TB 1.7.5

5 पञ्चाशत्

1.7.5 अनुवाकं 5 - अभिषेकार्थमपांग्रहग्रहणम्

1.7.5.1
अ॒र्थेतः॒ स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑तानां गृह्णाति । वह॑न्तीनां गृह्णाति । ए॒ता वा अ॒पाꣳ रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भि व॑हन्ति । अ॒पां पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषा᳚ऽस्यू॒र्मिरित्या॑ह
कोर्वै (Index)
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चसः॒ स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्याः᳚ स्थेत्या॑है॒व - पुरु॑षः॒ षट्च॑)
1.7.5.2
ऊ॒र्मि॒मन्त॑मे॒वैनं॑ करोति । वृ॒ष॒से॒नो॑ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सꣳश्य॑ति । व्र॒ज॒क्षितः॒ स्थेत्या॑ह । ए॒ता वा अ॒पां ॅविशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोजः॒ स्थेत्या॑ह । अन्नं॒ ॅवै म॒रुतः॑ । अन्न॑मे॒वा व॑रुन्धे । सूर्य॑वर्चसः॒ स्थेत्या॑ह
कोर्वै (Index)
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चसः॒ स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्याः᳚ स्थेत्या॑है॒व - पुरु॑षः॒ षट्च॑)
1.7.5.3
रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचसः॒ स्थेत्या॑ह । स॒त्यं ॅवा ए॒तत् । यद्-वर्.ष॑ति । अनृ॑तं॒ ॅयदा॒तप॑ति॒ वर्.ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैनꣳ॑ सत्यानृ॒ते उ॑दि॒ते हिꣳ॑स्तः । य ए॒वं ॅवेद॑ । मान्दाः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः
कोर्वै (Index)
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चसः॒ स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्याः᳚ स्थेत्या॑है॒व - पुरु॑षः॒ षट्च॑)
1.7.5.4
वाशाः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑रीः॒ स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑ रुन्धे । वि॒श्व॒भृतः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृतः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्याः᳚ स्थेत्या॑ह
कोर्वै (Index)
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चसः॒ स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्याः᳚ स्थेत्या॑है॒व - पुरु॑षः॒ षट्च॑)
1.7.5.5
रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीनाꣳ॒॒ रसः॒ स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒तं ग्रहं॑ गृह्णाति । ए॒षा वा अ॒पां पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैनꣳ॑ समा॒नानां᳚ करोति । षो॒ड॒शभि॑र्-गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः ( ) । तस्मि॑न् वी॒र्यं॑ दधाति । षो॒ड॒शभि॑र्-जु॒होति॑ षोड॒शभि॑र्-गृह्णाति । द्वात्रिꣳ॑श॒थ् संप॑द्यन्ते । द्वात्रिꣳ॑शदक्षरा ऽनु॒ष्टुक् । वाग॑नु॒ष्टुफ् सर्वा॑णि॒ छन्दाꣳ॑सि । वा॒चैवैनꣳ॒॒ सर्वे॑भिः॒ छन्दो॑भि-र॒भिषि॑ञ्चति ।
कोर्वै (Index)
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चसः॒ स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्याः᳚ स्थेत्या॑है॒व - पुरु॑षः॒ षट्च॑)