मि॒त्रो॑ऽसि॒ वरु॑णो॒ऽसीत्या॑ह । मै॒त्रं ॅवा अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑-मे॒वैन॑-मु॒पाव॑हरति । मि॒त्रो॑ऽसि॒ वरु॑णो॒सीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒णः स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा᳚ । स्वमे॒वैनौ॑ भाग॒धेय॑-मु॒पाव॑हरति । सम॒हं ॅविश्वै᳚र्दे॒वै-रित्या॑ह
कोर्वै (Index)
(दे॒वैरित्या॑ह - स॒त्यस॑वं करोति - त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति- सत्यानृ॒ते ए॒वाव॑रुन्धे - करोति - श॒तेन्द्रि॑यः॒ षट्च॑)