TB 1.8.10

3 पञ्चाशत्

1.8.10 अनुवाकं 10 - व्युष्टिद्विरात्रं राजसूयान्ते कर्तव्यम्

1.8.10.1
अप्र॑तिष्ठितो॒ वा ए॒ष इत्या॑हुः । यो रा॑ज॒सूये॑न॒ यज॑त॒ इति॑ । य॒दा वा ए॒ष ए॒तेन॑ द्विरा॒त्रेण॒ यज॑ते । अथ॑ प्रति॒ष्ठा । अथ॑ सम्ॅवथ्स॒रमा᳚प्नोति । याव॑न्ति सम्ॅवथ्स॒रस्या॑-होरा॒त्राणि॑ । ताव॑तीरे॒तस्य॑ स्तो॒त्रीयाः᳚ । अ॒हो॒रा॒त्रेष्वे॒व प्रति॑ तिष्ठति । अ॒ग्नि॒ष्टो॒मः पूर्व॒मह॑र्-भवति । अ॒ति॒रा॒त्र उत्त॑रम्
कोर्वै (Index)
(उत्त॑रं॒ - प्रति॑ष्ठित्यै - पश॒व्यः॑ स॒प्त च॑)
1.8.10.2
नानै॒वाहो॑रा॒त्रयोः॒ प्रति॑ तिष्ठति । पौ॒र्ण॒मा॒स्यां पूर्व॒मह॑र्-भवति । व्य॑ष्टकाया॒-मुत्त॑रम् । नानै॒वार्द्ध॑ मा॒सयोः॒ प्रति॑तिष्ठति । अ॒मा॒वा॒स्या॑यां॒ पूर्व॒मह॑र्-भवति । उद्दृ॑ष्ट॒ उत्त॑रम् । नानै॒व मास॑योः॒ प्रति॑ तिष्ठति । अथो॒ खलु॑ । ये ए॒व स॑मानप॒क्षे पु॑ण्या॒हे स्याता᳚म् । तयोः᳚ का॒र्यं॑ प्रति॑ष्ठित्यै
कोर्वै (Index)
(उत्त॑रं॒ - प्रति॑ष्ठित्यै - पश॒व्यः॑ स॒प्त च॑)
1.8.10.3
अ॒प॒श॒व्यो द्वि॑रा॒त्र इत्या॑हुः । द्वे ह्ये॑ते छन्द॑सी । गा॒य॒त्रं च॒ त्रैष्टु॑भं च । जग॑तीम॒न्तर्य॑न्ति । न तेन॒ जग॑ती कृ॒तेत्या॑हुः । यदे॑नां तृतीयसव॒ने कु॒र्वन्तीति॑ । य॒दा वा ए॒षाऽहीन॒स्याह॒र् भज॑ते । सा॒ह्नस्य॑ वा॒ सव॑नम् । अथै॒व जग॑ती कृ॒ता । अथ॑ पश॒व्यः॑ ( ) । व्यु॑ष्टि॒र्वा ए॒ष द्वि॑रा॒त्रः । य ए॒वं ॅवि॒द्वान् द्वि॑रा॒त्रेण॒ यज॑ते । व्ये॑वास्मा॑ उच्छति । अथो॒ तम॑ ए॒वाप॑हते । अ॒ग्नि॒ष्टो॒म-म॑न्त॒त आह॑रति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता᳚स्वे॒व प्रति॑ तिष्ठति ।
कोर्वै (Index)
(उत्त॑रं॒ - प्रति॑ष्ठित्यै - पश॒व्यः॑ स॒प्त च॑)