दे॒व॒सु॒वामे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाꣳ॑ स॒वाः । त ए॒वास्मै॑ स॒वान् प्रय॑च्छन्ति । त ए॑नꣳ सुवन्ते । अ॒ग्निरे॒वैनं॑ गृ॒हप॑तीनाꣳ सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्रः प॑शू॒नाम् । बृह॒स्पति॑र्-वा॒चाम् । इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् । मि॒त्रः स॒त्याना᳚म्
कोर्वै (Index)
(स॒त्याना॑-मधा॒यीत्या॑-हातारी॒दित्या॑ह-क्रमत॒ एकं॑ च)