TB 1.8.3

4 पञ्चाशत्

1.8.3 अनुवाकं 3 - दिशामवेष्टयः, पशुबन्धः, सात्यदूतहवींषि च

1.8.3.1
ई॒श्व॒रो वा ए॒ष दिशोऽनून्-म॑दितोः । यं दिशोऽनु॑ व्यास्था॒पय॑न्ति । दि॒शामवे᳚ष्टयो भवन्ति । दि॒क्ष्वे॑व प्रति॑ तिष्ठ॒त्यनु॑न्मादाय । पञ्च॑ दे॒वता॑ यजति । पञ्च॒ दिशः॑ । दि॒क्ष्वे॑व प्रति॑ तिष्ठति । ह॒विषो॑ हविष इ॒ष्ट्वा बा॑र्.हस्प॒त्य-म॒भिघा॑रयति । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै बृह॒स्पतिः॑ । यज॑मानमे॒व तेज॑सा॒ सम॑र्द्धयति
कोर्वै (Index)
(अ॒र्द्ध॒य॒ति॒ - भ॒व॒ - त्य॒रु॒न्ध॒त॒ - ग॒म॒य॒न्ति॒ द्वे च॑)
1.8.3.2
आ॒दि॒त्यां म॒ल्॒.हां ग॒र्भिणी॒मा ल॑भते । मा॒रु॒तीं पृश्ञिं॑ पष्ठौ॒हीम् । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति । आ॒दि॒त्यया॒ पूर्व॑या॒ प्रच॑रति । मा॒रु॒त्योत्त॑रया । रा॒ष्ट्र ए॒व विश॒मनु॑बद्ध्नाति । उ॒च्चैरा॑दि॒त्याया॒ आश्रा॑वयति । उ॒पाꣳ॒॒शु मा॑रु॒त्यै । तस्मा᳚द्-रा॒ष्ट्रं ॅविश॒मति॑वदति । ग॒र्भिण्या॑दि॒त्या भ॑वति
कोर्वै (Index)
(अ॒र्द्ध॒य॒ति॒ - भ॒व॒ - त्य॒रु॒न्ध॒त॒ - ग॒म॒य॒न्ति॒ द्वे च॑)
1.8.3.3
इ॒न्द्रि॒यं ॅवै गर्भः॑ । रा॒ष्ट्र-मे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग॒र्भा मा॑रु॒ती । विड्वै म॒रुतः॑ । विश॑मे॒व निरि॑न्द्रियामकः । दे॒वा॒सु॒राः सम्ॅय॑त्ता आसन्न् । ते दे॒वा अ॒श्विनोः᳚ पू॒षन्-वा॒चः स॒त्यꣳ स॑निं॒धाय॑ । अनृ॑ते॒नासु॑रा-न॒भ्य॑भवन्न् । ते᳚ऽश्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं॒ निर॑वपन्न् । ततो॒ वै ते वा॒चः स॒त्यमवा॑रुन्धत
कोर्वै (Index)
(अ॒र्द्ध॒य॒ति॒ - भ॒व॒ - त्य॒रु॒न्ध॒त॒ - ग॒म॒य॒न्ति॒ द्वे च॑)
1.8.3.4
यद॒श्विभ्यां᳚ पू॒ष्णे पु॑रो॒डाशं॒ द्वाद॑शकपालं नि॒र्वप॑ति । अनृ॑तेनै॒व भ्रातृ॑व्या-नभि॒भूय॑ । वा॒चः स॒त्यमव॑रुन्धे । सर॑स्वते सत्य॒वाचे॑ च॒रुम् । पूर्व॑मे॒वोदि॒तम् । उत्त॑रेणा॒भि गृ॑णाति । स॒वि॒त्रे स॒त्यप्र॑सवाय पुरो॒डाशं॒ द्वाद॑शकपालं॒ प्रसू᳚त्यै । दू॒तान्-प्रहि॑णोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैनं॑ गमयन्ति ( ) । अथो॑ दू॒तेभ्य॑ ए॒व न छि॑द्यते । ति॒सृ॒ध॒न्वꣳ शु॑ष्कदृ॒तिर्-दक्षि॑णा॒ समृ॑द्ध्यै ।
कोर्वै (Index)
(अ॒र्द्ध॒य॒ति॒ - भ॒व॒ - त्य॒रु॒न्ध॒त॒ - ग॒म॒य॒न्ति॒ द्वे च॑)