जा॒मि वा ए॒तत् कु॑र्वन्ति । यथ्स॒द्यो दी॒क्षय॑न्ति स॒द्यः सोमं॑ क्री॒णन्ति॑ । पु॒ण्ड॒रि॒स्र॒जां प्रय॑च्छ॒त्यजा॑मित्वाय । अङ्गि॑रसः सुव॒र्गं ॅलो॒कं ॅयन्तः॑ । अ॒फ्सु दी᳚क्षात॒पसी॒ प्रावे॑शयन्न् । तत् पु॒ण्डरी॑क-मभवत् । यत् पु॑ण्डरिस्र॒जां प्र॒यच्छ॑ति । सा॒क्षादे॒व दी᳚क्षात॒पसी॒ अव॑रुन्धे । द॒शभि॑र्वथ्सत॒रैः सोमं॑ क्रीणाति । दशा᳚क्षरा वि॒राट्
कोर्वै (Index)
(वि॒राट् - प्र॒जाप॑ति॒ - रश्वः॑ प्र॒जाप॑ते॒राप्त्यै॑ - यजते - ब्रह्मसा॒मं भ॑वति स॒प्त च॑)