अ॒ग्नि॒ष्टो॒ममग्र॒ आह॑रति । य॒ज्ञ्॒मु॒खं ॅवा अ॑ग्निष्टो॒मः । य॒ज्ञ्॒मु॒खमे॒वारभ्य॑ स॒वमाक्र॑मते । अथै॒षो॑-ऽभिषेच॒नीय॑-श्चतुस्त्रिꣳ॒॒शप॑वमानो भवति । त्रय॑स्त्रिꣳश॒द्वै दे॒वताः᳚ । ता ए॒वाप्नो॑ति । प्र॒जाप॑ति-श्चतुस्त्रिꣳ॒॒शः । तमे॒वाप्नो॑ति । सꣳ॒॒श॒र ए॒ष स्तोमा॑ना॒मय॑थापूर्वम् । यद्-विष॑माः॒ स्तोमाः᳚
कोर्वै (Index)
(स्तोमाः᳚-प॒शव॑ उ॒क्थान्येकं॑ च)