TB 1.8.5

6 पञ्चाशत्

1.8.5 अनुवाकं 5 - सौत्रामणिः, पशवः, हवींषि च

1.8.5.1
इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धेन्द्रि॒यं ॅवी॒र्यं॑ परा॑ऽपतत् । स यत् प्र॑थ॒मं नि॒रष्ठी॑वत् । तत्-क्व॑लमभवत् । यद्-द्वि॒तीय᳚म् । तद्-बद॑रम् । यत्-तृ॒तीय᳚म् । तत्-क॒र्कन्धु॑ । यन्न॒स्तः । स सिꣳ॒॒हः । यदक्ष्योः᳚
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)
1.8.5.2
स शा᳚र्दू॒लः । यत्-कर्ण॑योः । स वृकः॑ । य ऊ॒र्द्ध्वः । स सोमः॑ । या ऽवा॑ची । सा सुरा᳚ । त्र॒याः सक्त॑वो भवन्ति । इ॒न्द्रि॒यस्याव॑-रुद्ध्यै । त्र॒याणि॒ लोमा॑नि
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)
1.8.5.3
त्विषि॑मे॒वाव॑ रुन्धे । त्रयो॒ ग्रहाः᳚ । वी॒र्य॑मे॒वाव॑ रुन्धे । नाम्ना॑ दश॒मी । नव॒ वै पुरु॑षे प्रा॒णाः । नाभि॑र्दश॒मी । प्रा॒णा इ॑न्द्रि॒यं ॅवी॒र्य᳚म् । प्रा॒णाने॒वेन्द्रि॒यं ॅवी॒र्यं॑ ॅयज॑मान आ॒त्मन्-ध॑त्ते । सीसे॑न क्ली॒बाच्छष्पा॑णि क्रीणाति । न वा ए॒तदयो॒ न हिर॑ण्यम्
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)
1.8.5.4
यथ्-सीस᳚म् । न स्त्री न पुमान्॑ । यत्-क्ली॒बः । न सोमो॒ न सुरा᳚ । यथ्-सौ᳚त्राम॒णी समृ॑द्ध्यै । स्वा॒द्वीं त्वा᳚ स्वा॒दुनेत्या॑ह । सोम॑मे॒वैनां᳚ करोति । सोमो᳚ऽस्य॒श्विभ्यां᳚ पच्यस्व॒ सर॑स्वत्यै पच्य॒स्वेन्द्रा॑य सु॒त्राम्णे॑ पच्य॒स्वेत्या॑ह । ए॒ताभ्यो॒ ह्ये॑षा दे॒वता᳚भ्यः॒ पच्य॑ते । ति॒स्रः सꣳसृ॑ष्टा वसति
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)
1.8.5.5
ति॒स्रो हि रात्रीः᳚ क्री॒तः सोमो॒ वस॑ति । पु॒नातु॑ ते परि॒स्रुत॒मिति॒ यजु॑षा पुनाति॒ व्यावृ॑त्त्यै । प॒वित्रे॑ण पुनाति । प॒वित्रे॑ण॒ हि सोमं॑ पु॒नन्ति॑ । वारे॑ण॒ शश्व॑ता॒ तनेत्या॑ह । वारे॑ण॒ हि सोमं॑ पु॒नन्ति॑ ।वा॒युः पू॒तः प॒वित्रे॒णेति॒ नैतया॑ पुनीयात् । व्यृ॑द्धा॒ ह्ये॑षा । अ॒ति॒प॒वि॒तस्यै॒तया॑ पुनीयात् । कु॒विद॒ङ्गे-त्यनि॑रुक्तया प्राजाप॒त्यया॑ गृह्णाति
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)
1.8.5.6
अनि॑रुक्तः प्र॒जाप॑तिः । प्र॒जाप॑ते॒राप्त्यै᳚ । एक॑य॒र्चा गृ॑ह्णाति । ए॒क॒धैव यज॑माने वी॒र्यं॑ दधाति । आ॒श्वि॒नं धू॒म्रमा ल॑भते । अ॒श्विनौ॒ वै दे॒वानां᳚ भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒जं क॑रोति । सा॒र॒स्व॒तं मे॒षम् । वाग्वै सर॑स्वती । वा॒चैवैनं॑ भिषज्यति ( ) । ऐ॒न्द्रमृ॑ष॒भꣳ से᳚न्द्र॒त्वाय॑ ।
कोर्वै (Index)
(अक्ष्यो॒र् - लोमा॑नि॒ - हिर॑ण्यं - ॅवसति - गृह्णाति - भिषज्य॒त्येकं॑ च)