TB 1.7.6

8 पञ्चाशत्

1.7.6 अनुवाकं 6 - अभिषेकार्थजलसंस्कारः

1.7.6.1
देवी॑रापः॒ सं मधु॑मती॒र्-मधु॑मतीभिः सृज्यद्ध्व॒मित्या॑ह । ब्रह्म॑णै॒वैनाः॒ सꣳ सृ॑जति । अना॑धृष्टाः सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैनाः᳚ सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑यं ब्राह्मणाच्छꣳ॒॒ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता᳚ । ऐ॒न्द्रो ब्रा᳚ह्मणाच्छꣳ॒॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृह्णाति । हिर॑ण्ये॒नोत् पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा᳚भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.2
श॒तमा॑नं भवति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्टꣳ॒॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.3
सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा वः॑ शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रꣳ हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रꣳ हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृतꣳ॒॒ हिर॑ण्यम्
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.4
स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वा व॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्यं चो॒ष्णीषं॑ च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लैः प॑वयति । श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आ॒त्मैक॑श॒तः
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.5
यावा॑ने॒व पुरु॑षः । तस्मि॑न् वी॒र्यं॑ दधाति । दद्ध्या॑शयति । इ॒न्द्रि॒यमे॒वा-व॑रुन्धे । उ॒दु॒म्बर॑-माशयति । अ॒न्नाद्य॒स्याव॑ रुद्ध्यै । शष्पा᳚ण्याशयति । सुरा॑बलि-मे॒वैनं॑ करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.6
अ॒ग्निरे॒वैनं॒ गार्.ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या᳚म् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सो᳚ऽर्य॒म्णः पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्रं॒ प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.7
आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्रं॒ भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑तिर्-विश्वरू॒पीत्या॑ह । इ॒यं ॅवै दे॒व्यदि॑तिर्-विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒ऽयम॒सावा॑मुष्याय॒णो᳚ऽस्यां ॅवि॒श्य॑स्मिन् रा॒ष्ट्र इत्या॑ह । वि॒शैवैनꣳ॑ रा॒ष्ट्रेण॒ सम॑र्द्धयति । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒ऽस्माकं॑ ब्राह्म॒णानाꣳ॒॒ राजेत्या॑ह । तस्मा॒थ् सोम॑राजानो ब्राह्म॒णाः
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)
1.7.6.8
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑नाः॒ स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा᳚ प्र॒त्यञ्चं॑ पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्चं॑ मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः᳚ । प्र॒तीची॑ ति॒रश्च्य॒नूची᳚ । ताभ्य॑ ए॒वैनं॑ पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैनं॑ पान्ति । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह ( ) । अप॑रिमितादे॒वैनं॑ पान्ति । हिर॑ण्यवर्णावु॒षसां᳚ ॅविरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उद्-गृ॑ह्णाति । इ॒न्द्रि॒यं ॅवै वी॒र्यं॑ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑-मु॒परि॑ष्टादा॒त्मन्-ध॑त्ते ।
कोर्वै (Index)
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृतꣳ॒॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा- ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च)