TB 1.7.8

7 पञ्चाशत्

1.7.8 अनुवाकं 8 - अभिषेकः

1.7.8.1
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शा᳚र्दू॒ले । तामे॒वाव॑ रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छा᳚र्दू॒लः । अ॒मृतꣳ॒॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒-मुपा᳚स्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्तर्-द्ध॑त्ते । श॒तमा॑नं भवति
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.2
श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवे᳚ष्टा दन्द॒शूका॒ इति॑ क्ली॒बꣳ सीसे॑न विद्ध्यति । द॒न्द॒शूका॑-ने॒वाव॑ यजते । तस्मा᳚त् क्ली॒बं द॑न्द॒शूका॒ दꣳशु॑काः । निर॑स्तं॒ नमु॑चेः॒ शिर॒ इति॑ लोहिताय॒सं निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चिं नि॒रव॑दयते । प्रा॒णा आ॒त्मनः॒ पूर्वे॑ऽभि॒षिच्या॒ इत्या॑हुः
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.3
सोमो॒ राजा॒ वरु॑णः । दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचꣳ॑ सुवन्तां॒ ते ते᳚ प्रा॒णꣳ सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मनः॒ पूर्वा॑-न॒भिषि॑ञ्चति । यद्-ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या᳚त् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒-भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.4
स्वयै॒वैनं॑ दे॒वत॑या॒ऽभिषि॑ञ्चति । अ॒ग्ने-स्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑न् दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑न् दधाति । इन्द्र॑स्ये-न्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑न् दधाति । मि॒त्रावरु॑णयोर्-वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑न् दधाति । म॒रुता॒मोज॒सेत्या॑ह
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.5
ओज॑ ए॒वास्मि॑न् दधाति । क्ष॒त्राणां᳚ क्ष॒त्रप॑तिर॒सीत्या॑ह । क्ष॒त्राणा॑मे॒वैनं॑ क्ष॒त्रप॑तिं करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्यान् पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्न-ध॒रागुदी॑ची॒-रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑न् ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्रं नि॒रव॑दयते
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.6
उद॑ङ्प॒रेत्याग्नी᳚द्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ परं॒ नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ परं॒ नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । यꣳ हि॒नस्ति॑ । तेनै॒वैनꣳ॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)
1.7.8.7
प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । यां का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै᳚ प्र॒जा भ॑वति । प॒र्ण॒-मये॑ना-द्ध्व॒र्यु-र॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्-त्विषिं॑ दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑-न्न॒न्नाद्यं॑ दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒न् पुष्टिं॑ दधाति । नैय॑ग्रोधेन॒ जन्यः॑( ) । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ।
कोर्वै (Index)
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑)