र॒त्निना॑मे॒तानि॑ ह॒वीꣳषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्रं प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । यथ् स॑मा॒हृत्य॑ नि॒र्वपे᳚त् । अर॑त्निनः स्युः । य॒था॒य॒थं निर्व॑पति रत्नि॒त्वाय॑
कोर्वै (Index)
(र॒त्नि॒त्वाय॒ - समृ॑द्ध्यै - पष्ठौ॒हि दक्षि॑णा॒ समृ॑द्ध्यै - ग्राम॒ण्यो॑ गृ॒हे - भा॑गदु॒घस्य॑ गृ॒हे-भ॑वति - दु॒ग्धे॑ - ऽभिजि॑त्यै॒ द्वे च॑)