TB 1.4.9

5 पञ्चाशत्

1.4.9 अनुवाकं 9 - राजसूयगतचातुर्मास्यशेषः

1.4.9.1
प्र॒जा वै स॒त्रमा॑सत॒ तप॒स्तप्य॑माना॒ अजु॑ह्वतीः । दे॒वा अ॑पश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेना᳚र्द्धमा॒स ऊर्ज॒मवा॑रुन्धत । तस्मा॑दर्द्धमा॒से दे॒वा इ॑ज्यन्ते ॥ पि॒तरो॑ऽपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त- म॑जुहवुः । तेन॑ मा॒स्यूर्ज॒मवा॑रुन्धत । तस्मा᳚न् मा॒सि पि॒तृभ्यः॑ क्रियते । म॒नु॒ष्या॑ अपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धाम्
कोर्वै (Index)
(म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा॒-ददा᳚-त्यतिष्ठ च्च॒त्वारि॑ च)
1.4.9.2
तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑-द्व॒यीमूर्ज॒मवा॑रुन्धत । तस्मा॒द्-द्विरह्नो॑-मनु॒ष्ये᳚भ्य॒ उप॑ह्रियते । प्रा॒तश्च॑ सा॒यं च॑ । प॒शवो॑ऽपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धाम् । तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑-त्र॒यीमूर्ज॒मवा॑-रुन्धत । तस्मा॒त् त्रिरह्नः॑ प॒शवः॒ प्रेर॑ते । प्रा॒तस्स॑गं॒वे सा॒यम् । असु॑रा अपश्यं चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धाम्
कोर्वै (Index)
(म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा॒-ददा᳚-त्यतिष्ठ च्च॒त्वारि॑ च)
1.4.9.3
तमुपोद॑तिष्ठ॒न्त-म॑जुहवुः । तेन॑ संॅवथ्स॒र ऊर्ज॒मवा॑-रुन्धत ॥ ते दे॒वा अ॑मन्यन्त । अ॒मी वा इ॒दम॑भूवन्न् । यद्व॒यꣳस्म इति॑ । त ए॒तानि॑ चातुर्मा॒स्यान्य॑पश्यन्न् । तानि॒ निर॑वपन्न् । तैरे॒वैषां॒ तामूर्ज॑मवृञ्जत । ततो॑ दे॒वा अभ॑वन्न् । पराऽसु॑राः ।
कोर्वै (Index)
(म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा॒-ददा᳚-त्यतिष्ठ च्च॒त्वारि॑ च)
1.4.9.4
यद्-यज॑ते । यामे॒व दे॒वा ऊर्ज॑म॒वारु॑न्धत । तां तेना-व॑रुन्धे । यत् पि॒तृभ्यः॑ क॒रोति॑ । यामे॒व पि॒तर॒ ऊर्ज॑म॒वा-रु॑न्धत । तां तेना-व॑रुन्धे । यदा॑वस॒थेऽन्नꣳ॒॒ हर॑न्ति । यामे॒व म॑नु॒ष्या॑ ऊर्ज॑म॒वा-रु॑न्धत । तां तेना-व॑रुन्धे । यद् दक्षि॑णां॒ ददा॑ति
कोर्वै (Index)
(म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा॒-ददा᳚-त्यतिष्ठ च्च॒त्वारि॑ च)
1.4.9.5
यामे॒व प॒शव॒ ऊर्ज॑म॒वा-रु॑न्धत । तां तेना-व॑रुन्धे । यच्चा॑तुर्-मा॒स्यैर्-यज॑ते । यामे॒वासु॑रा॒ ऊर्ज॑म॒-वारु॑न्धत । तां तेना-व॑रुन्धे । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति ॥ वि॒राजो॒ वा ए॒षा विक्रा᳚न्तिः । यच्चा॑तुर्-मा॒स्यानि॑ । वै॒श्व॒दे॒वेना॒स्मिॅल्लो॒के प्रत्य॑तिष्ठत् ( ) । व॒रु॒ण॒ प्र॒घा॒सै-र॒न्तरि॑क्षे । सा॒क॒मे॒धै-र॒मुष्मि॑ॅल्लो॒के । ए॒ष ह॒ त्वावैतथ् सर्वं॑ भवति । य ए॒वं ॅवि॒द्वाꣳश्चा॑तुर्मा॒स्यैर् यज॑ते ।
कोर्वै (Index)
(म॒नु॒ष्या॑ अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा अपश्यञ्चम॒सं घृ॒तस्य॑ पू॒र्णꣳ स्व॒धा-मसु॑रा॒-ददा᳚-त्यतिष्ठ च्च॒त्वारि॑ च)