TB 1.4.6

7 पञ्चाशत्

1.4.6 अनुवाकं 6 - सवननिमित्तं प्रायश्चित्तम्

1.4.6.1
एकै॑को॒ वै ज॒नता॑या॒-मिन्द्रः॑ । एकं॒ ॅवा ए॒ताविन्द्र॑म॒भि सꣳसु॑नुतः । यौ द्वौ सꣳ॑सुनु॒तः । प्र॒जाप॑ति॒र्वा ए॒ष विता॑यते । यद्-य॒ज्ञ्ः । तस्य॒ ग्रावा॑णो॒ दन्ताः᳚ । अ॒न्य॒त॒रं ॅवा ए॒ते सꣳ॑सुन्व॒तोर्-निर्ब॑फ्सति । पूर्वे॑णोप॒सृत्या॑ दे॒वता॒ इत्या॑हुः । पू॒र्वो॒प॒सृ॒तस्य॒ वै श्रेया᳚न् भवति । एति॑व॒न्त्याज्या॑नि भवन्त्य॒-भिजि॑त्यै ।
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.2
म॒रुत्व॑तीः प्रति॒पदः॑ । म॒रुतो॒ वै दे॒वाना॒-मप॑राजित-मा॒यत॑नम् । दे॒वाना॑-मे॒वाप॑राजित आ॒यत॑ने यतते ॥उ॒भे बृ॑हद्रथन्त॒रे भ॑वतः । इ॒यं ॅवाव र॑थन्त॒रम् । अ॒सौ बृ॒हत् । आ॒भ्यामे॒वैन॑-म॒न्तरे॑ति । वा॒चश्च॒ मन॑सश्च । प्रा॒णाच्चा॑-पा॒नाच्च॑ । दि॒वश्च॑ पृथि॒व्याश्च॑
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.3
सर्व॑स्माद्-वि॒त्ताद्-वेद्या᳚त् ॥ अ॒भि॒व॒र्तो ब्र॑ह्मसा॒मं भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिवृ॑त्त्यै ॥ अ॒भि॒जिद्-भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै । वि॒श्व॒जिद्-भ॑वति । विश्व॑स्य॒ जित्यै᳚ ॥ यस्य॒ भूयाꣳ॑सो यज्ञ्क्र॒तव॒ इत्या॑हुः । स दे॒वता॑ वृङ्क्त॒ इति॑ । यद्य॑ग्निष्टो॒मः सोमः॑ प॒रस्ता॒थ्-स्यात्
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.4
उ॒॒क्थ्यं॑ कुर्वीत । यद्यु॒क्थ्यः॑ स्यात् । अ॒ति॒रा॒त्रं कु॑र्वीत । य॒ज्ञ्॒क्र॒तुभि॑-रे॒वास्य॑ दे॒वता॑ वृङ्क्ते ॥ यो वै छन्दो॑भि-रभि॒भव॑ति । स सꣳ॑ सुन्व॒तो-र॒भिभ॑वति । स॒म्ॅवे॒शाय॑ त्वोपवे॒शाय॒-त्वेत्या॑ह । छन्दाꣳ॑सि॒ वै स॑म्ॅवे॒श उ॑पवे॒शः । छन्दो॑भिरे॒वास्य॒ छन्दाꣳ॑स्य॒-भिभ॑वति ॥ इ॒ष्टर्गो॒ वा ऋ॒त्विजा॑-मद्ध्व॒र्युः
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.5
इ॒ष्टर्गः॒ खलु॒ वै पूर्वो॒ऽर्ष्टुः क्षी॑यते । प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒मित्या॑ह । प्रा॒णा॒पा॒नयो॑रे॒व श्र॑यते । प्राणा॑पानौ॒ मा मा॑ हासिष्ट॒मित्या॑ह । नैनं॑ पु॒राऽऽयु॑षः प्राणापा॒नौ ज॑हितः ॥ आर्तिं॒ ॅवा ए॒ते निय॑न्ति । येषां᳚ दीक्षि॒तानां᳚ प्र॒मीय॑ते । तं ॅयद॑व॒वर्जे॑युः । क्रू॒र॒कृता॑मिवैषां ॅलो॒कः स्या᳚त् । आह॑र द॒हेति॑ ब्रूयात्
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.6
तं द॑क्षिण॒तो वेद्यै॑ नि॒धाय॑ । स॒र्प॒रा॒ज्ञिया॑ ऋ॒ग्भिः स्तु॑युः । इ॒यं ॅवै सर्प॑तो॒ राज्ञी᳚ । अ॒स्या ए॒वैनं॒ परि॑ददति ॥ व्यृ॑द्धं॒ तदित्या॑हुः । यथ् स्तु॒त-मन॑नुशस्त॒-मिति॑ । होता᳚ प्रथ॒मः प्रा॑चीनावी॒ती मा᳚र्जा॒लीयं॒ परी॑यात् । या॒मीर॑नु-ब्रु॒वन्न् । स॒र्प॒रा॒ज्ञीनां᳚ कीर्तयेत् । उ॒भयो॑रे॒वैनं॑ ॅलो॒कयोः॒ परि॑ददति
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)
1.4.6.7
अथो॑ धु॒वन्त्ये॒वैन᳚म् । अथो॒ न्ये॑वास्मै᳚ ह्नुवते ॥ त्रिः परि॑यन्ति । त्रय॑ इ॒मे लो॒काः । ए॒भ्य ए॒वैनं॑ ॅलो॒केभ्यो॑ धुवते । त्रिः पुनः॒ परि॑यन्ति । षट्थ् संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑ धुवते ॥ अग्न॒ आयूꣳ॑षि पवस॒ इति॑ प्रति॒पदं॑ कुर्वीरन्न् ( ) । र॒थ॒न्त॒रसा॑मैषाꣳ॒॒ सोमः॑ स्यात् । आयु॑रे॒वात्मन्-द॑धते । अथो॑ पा॒प्मान॑मे॒व वि॒जह॑तो यन्ति ।
कोर्वै (Index)
(अ॒भिजि॑त्यै - पृथि॒व्याश्च॒ - स्या - द॑द्ध्व॒र्युर् - ब्रु॑याल् - लो॒कयोः॒ परि॑ददति - कुर्वरꣳ॒॒ स्त्रीणि॑ च)