इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैनं॑ दे॒वता᳚भ्यां ॅयुनक्ति । प्र॒ष्टि॒वा॒हिनं॑ ॅयुनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थ-मे॒वास्मै॑ युनक्ति । त्रयोऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्थ् संप॑द्यन्ते
कोर्वै (Index)
(प॒द्य॒न्ते॒ - द॒धा॒ति॒ - वी॒र्ये॑णेत्या॒हा - ना᳚त्यै॒ - प्रति॑ष्ठित्यै॒ - ब्रह्म॒णाऽऽद॑धाति स॒प्त च॑)