TB 1.7.2

6 पञ्चाशत्

1.7.2 अनुवाकं 2 - देविकावहवींषि

1.7.2.1
धा॒त्रे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर्व॑पति । स॒म्ॅव॒थ्स॒रो वै धा॒ता । स॒म्ॅव॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाचं॑ दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒व-मेका॑दशकपालं॒ निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒व-मेका॑दशकपालम्
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)
1.7.2.2
वै॒ष्ण॒वं त्रि॑कपा॒लम् । वी॒र्यं॑ ॅवा अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॑ ॅविष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये᳚ प्रति॑ष्ठापयति । तस्मा᳚त् प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)
1.7.2.3
तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒वः समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒-मेका॑दशकपालं॒ निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒-मेका॑दशकपालम् । सौ॒म्यं च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्निः प्र॒जानां᳚ प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)
1.7.2.4
अ॒ग्निः प्र॒जां प्रज॑नयति । वृ॒द्धामिन्द्रः॒ प्रय॑च्छति । ब॒भ्रुर्-दक्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्णं च॒रुं निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्णं च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒नां प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शून् प्रज॑नयति
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)
1.7.2.5
वृ॒द्धानिन्द्रः॒ प्रय॑च्छति । पौ॒ष्णश्च॒रुर्-भ॑वति । इ॒यं ॅवै पू॒षा । अ॒स्यामे॒व प्रति॑ तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षोऽमे॒द्ध्य-मुप॑गच्छति । वै॒श्वा॒न॒रं द्वाद॑शकपालं॒ निर्व॑पति । स॒म्ॅव॒थ्स॒रो वा अ॒ग्निर्-वै᳚श्वान॒रः । स॒म्ॅव॒थ्स॒रेणै॒वैनꣳ॑ स्वदयति । हिर॑ण्यं॒ दक्षि॑णा
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)
1.7.2.6
प॒वित्रं॒ ॅवै हिर॑ण्यम् । पु॒नात्ये॒वैन᳚म् । ब॒हु वै रा॑ज॒न्यो ऽनृ॑तं करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णं ॅय॑व॒मयं॑ च॒रुं निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैनं॑ मुञ्चति । अश्वो॒ दक्षि॑णा ( ) । वा॒रु॒णो हि दे॒वत॒याऽश्वः॒ समृ॑द्ध्यै ।
कोर्वै (Index)
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ॅयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शून् प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च)