यत्-त्रि॒षु यूपे᳚ष्वा॒-लभे॑त । ब॒हि॒र्द्धा ऽस्मा॑दिन्द्रि॒यं ॅवीर्यं॑ दध्यात् । भ्रातृ॑व्यमस्मै जनयेत् । ए॒क॒यू॒प आल॑भते । ए॒क॒धैवास्मि॑-न्निन्द्रि॒यं ॅवी॒र्यं॑ दधाति । नास्मै॒ भ्रातृ॑व्यं जनयति । नैतेषां᳚ पशू॒नां पु॑रो॒डाशा॑ भवन्ति । ग्रह॑पुरोडाशा॒ ह्ये॑ते । यु॒वꣳ सु॒राम॑मश्वि॒नेति॑ सर्वदेव॒त्ये॑ याज्यानुवा॒क्ये॑ भवतः । सर्वा॑ ए॒व दे॒वताः᳚ प्रीणाति
कोर्वै (Index)
(प्र॒॒णा॒ति॒ - प्र॒थ॒मो - दक्षि॑णा - स॒मव॑नयति - धा॒रय॑ - तीन्द्रि॒याणि॑ च॒त्वारि॑ च)