वै निली॑न-मुत्त॒मं पश्य॑न्ति । तदे॑न-मिच्छन्ति ॥ यस्मा॒द्-दारो॑रु॒द्वाये᳚त् । तस्या॒रणी॑ कुर्यात् । क्रु॒मु॒कमपि॑ कुर्यात् । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यत्-क्रु॑मु॒कः । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्द्धयति ॥ गार्.ह॑पत्यं मन्थति
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.4
गार्.ह॑पत्यो॒ वा अ॒ग्नेर्योनिः॑ । स्वादे॒वैनं॒ ॅयोने᳚र्-जनयति । नास्मै॒ भ्रातृ॑व्यं जनयति ॥ यस्य॒ सोम॑ उप॒दस्ये᳚त् । सु॒वर्णꣳ॒॒ हिर॑ण्यं द्वे॒धा वि॒च्छिद्य॑ । ऋ॒जी॒षे᳚ऽन्यदा॑धूनु॒यात् । जु॒हु॒याद॒न्यत् । सोम॑मे॒वा-भि॑षु॒णोति॑ । सोमं॑ जुहोति ॥ सोम॑स्य॒ वा अ॑भिषू॒यमा॑णस्य प्रि॒या त॒नू-रुद॑क्रामत्
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.5
तथ् सु॒वर्णꣳ॒॒ हिर॑ण्य-मभवत् । यथ् सु॒वर्णꣳ॒॒ हिर॑ण्यं कु॒र्वन्ति॑ । प्रि॒ययै॒वैनं॑ त॒नुवा॒ सम॑र्द्धयन्ति ॥ यस्याक्री॑तꣳ॒॒ सोम॑-मप॒हरे॑युः । क्री॒णी॒यादे॒व । सैव ततः॒ प्राय॑श्चित्तिः ॥ यस्य॑ क्री॒तम॑प॒हरे॑युः । आ॒दा॒राꣳश्च॑ फाल्गु॒नानि॑ चा॒भिषु॑णुयात् । गा॒य॒त्री यꣳ सोम॒माह॑रत् । तस्य॒ योऽꣳ॑शुः प॒राऽप॑तत्
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.6
त आ॑दा॒रा अ॑भवन्न् । इन्द्रो॑ वृ॒त्रम॑हन्न् । तस्य॑ व॒ल्कः परा॑ऽपतत् । तानि॑ फाल्गु॒नान्य॑भवन्न् । प॒शवो॒ वै फा᳚ल्गु॒नानि॑ । प॒शवः॒ सोमो॒ राजा᳚ । यदा॑दा॒राꣳश्च॑ फाल्गु॒नानि॑ चाभिषु॒णोति॑ । सोम॑मे॒व राजा॑नम॒भिषु॑णोति ॥ शृ॒तेन॑ प्रातस्सव॒ने श्री॑णीयात् । द॒द्ध्ना म॒द्ध्यन्दि॑ने
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)
1.4.7.7
नी॒त॒मि॒श्रेण॑ तृतीयसव॒ने । अ॒गि॒ष्टो॒मः सोमः॑ स्याद् रथन्त॒रसा॑मा । य ए॒वर्त्विजो॑ वृ॒ताः स्युः । त ए॑नं ॅयाजयेयुः । एकां॒ गां दक्षि॑णां दद्या॒त्तेभ्य॑ ए॒व । पुनः॒ सोमं॑ क्रीणीयात् । य॒ज्ञेनै॒व तद्-य॒ज्ञ्-मि॑च्छति । सैव ततः॒ प्राय॑श्चित्तिः ॥ सर्वा᳚भ्यो॒ वा ए॒ष दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मान॒-मागु॑रते । यः स॒त्राया॑गु॒रते᳚ ( ) । ए॒तावा॒न्-खलु॒ वै पुरु॑षः । याव॑दस्य वि॒त्तम् । स॒र्व॒वे॒द॒सेन॑ यजेत । सर्व॑पृष्ठोऽस्य॒ सोमः॑ स्यात् । सर्वा᳚भ्य ए॒व दे॒वता᳚भ्यः॒ सर्वे᳚भ्यः पृ॒ष्ठेभ्य॑ आ॒त्मानं॒ निष्क्री॑णीते ।
कोर्वै (Index)
(उ॒द्वाय॑ति - मन्थेन् - मन्थ - त्यक्रामत् - प॒राऽप॑तन् - म॒द्ध्यन्दि॑न - आगु॒रते॒ पञ्च॑ च)